तीर्थगणैः कृता गङ्गास्तुतिः
तीर्थान्यूचुः ।
ॐ नमो विमलवदनायै भूर्भुवःस्वःपरमहःकलायै केवलपरमानन्दसन्दोहरूपायै लोकत्रयामीववलाकातिमिरापसारकपरमज्योतिरूपायै असदपलापतिक्तरसदूषितरसनादोषापसारणपरमामृतरसरसायनामृतरूपायै । मूर्त्तिमत्यै कोटिकोटिचन्द्रधवलायै मकरासनायै ते ॥ गङ्गे देवि स्वर्धुनि विष्णुपादोद्भवे द्रवमयनारायणतैजसशीरद्रवशरीरे परमात्मन् प्रसीद प्रसीद ते नमो नमः ॥
नमस्ते देवदेवेशि गङ्गे त्रिपथगामिनि ।
त्रिलोचने श्वेतरूपे ब्रह्मविष्णुशिवार्च्चिते ॥ १॥
वेगखण्डितब्रह्माण्डकटाहे दोषखण्डिनि ।
रत्नकोटिकिरीटेन मण्डितामलमस्तके ॥ २॥
देवेदेव्यादिकैरीटस्पृष्टपादाम्बुजद्वये ।
कामदे कामरूपासि तीर्थानाञ्च प्रसूरसि ॥ ३॥
श्यामे श्यामलसच्चारुकुञ्चितामलकुन्तले ।
शिवप्रिये शिवाराध्ये शिवशीर्षकृतालये ॥ ४॥
शिवे शिवप्रदे शैवं कुर्वाणा निखिलं जगत् ।
अच्युतेऽच्युतभूषाढ्ये अच्युताङ्घ्रिसमुद्भवे ॥ ५॥
अच्युतात्मकदाब्जे धरागमनपावने ।
अच्युतप्रेमधाराढ्या ब्रह्माणी ब्रह्मरूपिणी ॥ ६॥
ब्रह्मानन्दमयी ब्रह्मप्रसूर्ब्रह्मरसामृता ।
ब्रह्मत्वदायिनी ब्रह्मनदी सुरधुनी सुरा ॥ ७॥
भेदशून्याऽभेदकारीभेदकप्राणहारिणी ।
अभेदबुद्धिरूपासि अभेदबुद्धिमत्प्रिये ॥ ८॥
सत्यप्रपञ्चरहिते अनिन्द्येदोषवर्ज्जिते ।
कमले विमले शुद्धे तत्त्वब्रह्मपरात्मिके ॥ ९॥
वेगाधारे वेगगमे स्थिरवायुप्रभेदिनि ।
सूर्यमण्डलसम्भिन्ने मन्दाकिनि महेश्वरि ॥ १०॥
सुरार्चिते महामल्ले कोकामुखि रणप्रिये ।
वलिमांसप्रिये कालि मत्स्यासवसुखग्रहे ॥ ११॥
जवारक्ताक्षि लोलाक्षि रक्तवस्त्रपिधायिनि ।
निःशङ्कसेव्ये निःसेव्ये निष्किञ्चनजनप्रिये ॥ १२॥
दिगम्बरप्रिये दिव्ये वीररूपे मनोहरे ।
आकाशनिलये देवि सदा पर्वतवासिनि ॥ १३॥
धरालये च पातालनिलये खेचरे चरे ।
सदा खड्गकरे भीमे महाभैरवसाधिते ॥ १४॥
भयहारे भयाधारे भवपत्रि भवानले ।
भावज्ञे भावरसिके गिरिजे गिरिशृङ्गगे ॥ १५॥
शृङ्गाटकगते कान्ते शृङ्गाररसशोभने ।
कामरूपे कामभवे कामनाभवमन्मथे ॥ १६॥
दुर्गमे दुर्गतिहरे दुःखहन्त्रि सुखालये ।
हंसकारण्डवक्रौञ्चमण्डिकूलद्वये शुभे ॥ १७॥
देवानीसेविततटे स्मृतिपापविनाशिनि ।
ब्रह्महत्यादिपापेषु नाममात्रहमहाशने ॥ १८॥
सुखदे मोक्षदे मातः सर्वेषां जगतामपि ।
चाण्डालगृहिसन्न्यासि-योगिसेव्या च योगिनी ॥ १९॥
