गङ्गास्तवः

गङ्गास्तवः

प्रयाताऽगात्तुङ्गाद्विधिभवनरङ्गालयतले निवासाकाशाच्चेदतितपस आशुप्रपतिता । अनङ्गारेरङ्गात्कनखलसुसङ्गात्प्रचलिता प्रयागात्सा गङ्गा प्रकटिततरङ्गाऽर्णवगता ॥ १॥ औदार्यन्तेऽनिवार्यं कथय कथमहो कार्यधार्यप्रपन्न मासन्नं ते विलसतिजने भुक्तिमुक्तिर्वदामि । स्वामित्वं त्वं दिशसि नितरां पामराणां नराणां मान्यं नान्यं भुवनभवने यत्परं प्रार्थयामि ॥ २॥ गाङ्गे जले यः प्रविगाहते तेऽमृते च शेतेऽहिपतेः शरीरे । तीरे गता ये दुरितावृताङ्गाः साङ्गाः परीवारयुता विशुद्धाः ॥ ३॥ पापी तापी सशापी सुरसरिदवनो मध्यगो यः सुरापी कापीयञ्चाभितापी सदयहृदयतश्चेत्प्रतापी च जापी । दाता माता जनकगुरुगोभक्तियुक्तः प्रयाति शम्भुत्वं ते जललवयुतश्चोद्धृतिर्वै विचित्रा ॥ ४॥ दानैर्ज्ञानैश्च गानैर्व्रतनियमगणैर्योगयागावदानै- र्यानैर्वायोर्विधानैर्जपभजनदयातीर्थयात्रादिकानाम् । सन्मानैर्भूसुराणां दिशति हरिहरावात्मलोकं हि गङ्गे ! पापीनां त्वं विनैभिर्हरिहरमकरोत्को वदाग्रस्तदन्यः ॥ ५॥ गङ्गेऽति चिन्ता हृदये मदीये लोकैस्तिरस्कारवृतं शरीरम् । क्लिन्नं गलत्कुष्ठयुतं विभिन्नं छिन्नं कथं विष्णुशिवं करोषि ॥ ६॥ नाश्चर्यमेत्तव लोकमातर्माताऽऽत्मपुत्रं कुरुते पवित्रम् । मूत्रैर्मलेधूलिभिरावृतं तं स्वाङ्के करोत्यम्बुनिजाञ्चलैश्च ॥ ७॥ चित्रगुप्त इह यस्य पातके लेखनेन शिथिलीकृताङ्गुलिः । तारयेद्यदि महत्त्वमम्ब ! तत्ते द्विजे खलु प्रयागदत्तके ॥ ८॥ इति श्रीमद्रामकुमारात्मजप्रयागदत्तविरचितः गङ्गास्तवः समाप्तः । Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com
% Text title            : Gangastavah by Prayagadatta
% File name             : gangAstavaHprayAgadatta.itx
% itxtitle              : gaNgAstavaH (prayAgadattavirachitam)
% engtitle              : gangAstavaH by prayAgadatta
% Category              : devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Pragadatta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar shreeshrii at gmail.com
% Proofread by          : Shree Devi Kumar shreeshrii at gmail.com
% Indexextra            : (Scan)
% Latest update         : November 3, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org