गोमहिमावर्णनम्
गोषु यज्ञाः प्रवर्तन्ते गोषु देवाः प्रतिष्ठिताः ।
गोषु वेदाः समुत्कीर्णाः सषडङ्गपदक्रमाः ॥ २४॥
शृङ्गमूले गवां नित्यं ब्रह्मा विष्णुश्च संस्थितौ ।
शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ॥ २५॥
शिवो मध्ये महादेवः सर्वकारणकारणम् ।
ललाटे संस्थिता गौरी नासावंशे च षण्मुखः ॥ २६॥
कम्बलाश्वतरौ नागौ नासापुटसमाश्रितौ ।
कर्णयोरश्विनौ देवौ चक्षुर्भ्यां शशिभास्करौ ॥ २७॥
दन्तेषु वसवः सर्वे जिह्वायां वरुणः स्थितः ।
सरस्वती च कुहरे यमयक्षौ च गण्डयोः ॥ २८॥
सन्ध्याद्वयं तथोष्ठाभ्यां ग्रीवायां च पुरन्दरः ।
रक्षांसि ककुदे द्यौश्च पार्ष्णिकाये व्यवस्थिता ॥ २९॥
चतुष्पात्सकलो धर्मो नित्यं जङ्घासु तिष्ठति ।
खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ॥ ३०॥
खुराणां पश्चिमे भागे राक्षसाः सम्प्रतिष्ठिताः ।
रुद्रा एकादश पृष्ठे वरुणः सर्वसन्धिषु ॥ ३१॥
श्रोणीतटस्थाः पितरः कपोलेषु च मानवाः ।
श्रीरपाने गवां नित्यं स्वाहालङ्कारमाश्रिताः ॥ ३२॥
आदित्या रश्मयो वालाः पिण्डीभूता व्यवस्थिताः ।
साक्षाद्गङ्गा च गोमूत्रे गोमये यमुना स्थिता ॥ ३३॥
त्रयस्त्रिंशद्देवकोट्यो रोमकूपे व्यवस्थिताः ।
उदरे पृथिवी सर्वा सशैलवनकानना ॥ ३४॥
चत्वारः सागराः प्रोक्ता गवां ये तु पयोधराः ।
पर्जन्यः क्षीरधारासु मेघा बिन्दुव्यवस्थिताः ॥ ३५॥
जठरे गार्हपत्योऽग्निर्दक्षिणाग्निर्हृदि स्थितः ।
कण्ठे आहवनीयोऽग्निः सभ्योऽग्निस्तालुनि स्थितः ॥ ३६॥
अस्थिव्यवस्थिताः शैला मज्जासु क्रतवः स्थिताः ।
ऋग्वेदोऽथर्ववेदश्च सामवेदो यजुस्तथा ॥ ३७॥
इति भविष्यपुराणे उत्तरपर्वणि एकोनसप्तत्यध्यायान्तर्गतं
गोमहिमावर्णनं समाप्तम् ।
भविष्यपुराण । उत्तरभाग । अध्याय ६९/२४-३७॥
bhaviShyapurANa . uttarabhAga . adhyAya 69/24-37..
Proofread by PSA Easwaran