विषयाख्यविषज्वालाहरे विषहरे हरे ।
हारे दशहरे गङ्गे कलिपापहरे परे ॥ २०॥
हुङ्काररूपे प्रणवस्वरूपे ह्रींस्वरूपिणि ।
अम्बिके भगवत्यम्ब भीष्मसूस्ते नमो नमः ॥ २१॥
इष्टसिद्धिकरे स्फें स्फौं ह्रौं ह्रां स्वाहास्वरूपिणी ।
विमलमुखि चन्द्रमुखि कोलाहले सर्वे प्रसीद ॥ २२॥
राजलक्ष्मीश्च भूपानां गृहिणां गृहिणी शुभा ।
योगिनां योग एव त्वं मतिः सन्न्यासिनामपि ॥ २३॥
कवीनां विश्वतोदृष्टिर्बुद्धिस्त्वं राजसेविनाम् ।
लज्जाऽसि च कुलस्त्रीणां वालानां मधुरा च गीः ॥ २४॥
भवती समरे स्पर्द्धा साधूनाञ्च क्षमा खलु ।
सरस्वतीं च वाल्मीके व्यासे वाचालता तथा ॥ २५॥
श्रुतिः स्मृतिश्च संज्ञा च कवितालहरी तथा ।
गतिस्त्वमेव भूतानां मत्स्यानामुदकं यथा ॥ २६॥
जाड्यहन्त्री मन्त्ररूपा कालरूपा कपालिनी ।
कुमारी तरुणी वृद्धा रसज्ञा रससुन्दरी ॥ २७॥
स्वर्गे मन्दाकिनी त्वं हि देवदेवीनिषेविता ।
क्षितावलकनन्दा त्वं कृतार्थान् कुरुषे नरान् ॥ २८॥
पाताले नागलोकाद्यैर्भोगवत्यसि सेविता ।
पूर्वस्यां दिशि सीता त्वं भद्राख्या चोत्तरत्र वै ॥ २९॥
पश्चिमस्यां हि वङ्क्षुस्त्वमलकनन्दा च दक्षिणे ।
ब्राह्मी त्वं वैष्णवी शैवी कुमारी युवती तथा ॥ ३०॥
कपालमालिनी च त्वं विकटाक्षा सरस्वती ।
श्मशानवासिनी च त्वं चिताङ्गारास्थिसञ्चया ॥ ३१॥
सरस्वती जाह्नवी च गङ्गा भागीरथी शुभे ।
हंसी पद्ममुखी पद्मसहस्त्रदलवासिनी ॥ ३२॥
वयं तु मातः परममङ्गलायनवासावगाहदर्शनस्मरणेन विश्वानि तीर्थानि किलेतरथा ये पुनस्त्वयि भक्तास्तान्वयं पुनीमहे तद्विभूतिविशेषदिदृक्षया तत्र तत्र भ्रमतः । त्वय्यभक्तांस्तु दूरतस्त्यजामहे । त्वं पुनस्तत्तन्मयत्वाद्देवानां तीर्थानां धर्माणां माता सर्वसाक्षिणी प्रणम्यसे शतशः । प्रादुर्भावप्रलयौ नस्त्वत्त इति परमम् । किम्ब्रूमस्तव महिमा नास्ति यतो ब्रह्महत्यास्त्रीहत्या-गुरुहत्यादिमहापातकातिपातकानामेकाधिकरणञ्च । जनस्तज्जलकणसम्बन्धादिनैव पूतो भवतीति । तद्दर्शनादेव परमब्रह्मपदप्राप्तिः फलमिति च यो महिमपरमाह स तत्तत्पापभागिति यथार्थवादः ॥
॥ इति बृहद्धर्मपुराणान्तर्गते तीर्थगणैः कृता गङ्गास्तुतिः सम्पूर्णा ॥
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । गुणनिर्णय अध्यायः ५। ६०-९१॥
The shlokas have been renumbered for convenience of readers.
Proofread by Ruma Dewan