इन्द्राणीसप्तशती
॥ प्रथमं गायत्रं शतकम् ॥
॥ प्रथमः शशिवदनापादः ॥
हरिललने मे पथि तिमिराणि ।
हरदरहासद्युतिभिरिमानि ॥ १॥
अगतिमवीर्यामपगतधैर्याम् ।
अवतु शची मे जनिभुवमार्याम् ॥ २॥
शृणु करुणावत्यलघुमखर्वे ।
स्तवमहमार्यस्तव शचि कुर्वे ॥ ३॥
त्रिजगदतीतो विलसति नित्यः ।
अणुरणुतो यो भगवति सत्यः ॥ ४॥
त्वमखिलकार्येष्वयि धृतसक्तिः ।
उरुगतिरस्य प्रभुतमशक्तिः ॥ ५॥
विदुरिममेके जगति महेन्द्रम् ।
जगुरयि केचिज्जननि महेशम् ॥ ६॥
अवगतवेदो वदति महेन्द्रम् ।
परिचिततन्त्रो भणति महेशम् ॥ ७॥
जननि शचि त्वं प्रथमदलस्य ।
भगवति दुर्गास्यपरदलस्य ॥ ८॥
न शचि शिवातस्त्वमितरदैवम् ।
बहुमुनिवाणीसमरसतैवम् ॥ ९॥
दिवि च सिताद्रौ शचिवपुषोर्वाम् ।
पृथगुपलम्भादयि भिदयोक्तिः ॥ १०॥
तनुयुगमूलं वपुरतिमायम् ।
करचरणाद्यैर्वियुतममेयम् ॥ ११॥
त्वमुदरवर्तित्रिभुवनजीवा ।
भवसि शची सा जननि शिवा वा ॥ १२॥
विभुशुचिकीलाततिरयि धूमम् ।
त्वममरमार्गं बत वमसीमम् ॥ १३॥
जयसि नभस्थो जननि परस्तात् ।
नभसि च भान्ती भवसि पुरस्तात् ॥ १४॥
त्वमतनुरम्ब ज्वलसि परस्तात् ।
इह खशरीरा लससि पुरस्तात् ॥ १५॥
जननि परस्तान्मतिरसि भर्तुः ।
असि खशरीरा पृथगवगन्त्री ॥ १६॥
अणुचयरूपं भगवति शान्तम् ।
न भवति शून्यं तदिदमनन्तम् ॥ १७॥
दिवि दधतीशे पुरुषशरीरम् ।
जननि पुरन्ध्री तनुरभवस्त्वम् ॥ १८॥
दृशि विलसन्तं प्रभुमुपयान्ती ।
भवसि विराट् त्वं नृतनुषु भान्ती ॥ १९॥
तव गुणगानं जननि विधातुम् ।
भवति पटुः को वियदिव मातुम् ॥ २०॥
भगवति तृप्तिर्भवतु न वा ते ।
अभिलषिताप्तिर्भवतु न वा मे ॥ २१॥
भजति तवाङ्घ्रिं मम खलु भाषा ।
पति मनुरागात् प्रियमिव योषा ॥ २२॥
अघमपहर्तुं शुभमपि कर्तुम् ।
अलमजरे ते गुणगणगानम् ॥ २३॥
अवसि जगत्त्वं कुलिशिभुजस्था ।
अव मुनिभूमिं गणपतिधीस्था ॥ २४॥
शशिवदनाभिर्गणपतिजाभिः ।
शशिवदनाद्या परिचरिताऽस्तु ॥ २५॥
॥ द्वितीयस्तनुमध्यापादः ॥
ध्वान्तं परिहर्तुं तेजांस्यपि भर्तुम् ।
अन्तर्जगदम्बा हासं कुरुतान्मे ॥ २६॥
भीतामरिधूतामार्यावनिमेताम् ।
सम्राज्ञि बुधानां दूनामव दीनाम् ॥ २७॥
ईशस्य सहायां विश्वस्य विधाने ।
आकाशशरीरामम्बां प्रणमामः ॥ २८॥
कर्तुर्भुवनानां मायासि शचि त्वम् ।
सत्यस्य तपोऽसि ज्ञस्यासि मनीषा ॥ २९॥
आज्ञासि विनेतुस्तेजोऽसि विभातः ।
निर्यत्नसमाधेरानन्दरसोऽसि ॥ ३०॥
तस्य त्वमनन्याऽप्यन्येव खकाया ।
अत्यद्भुतमाया जायाऽसि सहाया ॥ ३१॥
आकाशशरीरां जायामशरीरः ।
आलिङ्ग्य विभुस्त्वां नन्दत्ययि चित्रम् ॥ ३२॥
वज्रेश्वरि घस्रे यद्वन्मुकुटेन ।
दीप्तेन सवित्र मूर्धा तव भाति ॥ ३३॥
नक्षत्रसहस्रैश्शुभ्रद्युतिभिस्ते ।
पुष्पायितमेतैर्मातर्निशिमस्ते ॥ ३४॥
घस्रः खलु कालो राज्यं ननु कर्तुम् ।
रात्रिः खलु कालो रन्तुं रमणेन ॥ ३५॥
निःशब्दतरङ्गास्वग्लौषु निशासु ।
नूनं खशरीरे कान्तं रमयन्ती ॥ ३६॥
सान्द्रोडुसुमस्रग्विभ्राजितकेशा ।
ध्वान्तासितचेला शान्ताऽप्यसि भीमा ॥ ३७॥
राजन्मिततारामन्दारवतंसाम् ।
मातस्सितभासा स्मेरां हसितेन ॥ ३८॥
ज्योत्स्ना घनसारद्रावैरनुलिप्ताम् ।
