श्रीगर्भस्तोत्रम्
ह्रीङ्कारोदरवाग्भवैकवसतिर्या कुण्डली कौलिनी
ब्रह्मानन्दमयी परा परकला षड्ग्रन्थिसम्भेदिनी ।
साहस्रं पदपद्मकोटरलसत्सोमेन सार्द्धं मुदा
क्रीडन्ती सुखसम्पदं दिशतु नः श्रीमत्त्रिखण्डेश्वरी ॥ १॥
श्रीमत्पञ्चदशाक्षरी शिवकलाधारादिचक्रेषु या
स्फूर्त्तिः पञ्चदशस्तथोनवतया त्रेधापि या संस्थिता ।
उन्मन्यन्तमुपागता कुलकजप्रोद्दामसौदामिनी
मायामोहनिकृन्तिनी निजसुखं मह्यं प्रसद्यात्सदा ॥ २॥
कश्चित्पङ्कजसम्भवः करुणया पूर्णस्त्वया विश्वसृक्
वेदादिर्वियदादितत्त्वममलं त्वत्सामरस्यं स्फुटम् ।
तद्वेदत्रिपुरे कृपामृतरसोन्मथ्याऽप्यनन्या श्रिये
दृष्टिं देहि ततः समुज्ज्वलतरानन्दस्वभावो भवे ॥ ३॥
एतत्ते त्रिपुरे ! त्वदीयवपुषा सा चित्रवर्णाध्वना
व्यस्तं विश्वमनुत्तरोत्तरतया यद्बीजमुद्गीयते ।
तन्मे ताण्डवमण्डितं रसनिका सारस्वतेनाहतं
विस्फूर्जत्कलकोकिलारजतयोद्वेलं जरीजृम्भते ॥ ४॥
ईकारोऽसि हुताशनेन्दुतपनैर्बिन्दुत्रयैः संयुतः
कामाप्ताजननी स्थितिं वितनुते ब्रह्मैकयः केशवः ।
यत्वं देवि ! पुरे सुधारसवचः कल्लोलकल्लोलिनी
जिह्वातः प्रसरीसरीतु भवती कारुण्यतस्तद्द्रुतः ॥ ५॥
लक्ष्मीं लक्ष्मिललामधामबहुलां मत्तेमकुम्भोच्छल-
द्दानाम्भोन्कतपूरपदक्विकटां देह्यम्ब ! मह्ये यतः ।
त्वं सृष्टिस्थितिभेदिनी मधुजितः शक्तिर्विरञ्चेर्निजा
यद्वा वाग्भवमध्यगा विलससि श्रीमन्त्रिखण्डेश्वरि ! ॥ ६॥
ह्रीङ्रारादिहराब्जयोनिविलसंसारसङ्कोचिनी
या बेयारतयेश्वरस्य भद्विता वागेश्वरी जृम्भने ।
विन्दौ नादतया च बीजवसतिर्याऽनुत्तरा शाम्भवी
श्रीमत्त्रिपुरसुन्दरी विजयते खण्डे स्थिता वास्तवे ॥ ७॥
हः कामः शिवबीजतो हरिम्यं यन्मोहयत्यङ्गना
स्थित्या त्वच्चरणप्रसादशतः श्रीकामराजादिनः ।
मातर्भक्तिसमीहितं सृजति यद्धैर्य .......रं श्चयः
सोऽयं मेऽखिलकाङ्क्षितं वितरतां कामेश्ववरप्रेयसी ॥ ८॥
सत्तारूपिणि ! सज्जनैकनिलये ! सौभाग्यसम्पत्प्रदे !
सावित्रीति सरस्वतीति गदिता लक्ष्मीस्त्वमेवासि सा ।
तत्कामेश्वरशम्भुपत्नि ! मम यत्काङ्क्षाधिरूढं भवेत्
तद्देहि त्वरितं तपोभिरपि यद् दुष्प्रापमन्यैरपि ॥ ९॥
कल्याणं कमलापतिः करुणया कामेश्वरः काङ्क्षितं
दद्यान्मध्यमखण्डतस्तव शवे मध्ये स्थितः कान्मना ।
कन्दर्पप्रतिमः कलासु कुशलः कल्पद्रुमः कामिनां
यस्योच्चारवशेन राजति नरः श्रीमत्त्रिखण्डात्मिके ! ॥ १०॥
हस्त्वन्माध्यमखण्डले च वसतिर्योऽम्ब ! द्वितीयस्थितिं
पुष्णात्येकतयैव चाधिकतया बन्धुकपुष्पप्रभः ।
सौभाग्यं परमं स मे वितरता वश्या भवेयुर्यतो
राजानो वरयोषितश्च निभृताः सौख्यश्रियः सम्मता ॥ ११॥
लक्ष्यं मे मनसो मनोरमतमं सौन्दर्यसोमालयो
बन्धूकप्रभवारुणं करलसच्चापेषु पाशाङ्कशम् ।
काञ्चीनद्धनितम्बबिम्बसुभगं मध्ये न किञ्चिच्च यत्
रूपं ते कुचचक्रवाकखिलसच्चन्द्रालिकं स्ता सदात् ॥ १२॥
ह्रीङ्कारे हरमान्मथीन्दुरणितैः श्रोकामराजान्तिगे
खण्डे मण्डनमावहन्ति हरयः सङ्कोचतः संस्थिते ।
रुद्रः शक्तियुतश्च मन्मथकलाकामेश्वरेणेन्दुना
नादात्मा च परापरेण भवतान्मत्कामसम्पूर्तये ॥ १३॥
सच्चित्सौख्यमखण्डितं शिवमयं शक्तिस्वरूपोल्लस-
त्तार्तीये तव संहृतो प्रथमतः सद्वृत्ततोज्जृम्भते ।
शङ्कातङ्ककलङ्कभावजनितं भेदः प्रथातः शिवे
तन्मे पूर्णशशाङ्कमण्डलनिभं कुर्यादशं दूरतः ॥ १४॥
कश्चिज्जन्मशतार्जितेन तपसा तत्पादपद्मद्वये
जातप्रीतिरनन्यभावमनसा लब्ध्वा गुरोः सत्कृपाम् ।
कं वेद त्रिपुरे तृतीयशकले कामेश्वराख्यं हरिं
पूर्णानन्दविभूतिदं त्रिजगतीवश्यङ्करं तं श्रये ॥ १५॥
लब्ध्वादेशकराजवीक्षणकृपां त्वां वेद कामेश्वरीं
धन्यो यस्त्रिपुरे ! त्वदङ्घ्रिकृपया विश्वात्मसाम्राज्यभू ।
लक्ष्मीस्तं वृणुते कटाक्षवशतस्तस्य ज्वरोपप्लवा
नाशं यान्ति सदा विषाणि च महावेतालभूतग्रहाः ॥ १६॥
श्रीमत्यम्ब ! विराजते तव परं खण्डं तृतीयान्तिमं
बीजं तत्र हरौ हरो प्रथमतो या रुद्रशक्तिः स्वयम् ।
संहारैकरसो मनोभवकलावह्नीन्दुसूरा परा
बिन्दुर्योऽपि परेश्वरो मम सदा कुर्वन्तु ते मङ्गलम् ॥ १७॥
इति श्रीगर्भस्तोत्रं सम्पूर्णम् ।
Proofread by DPD