इन्दिराष्टोत्तरशतनामावलिः
ॐ इन्दिरायै नमः । विष्णुहृदयमन्दिरायै । पद्मसुन्दरायै ।
नन्दिताखिलभक्तायै । श्रीयै । नन्दिकेश्वरवन्दितायै ।
केशवप्रियचारित्रायै । केवलानन्दरूपिण्यै । केयूरहारमञ्जीरायै ।
केतकीपुष्पधारण्यै । कारुण्यकवितापाङ्ग्यै । कामितार्थप्रदायन्यै ।
कामधुक्सदृशायै । शक्त्यै । कालकर्मविधायिन्यै ।
जितदारिद्र्यसन्दोहायै । धृतपङ्केरुहद्वय्यै ।
कृतविद्ध्यण्डसंरक्षायै । नतापत्परिहारिण्यै ।
नीलाभ्राङ्गसरोनेत्रायै नमः । २०
ॐ नीलोत्पलसुचन्द्रिकायै नमः । नीलकण्ठमुखाराध्यायै ।
नीलाम्बरमुखस्तुतायै । सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायितायै ।
समुद्रतनयायै । सर्वसुरकान्तोपसेवितायै । भार्गव्यै ।
भानुमत्यादिभावितायै । भार्गवात्मजायै । भास्वत्कनकताटङ्कायै ।
भानुकोट्यधिकप्रभायै । पद्मसद्मपवित्राङ्ग्यै । पद्मास्यायै ।
परात्परायै । पद्मनाभप्रियसत्यै । पद्मभूस्तन्यदायिन्यै ।
भक्तदारिद्र्यशमन्यै । मुक्तिसाधकदायिन्यै । भुक्तिभोग्यप्रदायै ।
भव्यशक्तिमदीश्वर्यै नमः । ४०
ॐ जन्ममृत्युज्वरत्रस्तजनजीवातुलोचनायै नमः । जगन्मात्रे ।
जयकर्यै । जयशीलायै । सुखप्रदायै । चारुसौभाग्यसद्विद्यायै ।
चामरद्वयशोभितायै । चामीकरप्रभायै । सर्वचातुर्यफलरूपिण्यै ।
राजीवनयनरम्यायै । रामणीयकजन्मभुवे । राजराजार्चितपदायै ।
राजमुद्रास्वरूपिण्यै । तारुण्यवनसारङ्ग्यै । तापसार्चितपादुकायै ।
तात्त्विक्यै । तारकेशार्कताटङ्कद्वयमण्डितायै ।
भव्यविश्राणनोद्युक्तायै । सव्यक्तसुखविग्रहायै ।
दिव्यवैभवसम्पूर्णायै नमः । ६०
ॐ नव्यभक्तिशुभोदयायै नमः । तरुणादित्यताम्रश्रीयै ।
करुणारसवाहिन्यै । शरणागतसन्त्राणचरणायै ।
करुणेक्षणायै । वित्तदारिद्र्यशमन्यै । वित्तक्लेशनिवारिण्यै ।
मत्तहंसगतये, । सर्वसत्तायै, । सामान्यरूपिण्यै ।
वाल्मीकिव्यासदुर्वासोवालखिल्यादिवाञ्छितायै ।
वारिजेषणहृत्केकिवारिदायितविग्रहायै ।
दृष्ट्याऽऽसादितविद्ध्यण्डायै । सृष्ट्यादिमहिमोच्छ्रयायै ।
आस्तिक्यपुष्पभृङ्ग्यै । नास्तिकोन्मूलनक्षमायै ।
कृतसद्भक्तिसन्तोषायै । कृत्तदुर्जनपौरुषायै ।
सञ्जीविताशेषभाषायै । सर्वाकर्षमतिस्नुषायै नमः । ८०
ॐ नित्यायै नमः । शुद्धायै । परायै । बुद्धायै । सत्यायै । संविदे ।
अनामयायै । विजयायै । विष्णुरमण्यै । विमलायै । विजयप्रदायै ।
श्रीङ्कारकामदोग्ध्यै । ह्रीङ्कारतरुकोकिलायै । ऐङ्कारपद्मलोलम्बायै ।
क्लीङ्कारामृतनिम्नगायै । तपनीयाभसुतनवे । कमनीयस्मिताननायै ।
गणनीयगुणग्रामायै । शयनीयोरगेश्वरायै ।
रमणीयसुवेषाढ्यायै नमः । १००
ॐ करणीयक्रियेश्वर्यै नमः । स्मरणीयचरित्रायै । तरुण्यै ।
यज्ञारूपिण्यै । श्रीवृक्षवासिन्यै । योगिधीवृत्तिपरिभावितायै ।
प्रावृड्भार्गववारार्च्यायै । संवृतामरभामिन्यै । तनुमद्ध्यायै ।
भगवत्यै, । मनुजापिवरप्रदायै । लक्ष्म्यै । विल्वाश्रितायै ।
अष्टोत्तरशतस्तुतायै नमः । ११४
इति इन्दिराष्टोत्तरशतनामावलिः समाप्ता ।
Encoded and proofread by PSA Easwaran