गायत्रीनिर्वाणम्
अग्निरुवाच ।
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।
निर्वाणं(१)परमं ब्रह्म वसिष्ठोऽन्यश्च शङ्करात्(२)॥ १॥
नमः कनकलिङ्गाय(३)वेदलिङ्गाय वै नमः ।
नमः परमलिङ्गाय(४)व्योमलिङ्गाय वै नमः ॥ २॥
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥ ३॥
नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने ॥ ४॥
नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥ ५॥
नमोऽहङ्कारलिङ्गाय भूतलिङ्गाय वै नमः ।
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥ ६॥
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ।
नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय(१)वै नमः(२)॥ ७॥
नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।
नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥ ८॥
नमो वायूर्ध्वलिङ्गाय(३)श्रुतिलिङ्गाय वै नमः ।
नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय(४)वै नमः ॥ ९॥
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने(५)॥ १०॥
दिश नः परमं योगमपत्यं मत्समन्तथा ।
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो(६)॥ ११॥
अक्षयत्वञ्च वंशस्य धर्मे च मतिमक्षयाम् ।
अग्निरुवाच ।
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥ १२॥
वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥ १३॥
इत्याग्नेये महापुराणे गायत्रीनिर्वाणं नाम
सप्तदशाधिकद्विशततमोऽध्यायः ।
अग्निपुराण । अध्याय २१७/२-१३॥
agnipurANa . adhyAya 217/2-13..
Proofread by PSA Easwaran