गङ्गास्तोत्रम्

गङ्गास्तोत्रम्

विप्रा ऊचुः- स्तोत्रे श‍ृणु यथाप्रोक्ते खण्डे प्रकृतिसंज्ञके । शिवागमे च गङ्गायाः महापापप्रणाशने ॥ १॥ श्रीनारायण उवाच- शिवसङ्गीतसम्मुग्धश्रीकृष्णाङ्गसमुद्भवाम् । राधाङ्ग इव संयुक्तां तां गङ्गां प्रणमाम्यहम् ॥ २॥ यज्जन्म सृष्टेरादौ च गोलोके रासमण्डले । सत्रिधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥ ३॥ गोपैर्गोम्पिभिराकीर्णे शुभे राधामहोत्सवे । कार्तिकीपूर्णिमाजातां तां गङ्गां प्रणमाम्यहम् ॥ ४॥ कोटियोजनविस्तीर्णां दैयैर्लक्षगुणा ततः । समावृता या गोलोकं तां गङ्गां प्रणमाम्यहम् ॥ ५॥ षष्टिलक्षयोजना या ततो दैध्ये चतुर्गुणा । समावृता या वैकुण्ठं तां गङ्गां प्रणमाम्यहम् ॥ ६॥ त्रिंशल्लक्षयोजना या दैध्यें पञ्चगुणा ततः । प्रावृता शिवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ७॥ लक्षयोजनविस्तीर्णा दैध्यें सप्तगुणा ततः । आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ८॥ लक्षयोजनविस्तीर्णा दैध्यें दशगुणा ततः । आवृता चन्द्रलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ९॥ षष्टिसहस्रयोजना या दैध्यें दशगुणा ततः । आवृता सूर्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १०॥ लक्षयोजनविस्तीर्णा दैध्यें पञ्चगुणा ततः । आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ११॥ दशलक्षयोजना या दैध्यें पञ्चगुणा ततः । आवृता तपोलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२॥ सहस्रयोजना या दैध्यें दशगुणा ततः । आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १३॥ सहस्रयोजनायामा दैध्यें सप्तगुणा ततः । आवृता या च कैलासं तां गङ्गां प्रणमाम्यहम् ॥ १४॥ शतयोजनविस्तीर्णा दैध्यें दशगुणा ततः । मन्दाकिनी येन्द्रलोकं तां गङ्गां प्रणमाम्यहम् ॥ १५॥ पाताले या भोगवती विस्तीर्णा दशयोजना । ततो दशगुणा दीघीं तां गङ्गां प्रणमाम्यहम् ॥ १६॥ क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् । क्षितौ याऽलकनान्दाख्या तां गङ्गां प्रणमाम्यहम् ॥ १७॥ सत्ये या क्षीरवर्णा च त्रेतायां क्षीरसत्रिभा । द्वापरे चन्दनाभा च तां गङ्गां प्रणमाम्यहम् । जलप्रभा कलौ या च नान्यत्र पृथिवीतले ॥ १८॥ स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् । यस्या प्रभावमतुलं पुराणे च श्रुतौ श्रुतम् ॥ १९॥ या पुण्यदा पापहन्त्री तां गङ्गां प्रणमाम्यहम् । यत्तोयकणिकास्पर्श पापिनां च पितामह । ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ २०॥ इत्येवं कथितं ब्रह्मन् गङ्गापद्यैकविंशतिः । स्तोत्ररूपं च परमं या पुण्यं पुण्यबीजकम् ॥ २१॥ नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् । सोऽश्वमेधफलं नित्यं लभते नात्र संशयः ॥ २२॥ अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् । रोगात्प्रमुच्यते रोगी बन्धान्मुक्तो भवेद्धवम् ॥ २३॥ अस्पष्टकीर्तिः सुयशा मूखों भवति पण्डितः । यः पठेत्प्रातरुत्थाय नित्यं स्तोत्रमिदं शुभम् ॥ २४॥ शुभं भवेच्च दुःस्वप्नो गङ्गास्नानफलं लभेत् । इति श्रीनानापुराणसारोद्धारे गङ्गाभक्तिप्रकाशे ब्रह्मवैवोक्त गङ्गास्तोत्रं सम्पूर्णम् । Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Text title            : Gangastotram 2
% File name             : gangAstotram2.itx
% itxtitle              : gaNgAstotram 2 (brahmavaivartapurANAntargatam shivasaNgItasammugdha)
% engtitle              : gaNgAstotram 2
% Category              : devii, nadI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Proofread by          : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Indexextra            : (Scan)
% Latest update         : October 26, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org