गायत्रीस्तोत्रम् ३
श्रीः ।
यस्मिन्दृष्टे नैव दृश्येत विश्वं यस्मिंलब्धे नैव लब्धव्यशेषः ।
यस्मिन् ज्ञाते नैव वेद्यान्तराशा गायत्र्यर्थं पञ्चवक्त्रं प्रपद्ये ॥ १॥
या गायत्री नामधेयं महार्थं सार्थं कर्तुं सम्प्रविष्टोपनाये ।
मार्गे मन्त्रान् सर्वतो दर्शयित्वा तारे लीना सर्ववेदार्थदीपे ॥ २॥
श्रोतव्यं मे वाक्यमेतत्समस्तैर्वर्णैर्भाव्यं स्वाश्रमप्राप्तचिह्नैः ।
तेभ्यस्तुष्येच्छङ्करः श्रीहरिर्वा प्रष्टव्यो वः श्रीगुरुः स्वैर्विनीतैः ॥ ३॥
गायत्री चेत्सम्यगाप्ता क्रमेण सा सञ्जप्ता कर्मशुद्धया द्विजेन ।
सा विज्ञाता गोपिता सम्प्रदायात्किं नो दद्याद्वेदमाता मता चेत् ॥ ४॥
बुद्धावीशारोहणं कर्म तस्याः सा चेत्यक्ता त्यक्त ईशो द्विजेन ।
यस्यां सर्वा देवताः सम्प्रविष्टाः सर्वात्मानं मन्त्रराजं प्रपद्ये ॥ ५॥
विष्णुः शम्भुर्भास्करो विघ्नराजो या वा का वा देवताऽस्या विभूतिः ।
सैकोपास्या वेदमार्गैकनिष्ठैः क्षीराब्धौ किं दुग्धभिक्षाप्रयासः ॥ ६॥
नेयं लभ्या मानुषाणां झषाणां गङ्गाशब्दो मानुषत्वैकहेतुः ।
यस्या लब्ध्यै वेदिकाग्रेसराणां वंशे वेदैः संस्कृते जन्महेतुः ॥ ७॥
मन्त्रैः किं तैर्यैः प्रतीक्ष्येत देवी गायत्र्यम्बा सम्प्रवेष्टुं द्विजेषु ।
देवैः किं तैरग्निना पुष्टिमद्भिस्तस्माद्भस्मोद्भूषितैः सा निषेव्या ॥ ८॥
दत्तं भस्म श्रीत्रिपादाम्बयैतन्त्र्यङ्घ्रेरग्नेः शेषरूपं स्वरूपम् ।
तस्माद्भस्म प्रोच्यते भासनाच्च भूतिर्गायत्र्यम्बयैक्यास्त्त्रिपुण्ड्रम् ॥ ९॥
शैवोऽन्यो वा यां विना किं द्विजः स्याच्छैवोऽन्यो वा दीक्षया वेदमातुः ।
तस्माच्छैवो वैष्णवोऽन्येषु गण्यो गायत्र्णाप्ता ब्रह्मता वेदमान्या ॥ १०॥
भेदापोहव्यापृतिं सा बिभर्ति ध्यानैर्भिन्नैर्ध्याननिष्ठैकवेद्याम् ।
तस्मान्नामान्यत्र संयान्ति सर्वाण्यस्या निष्ठा शाम्भवी वैष्णवी च ॥ ११॥
लोकस्थास्ते विष्णुरुद्रादिदेवाः कैश्चित्कामैः कैश्चिदेवाधिकारैः ।
गायत्र्यास्ता मूर्तयः सेवनीया गायत्र्यां ते सेविताः सम्भ्रमेण ॥ १२॥
ब्रह्मत्वं चेदाप्तुकामोऽस्युपास्व गायत्रीं चेल्लोककामोऽन्यदेवम् ।
कामो ज्ञातः स्वीयपादप्रवृत्या वादः को वा तृप्तिहीने प्रवृत्तिः ॥ १३॥
बुद्धेः साक्षी बुद्धिगम्यो जपादौ गायत्र्यर्थः सोऽनघो वेदसारः ।
तद्ब्रह्मैव ब्रह्मतोपासकस्याप्येवं मन्त्रः कोऽस्ति तन्त्रे पुराणे ॥ १४॥
जात्यश्वः किं जातिमाप्तुं सकामो गत्यभ्यासात्स्पष्टतामेति जातिः ।
ब्रह्मत्वाप्तौ कः प्रयासो द्विजानां यद्गायत्र्या व्यज्यते चाष्टमेऽब्दे ॥ १५॥
ब्रह्मत्वस्य ख्यापनार्थं प्रविष्टा गायत्रीयं तावतास्यद्विजत्वम् ।
कर्णद्वारा ब्रह्मजन्मप्रदानादुक्तो वेदे ब्राह्मणो ब्रह्मनिष्ठः ॥ १६॥
एषा निष्ठा दुर्लभा मर्त्यबुद्धौ तस्माल्लोके वैष्णवाः शाम्भवाश्च ।
भिन्नं भिन्नं मार्गमास्थाय वेदं क्षामं कुर्वन्त्यास्तिकच्छद्मने मे ॥ १७॥
पक्षिद्वन्द्वं विद्यते स्वस्वदेहे भोक्तारं सा ध्यानमाचष्ट एतत् ।
यावत्क्षीणा भोक्तृता स्यात्ततस्तु ज्ञात्वा ब्रूयाद्रुह्मतां स्वस्य विद्वान् ॥ १८॥
गायत्र्यर्थं नो विजानाति कश्चित्तस्मादन्यं देवमाह द्विजोऽपि ।
विज्ञातश्चेत्सर्ववादस्य शातिर्मुक्तिर्हस्ते गायमानस्य मन्त्रम् ॥ १९॥
भस्मान्तं चेद्विश्वमेतत्समस्तं भस्मोद्भूतं भस्म सम्भासते च ।
तस्माद्ब्रह्म प्राहुराद्यैर्वचोभिर्वेदास्तस्माद्भस्म लिङ्गं द्विजानाम् ॥ २०॥
इति श्रीशङ्कराचार्याभिप्रायःकृष्णभिक्षुणा ।
वर्णितस्तेन गायत्री विभूत्या सह नन्दतु ॥ २१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यकृष्णानन्दसरस्वतीविरचितं
गायत्रीस्तोत्रं सम्पूर्णम् ।
Proofread by Nat Natarajan, NA