हिमवाङ्कृता महादेवीस्तुतिः
(शिवरहस्यान्तर्गते ईशाख्ये)
हिमवानुवाचः ।
प्रपद्ये शिवेऽद्यैव ते पादपद्मं
हराद्यामविद्यां प्रदेह्याद्यविद्याम् ।
न ते मद्यमांसादिमीमांसपूजा-
प्रकारेऽतिदूरं गिरिं मामवेहि ॥ ३५॥
महाघौघनीहारघोरान्धकार-
प्रशिक्षानुरूक्षप्रभाऽहस्करा त्वम् ।
विदित्वा च नत्वा च स्तुत्वा च वाचा
समस्तेषु नान्यो मदन्यो विधन्यः ॥ ३६॥
धराधीशकन्ये शिवे सामिसोम-
प्रशस्तैकमस्ते नमस्ते सुहस्ते ।
त्वदन्यत्र लोके न लोके सशोकं
सभूकोपमं यूकवद्भातिमेतत् ॥ ३७॥
न मे द्रापिकान्तोरुपादप्रकाशात्
न चेन्द्रेन्द्रलोकेषु वा किं दरिद्रम् ।
अतः सान्द्र सौख्यैक निःसीम तन्द्रा-
सुषुप्तौ भजाम्यद्रिकन्यां मदन्याम् ॥ ३८॥
न मान्यो न धन्यो भजेद्यस्त्वदन्यां
कलङ्की भवेच्चाभजंस्त्वाम्मजस्रम् ।
खरः सूकरः सङ्करो वानरो वा
नरः पामरः कातरो नित्यदुःखी ॥ ३९॥
॥ इति शिवरहस्यान्तर्गते हिमवाङ्कृता महादेवीस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ९ गौर्युत्पत्तिः । ३५-३९ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 9 gauryutpattiH . 35-39 ..
Notes:
Himavān हिमवान् eulogizes the little Pārvatī पार्वती born to him, and who is the very manifestation of Mahādevī Śivā महादेवी शिवा.
Proofread by Ruma Dewan