गङ्गाकवचम्
नारद उवाच -
ब्रह्मन् ! केन विधानेन सर्वपापक्षयो भवेत् ।
कथं रक्षेत्सुरश्रेष्ठ साधकानां सुरापगा ॥ १॥
ब्रह्मोवाच -
साधु साधु त्वया पुत्र ! साधु कर्म प्रकाशितम् ।
कवचं जह्नुकन्याया त्रिषु लोकेषु दुर्लभम् ॥ २॥
अप्रकाश्यं च यद्गोप्यमतस्तत्त्ववधार्यताम् ।
अस्य श्री गङ्गाकवचमन्त्रस्य नारायणऋषिरनुष्टुप्छन्दः
सर्वतीर्थोत्तमा गङ्गादेवता गं बीजं गाः शक्तिः अव्यक्तं कीलकं
श्रीगङ्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।
अथ ध्यानं -
शुभ्राम्भोजशशिप्रभां शशिमुखीं स्वक्षाम्बुजाक्षीं परां
मुक्ताहारलसत्कुचां मणिमयैराभूषितां भूषणैः ।
कञ्जस्वर्णघटीवराभयकरां श्वेताम्बराडम्बरां
पद्मोत्पीठगतां सुधासमुदितां श्रीदेवभूषां भजे ॥ १॥
वन्दे देवतरङ्गिणीं प्रतिदिनं ब्रह्माण्डमाखण्डिनीं
शम्भोर्मस्तकमण्डिनीं मुररिपोरङ्घ्य्म्बुजासेविनीम् ।
कल्याणोत्सवकारिणीं कलिमलोन्मूलत्वनिर्मूलिनी
मोक्षद्वारकपाटपाटनकरीं नित्यं चिदानन्दिनी ॥ २॥
अथ कवचं -
शिरो मे पातु सा गङ्गा दिव्याच्युताङ्घ्रिच्युता ।
भालं भागीरथी पातु नेत्रे च जह्नुनन्दिनी ॥ ३॥
श्रुती मे जाह्नवी पातु घ्राणयुग्मं सुरापगा ।
रसनां पातु मे नित्यं गङ्गा पापप्रणाशिनी ॥ ४॥
वदनं सकलं पातु सदा मन्दाकिनी मम ।
स्कन्धौ पातु च मे बाहू गङ्गा सागरगामिनी ॥ ५॥
करौ रक्षतु सा गङ्गा शम्भुमस्तकमण्डिनी ।
हृदयं नाभिमध्यं च पातु देवनदी मम ॥ ६॥
कटिद्वयं सदा पातु ब्रह्माण्डखण्डिनी मम ।
जानुनी जह्नुजा पातु पायादूरूं त्रिमार्गगा ॥ ७॥
गुल्फयुग्मं सदा पातु सा मे शर्मप्रदायिनी ।
प्रपदं पातु मे नित्यं कलिकल्मषनाशिनी ॥ ८॥
काशीतलगता या च कालिन्दीसङ्गमा च या ।
सा पातु मम सर्वाङ्गं गङ्गा गगनमेखला ॥ ९॥
निर्जरैर्वन्दिता या च चतुर्वर्गफलप्रदा ।
तस्या इदं च गङ्गायाः कवचं परमाद्भुतम् ॥ १०॥
अथ फलश्रुतिः -
अनन्तव्याधिविध्वंसि कीर्तिबुद्धिप्रवर्द्धनम् ।
शोकदुःखप्रशमनं सर्वरक्षाकरं नृणाम् ॥ ११॥
शत्रोर्विनाशनं शश्वत्सुखसम्पत्प्रवर्धनम् ।
योऽधीयात् कवचं चैतन्मुक्तपापो भवेच्च सः ॥ १२॥
एककालं द्विकालं च त्रिकालं च पठेत्तु यः ।
पठेद्यो वै शतावृत्त्या मासमेकं निरन्तरम् ॥ १३॥
धृत्वेदं कवचं कण्ठे गच्छेद्यो यत्र कुत्रचित् ।
स्वप्ने मूर्तिमयीं गङ्गां वरदां सोऽपि पश्यति ॥ १४॥
धनधान्यसमायुक्तः पुत्रपौत्रसमन्वितः ।
त्रिषु लोकेषु पूज्यः स्यादस्य पाठान्न संशयः ॥ १५॥
शृणुयात्परया भक्त्या वाच्यमानं नरोत्तमः ।
सोऽप्यघौघविनिर्मुक्तो जीवन्मुक्तो भवेच्च यः ॥ १६॥
दुर्भिक्षे दुर्गबन्धे विषमजलचये कानने दुष्टचौरैः
दीप्ते वह्निप्रदाहे प्रबलरिपुभये राज्यदुःखे प्रवृत्ते ।
स्मृत्वा देवीं च गङ्गां त्रिभुवनजननीं वा पठेद् यो हि चैतत्
तैस्तैर्दुखैर्विमुक्तो सपदि स मनुजो जायते सत्यमेतत् ॥ १७॥
कुलीनाय च दातव्यं गङ्गाभक्तिपराय च ।
विष्णुभक्ताय शान्ताय श्रद्दधानाय सर्वदा ॥ १८॥
कुशिष्याय न दातव्यं दुष्टाय च विशेषतः ।
दत्वाऽभक्ताय पुत्राय नेदं फलप्रदं भवेत् ॥ १९॥
साधकाय च शान्ताय गुरोराज्ञानुवर्तिने ।
दातव्यं च त्वया तात दत्वाऽनन्तफलं भवेत् ॥ २०॥
इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसम्वादे
श्रीगङ्गाकवचं सम्पूर्णम् ॥
Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com