गङ्गाष्टकम्
॥ श्रीगणेशाय नमः ॥
गङ्गानङ्गारिसङ्गा सरिदुपरि परिक्रीडमाना विमाना-
दव्यादव्याजभाजः कलितकलितमोहारि मोहारिवारि ॥
यत्कूले कोलकोलाहलिनि हलिनिभे केतकस्वच्छकच्छ-
च्छायानायासिकायानुपतनपवनः सेवते देवतेन्द्रान् ॥ १॥
मातर्मातङ्गसङ्गास्तिमिततिमितनूर्धारि विस्तारि वारि
ताराकारानुकारा तरलतरलकैश्चामरैश्चामरीणाम् ।
सान्तः स्वान्तः कदान्तःशमितकलितमस्तोमदाहं मुदाहं
दक्षाभिक्षामितार्तिस्तव भवदवसंहारिशङ्कारिहारि ॥ २॥
यन्नापन्नाससूरे सुरधुनि विधुनिस्यन्दनिस्पन्दधुर्ये
देहं तेऽहंसगेहं वहति वहति सन्मानसं मानसङ्गात् ।
किं तेन स्तेनभावं भवभविकमिदं बिभ्रतादभ्रतापं
व्यायत्तेनाप्तवातप्रसरसरणिनां मद्विधानां बुधानाम् ॥ ३॥
यैनोन्मीलन्मरालीविमलकुलमिलत्सारसी सारशीलं
दुःशीलैदेवि ? देवैरकलितमकलि त्वद्वपुवार्विपुष्टैः ।
तेषां द्वेषाधिदोषाकलितकलितरा शृङ्खला शृङ्खलानाम् ।
छायामायानिकायादननुगुणगणाः संस्रवन्ति श्रवन्ति ॥ ४॥
वातव्याधूतनूतावलिगलितरजोराजिविभ्राजिताभ्रा
भ्राम्यबृङ्गालिकेलीकलितकलकला नदनं दन्मुतीयम् ।
अम्भस्तम्बेरमालीमिलदमलरदारब्धविस्रब्धरोधो
रोधः कर्मादिकर्मप्रसरसरभसं प्रश्रयेनाश्रयन्ते ॥ ५॥
सर्पत्कर्पूरपूरोज्ज्वलजलपटलप्राणिभिः प्राणितार्थेऽ
त्यर्थ व्यर्थं कृतार्थ कृतमपि सुकृतैर्मन्यते जन्म तेषाम् ।
संसारासारकारासरणिपरिणतैर्बन्धभिर्बन्धमुक्तैः
धीर्मुक्तैमुक्तिमूर्तिर्भगवति ! भवती यैरदृष्ट्यारदृष्ट्या ॥ ६॥
लोलत्कल्लोलकोलाहलवहलदलोत्तालवालाविलासा ।
बंहद्वृन्दारबन्दाकरणिकरकरासङ्गरिङ्गद्विहङ्गा ।
एकादोषाप्यशेषा विकरविकरिणारम्भसंरम्भवर्या
कुर्याद्धर्या धुरीणां भविकमविकलं सप्रभावप्रभावः ॥ ७॥
रामारामाभिरामं चतुरगतुरगं । तुङ्गमातङ्गसङ्गं
भ्राज्यं प्राज्यं न राज्यं भगवति भवति प्रेयसे श्रेयसे वा ।
सेवा ते वा क्क देवा सुरशिरसि गिरा नन्दते वन्दते चेत्
सिद्धीनां सिद्धिसिन्धो न तवनतरवः सनिधानं निधानम् ॥ ८॥
गर्भावि वि भूयः परिमलपरिमालंवरोलम्बरोलै
चालैः पुष्पजालैः पटुविटपितटी बिभ्रती शुभ्रतीरा ।
ध्वस्ताधिव्याधिवाचाविधुरविधुसुधामेदुरा मे दुरापः ।
पायानः पातु गौरी गुरुगिरिशिरसि स्वः श्रवन्ती श्रवन्ती ॥ ९॥
वरं त्वदीये पुलिने पुलिन्दा मन्दाकिनीक्षालितपापकन्दा ।
मन्दारमालामलकण्ठनाला न भूमिपाला न च लोकपालाः ॥ १०॥
इति श्री हनुमद्विरचितं गङ्गाष्टकं सम्पूर्णम् ।
Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com