तीर्थगणैः कृता गङ्गास्तुतिः

तीर्थगणैः कृता गङ्गास्तुतिः

तीर्थान्यूचुः । ॐ नमो विमलवदनायै भूर्भुवःस्वःपरमहःकलायै केवलपरमानन्दसन्दोहरूपायै लोकत्रयामीववलाकातिमिरापसारकपरमज्योतिरूपायै असदपलापतिक्तरसदूषितरसनादोषापसारणपरमामृतरसरसायनामृतरूपायै । मूर्त्तिमत्यै कोटिकोटिचन्द्रधवलायै मकरासनायै ते ॥ गङ्गे देवि स्वर्धुनि विष्णुपादोद्भवे द्रवमयनारायणतैजसशीरद्रवशरीरे परमात्मन् प्रसीद प्रसीद ते नमो नमः ॥ नमस्ते देवदेवेशि गङ्गे त्रिपथगामिनि । त्रिलोचने श्वेतरूपे ब्रह्मविष्णुशिवार्च्चिते ॥ १॥ वेगखण्डितब्रह्माण्डकटाहे दोषखण्डिनि । रत्नकोटिकिरीटेन मण्डितामलमस्तके ॥ २॥ देवेदेव्यादिकैरीटस्पृष्टपादाम्बुजद्वये । कामदे कामरूपासि तीर्थानाञ्च प्रसूरसि ॥ ३॥ श्यामे श्यामलसच्चारुकुञ्चितामलकुन्तले । शिवप्रिये शिवाराध्ये शिवशीर्षकृतालये ॥ ४॥ शिवे शिवप्रदे शैवं कुर्वाणा निखिलं जगत् । अच्युतेऽच्युतभूषाढ्ये अच्युताङ्घ्रिसमुद्भवे ॥ ५॥ अच्युतात्मकदाब्जे धरागमनपावने । अच्युतप्रेमधाराढ्या ब्रह्माणी ब्रह्मरूपिणी ॥ ६॥ ब्रह्मानन्दमयी ब्रह्मप्रसूर्ब्रह्मरसामृता । ब्रह्मत्वदायिनी ब्रह्मनदी सुरधुनी सुरा ॥ ७॥ भेदशून्याऽभेदकारीभेदकप्राणहारिणी । अभेदबुद्धिरूपासि अभेदबुद्धिमत्प्रिये ॥ ८॥ सत्यप्रपञ्चरहिते अनिन्द्येदोषवर्ज्जिते । कमले विमले शुद्धे तत्त्वब्रह्मपरात्मिके ॥ ९॥ वेगाधारे वेगगमे स्थिरवायुप्रभेदिनि । सूर्यमण्डलसम्भिन्ने मन्दाकिनि महेश्वरि ॥ १०॥ सुरार्चिते महामल्ले कोकामुखि रणप्रिये । वलिमांसप्रिये कालि मत्स्यासवसुखग्रहे ॥ ११॥ जवारक्ताक्षि लोलाक्षि रक्तवस्त्रपिधायिनि । निःशङ्कसेव्ये निःसेव्ये निष्किञ्चनजनप्रिये ॥ १२॥ दिगम्बरप्रिये दिव्ये वीररूपे मनोहरे । आकाशनिलये देवि सदा पर्वतवासिनि ॥ १३॥ धरालये च पातालनिलये खेचरे चरे । सदा खड्गकरे भीमे महाभैरवसाधिते ॥ १४॥ भयहारे भयाधारे भवपत्रि भवानले । भावज्ञे भावरसिके गिरिजे गिरिश‍ृङ्गगे ॥ १५॥ श‍ृङ्गाटकगते कान्ते श‍ृङ्गाररसशोभने । कामरूपे कामभवे कामनाभवमन्मथे ॥ १६॥ दुर्गमे दुर्गतिहरे दुःखहन्त्रि सुखालये । हंसकारण्डवक्रौञ्चमण्डिकूलद्वये शुभे ॥ १७॥ देवानीसेविततटे स्मृतिपापविनाशिनि । ब्रह्महत्यादिपापेषु नाममात्रहमहाशने ॥ १८॥ सुखदे मोक्षदे मातः सर्वेषां जगतामपि । चाण्डालगृहिसन्न्यासि-योगिसेव्या च योगिनी ॥ १९॥ विषयाख्यविषज्वालाहरे विषहरे हरे । हारे दशहरे गङ्गे कलिपापहरे परे ॥ २०॥ हुङ्काररूपे प्रणवस्वरूपे ह्रींस्वरूपिणि । अम्बिके भगवत्यम्ब भीष्मसूस्ते नमो नमः ॥ २१॥ इष्टसिद्धिकरे स्फें स्फौं ह्रौं ह्रां स्वाहास्वरूपिणी । विमलमुखि चन्द्रमुखि कोलाहले सर्वे प्रसीद ॥ २२॥ राजलक्ष्मीश्च भूपानां गृहिणां गृहिणी शुभा । योगिनां योग एव त्वं मतिः सन्न्यासिनामपि ॥ २३॥ कवीनां विश्वतोदृष्टिर्बुद्धिस्त्वं राजसेविनाम् । लज्जाऽसि च कुलस्त्रीणां वालानां मधुरा च गीः ॥ २४॥ भवती समरे स्पर्द्धा साधूनाञ्च क्षमा खलु । सरस्वतीं च वाल्मीके व्यासे वाचालता तथा ॥ २५॥ श्रुतिः स्मृतिश्च संज्ञा च कवितालहरी तथा । गतिस्त्वमेव भूतानां मत्स्यानामुदकं यथा ॥ २६॥ जाड्यहन्त्री मन्त्ररूपा कालरूपा कपालिनी । कुमारी तरुणी वृद्धा रसज्ञा रससुन्दरी ॥ २७॥ स्वर्गे मन्दाकिनी त्वं हि देवदेवीनिषेविता । क्षितावलकनन्दा त्वं कृतार्थान् कुरुषे नरान् ॥ २८॥ पाताले नागलोकाद्यैर्भोगवत्यसि सेविता । पूर्वस्यां दिशि सीता त्वं भद्राख्या चोत्तरत्र वै ॥ २९॥ पश्चिमस्यां हि वङ्क्षुस्त्वमलकनन्दा च दक्षिणे । ब्राह्मी त्वं वैष्णवी शैवी कुमारी युवती तथा ॥ ३०॥ कपालमालिनी च त्वं विकटाक्षा सरस्वती । श्मशानवासिनी च त्वं चिताङ्गारास्थिसञ्चया ॥ ३१॥ सरस्वती जाह्नवी च गङ्गा भागीरथी शुभे । हंसी पद्ममुखी पद्मसहस्त्रदलवासिनी ॥ ३२॥ वयं तु मातः परममङ्गलायनवासावगाहदर्शनस्मरणेन विश्वानि तीर्थानि किलेतरथा ये पुनस्त्वयि भक्तास्तान्वयं पुनीमहे तद्विभूतिविशेषदिदृक्षया तत्र तत्र भ्रमतः । त्वय्यभक्तांस्तु दूरतस्त्यजामहे । त्वं पुनस्तत्तन्मयत्वाद्देवानां तीर्थानां धर्माणां माता सर्वसाक्षिणी प्रणम्यसे शतशः । प्रादुर्भावप्रलयौ नस्त्वत्त इति परमम् । किम्ब्रूमस्तव महिमा नास्ति यतो ब्रह्महत्यास्त्रीहत्या-गुरुहत्यादिमहापातकातिपातकानामेकाधिकरणञ्च । जनस्तज्जलकणसम्बन्धादिनैव पूतो भवतीति । तद्दर्शनादेव परमब्रह्मपदप्राप्तिः फलमिति च यो महिमपरमाह स तत्तत्पापभागिति यथार्थवादः ॥ ॥ इति बृहद्धर्मपुराणान्तर्गते तीर्थगणैः कृता गङ्गास्तुतिः सम्पूर्णा ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । गुणनिर्णय अध्यायः ५। ६०-९१॥ The shlokas have been renumbered for convenience of readers. Proofread by Ruma Dewan
% Text title            : Ganga Stuti by Tirthagana
% File name             : gangAstutiHtIrthagaNaiHkRRitA.itx
% itxtitle              : gaNgAstutiH tIrthagaNaiH kRitA (bRihaddharmapurANAntargatA)
% engtitle              : gangAstutiH tIrthagaNaiH kRRitA
% Category              : devii, devI, nadI, bRihaddharmapurANam
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : Brihaddharmapuranam | pUrvakhaNDaH | guNanirNaya adhyAyaH 5| 60-91||
% Indexextra            : (Scan)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org