गङ्गामङ्गलम्
श्रीगणेशाय नमः ।
हरिचरणचारिणी शिशिरगिरिदारिणी कलुषभरवारणतरङ्गा
नियतकलनादिनी विमलजलशालिनी तारिणी जयति भुवि गङ्गा ।
नित्यमिह तापसा धर्मचितमानसाः स्नानविधिलब्धनवदेहाः
कृतबहुलदुष्कृता अपि कलुषवर्जिता दधति मुदमाप्तसुरगेहाः ॥ १॥
पूततमसैकते धवलसिकतावृते योगिनो जपनियममग्नाः
स्वनयननिमीलना गतविषयदर्शना ध्येयसुरसंस्मरणलग्नाः ।
बन्धविनिवृत्तये हसितजलसञ्चये प्रतिदिवसमत्र समवेताः
क्लेशशतमञ्जसा पुण्यचितचेतसा वृण्वते सम्मदमुपेताः ॥ २॥
वणिगुचितकर्मणा तरणिशतशोभनासुमपकृतिमत्र भुवि धत्त्
मकरवरवाहना जनपदहितैषणाव्याकुला सुकृतमपि दत्ते ।
ऐहिकशुभाशमा परमपदवाञ्छया यामिमां श्रयति जनमाला
जयति भयहारिका जहुमुनिदारिका सा चिरं विजितकलिकाला ॥ ३॥
त्रिभुवनमिदं यया धन्यमनुवृत्तया लोकयुगकुशलशतसृष्टया
रोगगणनाशिनी पृष्टिपरिवेशिनी दशहरा शास्त्रविधिदृष्टया ।
तीरतरुमजुला जलधिमभि चञ्चला सेयमहिमङ्गलतरङ्गा
गिरिशशिरसार्चिता सुरमनुजपूजिता पावनी जयति भुवि गङ्गा ॥ ४॥
ब्रह्माण्डोदरभेदनाद् भगवतः पादाङ्गुलीनां नखैः
जातो यो विवरस्ततोर्चनजलस्रोतोऽवहद् वेगतः ।
तस्माच्छम्भुशिरस्ततो हिमगिरिं तस्मादिदं भूतलं
गङ्गागत्य पुनाति सर्वभुवनं श्रीभक्तिभागीरथी ॥ ५॥
इति गङ्गामङ्गलं सम्पूर्णम् ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com