गोस्तोत्रं

गोस्तोत्रं

क्षीरोदतोयसम्भूता याः पुरामृतमन्थने । पञ्चगादः शुभाः पार्थ पञ्चलोकस्यमातरः ॥ १॥ नन्दा सुभद्रा सुरभिः सुशीला बहुला इति । एता लोकोपकाराय देवानां तर्पणाय च ॥ २॥ जमदग्निभरद्वाजवसिष्ठासितगौतमः । जगृहुः कामदाः पञ्च गावो दत्ताः सुरैस्ततः ॥ ३॥ गोमयं रोचना मूत्रं क्षीरं दधि घृतं गवाम् । षडङ्गानि पवित्राणि संशुद्धिकरणानि च ॥ ४॥ गोमयादुत्थितः श्रीमान् बिल्ववृक्षः शिवप्रियः । तत्रास्ते पद्महस्ता श्रीः श्रीवृक्षस्तेन स स्मृतः ॥ ५॥ बीजान्युत्पलपद्मानां पुनर्जातानि गोमयात् । गोरोचना च माङ्गल्या पवित्रा सर्वसाधिका ॥ ६॥ गोमूत्राद् गुग्गुलुर्जातः सुगन्धिः प्रियदर्शनः । आहारः सर्वदेवानां शिवस्य च विशेषतः ॥ ७॥ यद्बीजं जगतः किञ्चित् तज्ज्ञेयं क्षीरसम्भवम् । दधिजातानि सर्वाणि मङ्गलान्यर्थसिद्धये ॥ ८॥ घृतादमृतमुत्पन्नं देवानां तृप्तिकारणम् । ब्राह्मणश्चैव गावश्च कुलमेकं द्विधा कृतम् ॥ ९॥ एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति । गोषु यज्ञाः प्रवर्तन्ते गोषु देवाः प्रतिष्ठिताः । गोषु वेदाः समुत्कीर्णाः सषडङ्गपदक्रमाः ॥ १०॥ इति श्री भविष्यपुराणान्तर्गतं गोस्तोत्रं समाप्तम् ॥ भविष्यपुराण । उत्तरपर्व । अध्याय ६९/१६-२४॥ bhaviShyapurANa . uttaraparva . adhyAya 69/16-24.. Encoded and proofread by Sudeep Dalbanjan
% Text title            : Gostotram 1 from Bhavishyapurana
% File name             : gostotrambhaviShya.itx
% itxtitle              : gostotram 1 (bhaviShyapurANAntargatam kShIrodatoyasambhUtA yAH purAmRitamanthane)
% engtitle              : gostotram 1 from bhaviShyapurANa
% Category              : devii, devI, otherforms
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sudeep Dalbanjan
% Proofread by          : Sudeep Dalbanjan
% Description/comments  : bhaviShyapurANa | uttaraparva | adhyAya 69/16-24||
% Indexextra            : (Scans 1, 2, Hindi, Kannada)
% Latest update         : August 25, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org