गणेशकृता गौरीस्तुतिः
जयाम्ब जय शर्वाणि जय गौरि शिवप्रिये ।
जयान्नपूर्णे विमले कालकालप्रियेऽनघे ॥ ३९॥
जय शैलसुते देवि कमलामललोचने ।
जयामराङ्गनाराध्ये जय कल्याणि शाम्भवि ॥ ४०॥
जय मङ्गलसर्वाङ्गे मङ्गले सर्वमङ्गले ।
जय मृत्युञ्जयार्धाङ्गि तुङ्गसिंहासनाश्रये ॥ ४१॥
जय भक्तजनानन्दप्रदाननियतव्रते ।
जय दुर्गे विशालाक्षि जय त्रिपुरभैरवि ॥ ४२॥
जय वागीश्वरि प्राज्ञे मङ्गले गौरि चण्डिके ।
चित्रघण्टे जयानङ्गविजयध्वजमालिके ॥ ४३॥
जय श्रीविकटागौरि सिद्धेश्वरि नमो नमः । (श्रीविलसद्गौरि)
नमस्ते सङ्कटागौरि शीतलागौरि ते नमः ॥ ४४॥
वन्दिदेवि नमस्तुभ्यं ललिते विश्वबाहुके ।
चन्दलाम्ब नमस्तुभ्यं नमस्ते भ्रमराम्बिके ॥ ४५॥
ज्ञानप्रसूनाम्ब नमो नमस्ते नमो नमस्ते शिवकामसुन्दरि ।
नमो नमस्तेऽस्त्वरुणाचलेश्वरि नमो महागौरि नमो नमस्ते ॥ ४६॥
नमो नमः कल्पलताप्रसूनमालासमाक्रान्तपदा रविन्दे ।
वन्दे स्वभक्तेप्सितदानलोले विलासशैले गिरिजे नमस्ते ॥ ४७॥
नमो नमस्त्वच्चरणारविन्दमरन्दधाराप्रसरोऽस्तु मूर्ध्नि ।
अस्माकमीशानदया यथा स्यात्तथा विधेयं गमनोत्तरं वा ॥ ४८॥
न स्वापराधेन कृतो विलम्बः तमम्ब संवेदय शङ्कराय ।
कृतापराधानपि बालपुत्रान् अम्बा न सा कुप्यति सर्वथाम्ब ॥ ४९॥
अस्माकमन्यच्छरणं किमस्ति विहाय तावच्छरणं तवाम्ब ।
शिवस्य वा तावदुमे ततोऽस्मान् अवावनं भक्तजनस्य कार्यम् ॥ ५०॥
अस्माकमप्यन्तकवेरिधीरद्वाराश्रयाणां न भयं कुतोऽपि ।
दया विधेया खलु तावदेव त्वत्पादपद्मार्चकतत्पराणाम् ॥ ५१॥
विहारकालेषु कदाचिदम्ब साम्बाय तावद्विनिवेदनीयाः ।
वयं यथा साधु सुखं प्रपन्नाः शिवप्रसादेन भवत्प्रसादात् ॥ ५२॥
सा त्वं शिवार्धाङ्गमुमे दया चेदस्मासु तावत्तव तावतापि ।
न दुःखलेशोऽपि ततः प्रसन्ने प्रसन्नचित्तान्कुरु सर्वदा नः ॥ ५३॥
विज्ञापनेयं हृदि सावधानमानन्ददानप्रवणे तवास्तु ।
एतावताऽस्माकमुमासहायसहायतामेति न संशयोऽत्र ॥ ५४॥
॥ इति शिवरहस्यान्तर्गते गणेशकृता गौरीस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १९। ३९-५४ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 19. 39-54 ..
Proofread by Ruma Dewan