त्वां वीक्ष्य न शान्तिः कस्य क्षणदासु ॥ ३९॥
बालारुणरोचिः काश्मीररजोभिः ।
आलिप्तमुखीं त्वां प्रातः प्रणमामि ॥ ४०॥
सायं समयश्री लाक्षारसरक्तम् ।
प्रत्यक् प्रसृतं ते वन्दे वरदेऽङ्घ्रिम् ॥ ४१॥
दीप्तार्ककिरीटां सर्वान् विनयन्तीम् ।
वन्दे भुवनानां राज्ञीमसमानाम् ॥ ४२॥
धूताखिलरोगाः श्वासास्तव वाताः ।
मातर्वितरन्तु प्राणस्य बलं नः ॥ ४३॥
प्राञ्चस्तव वाताः स्वासाः शमुशन्तु ।
प्रत्यञ्च एमे नः पापं शमयन्तु ॥ ४४॥
मन्मातरवाञ्चो वीर्यं वितरन्तु ।
सन्तापमुदञ्चः सर्वं च हरन्तु ॥ ४५॥
अस्या इव भूमेर्भूतप्रसवायाः ।
एकैकश आहुर्येषां महिमानम् ॥ ४६॥
अद्रेरुपलानां नद्याः सिकतानाम् ।
येषां च न कध्च्छिक्तो गणनायाम् ॥ ४७॥
रोमायितमेतैर्गोलैस्तव काये ।
व्याख्यातमनेन श्लाघ्यं तव भाग्यम् ॥ ४८॥
विश्वं वहसीदं जम्भारिभुजस्था ।
आर्यान्वहमातर्वासिष्ठमतिस्था ॥ ४९॥
आद्यां भुवनानां भर्तुस्तनुमध्याम् ।
भक्त्स्य भजन्तामेतास्तनुमध्याः ॥ ५०॥
॥ तृतीयो मुकुलपादः ॥
हासाः शक्रगृहेश्वर्याश्चन्द्ररुचः ।
भूयासुर्विमलप्रज्ञायै हृदि मे ॥ ५१॥
इन्द्राण्याः करुणा लोकाश्शोकहृतः ।
भूयासुर्भरतक्ष्मायै क्षेमकृतः ॥ ५२॥
व्यक्तिर्व्योमतनुः शक्तित्वाद्वनिता ।
ज्ञातृत्वात्पुरुषः केषाञ्चिद्विदुषाम् ॥ ५३॥
व्यक्तिं व्योमतनुं ये प्राहुः पुरुषम् ।
तेषां तत्त्वविदां कल्पस्स्यात् त्रिविधः ॥ ५४॥
रुद्रं केऽपि जगुः शक्रं केऽपि विदुः ।
भाषन्ते भुवनप्राणं केऽपि विदः ॥ ५५॥
व्यक्तिं व्योमतनुं प्राहुर्ये वनिताम् ।
तेषां च त्रिविधः कल्पश्शास्त्रविदाम् ॥ ५६॥
दुर्गा सूरिवरैः कैश्चित्सा गदिता ।
शच्यन्यैर्विबुधैर्ज्ञैरन्यैरदितिः ॥ ५७॥
एकेषां विदुषां व्यक्तिर्व्योमतनुः ।
न स्त्री नो पुरुषो ब्रह्मैतत्सगुणम् ॥ ५८॥
त्वं विश्वस्य महान् प्राणः कः परमे ।
त्वं रुद्रः प्रणवस्त्वं शक्रोऽभ्रशिखी ॥ ५९॥
त्वं कस्यास्यदितिस्त्वं रुद्रस्य शिवा ।
त्वं शक्रस्य शची शक्तिर्देवनुते ॥ ६०॥
प्राणश्च प्रणवो ज्योतिश्चाम्बरगम् ।
वस्त्वेकं त्रिगुणं नो वस्तु त्रितयम् ॥ ६१॥
शक्तेरम्बपरे शक्त्स्यापि भिदा ।
ज्वाला पावकवद्भाषा भेदकृता ॥ ६२॥
सर्वं दृश्यमिदं भुञ्जाने परमे ।
पुंनामस्तुतयो युज्यन्ते खलु ते ॥ ६३॥
कुर्वाणेम्बसतस्सन्तोषं सततम् ।
स्त्रीनामस्तुतयः शोभां ते दधते ॥ ६४॥
सद्ब्रह्म ब्रुवते विद्वांसो विगुणम् ।
त्वं मातस्सगुणं ब्रह्मासि प्रथिते ॥ ६५॥
शब्दाद्यैर्वियुतं सद्ब्रह्मामलिनम् ।
शब्दाद्यैः सहिता त्वं देव्यच्छहिता ॥ ६६॥
साक्षि ब्रह्म परं त्वं मातः कुरुषे ।
सर्वेषां जगतां कार्यं सर्वविधम् ॥ ६७॥
द्यौर्माता जगतो द्यौरेवास्य पिता ।
व्याप्तं भाति जगद्द्यावा सर्वमिदम् ॥ ६८॥
आकाशाद्रजसो द्यौरन्या विरजाः ।
आकाशेऽस्ति पुनस्तत्पारे च परा ॥ ६९॥
द्यावं तां जगतो रङ्गे व्योमतनुम् ।
पारे शुद्धतमां विद्मस्त्वां परमे ॥ ७०॥
त्वां पूर्णामदितिं शक्तिं देवि शचीम् ।
नित्यं शब्दवतीं गौरीं प्रब्रुवते ॥ ७१॥
पुंनामा भवतु स्त्रीनामास्त्वथवा ।
व्यक्तिर्व्योमतनुर्लोकं पात्यखिलम् ॥ ७२॥
नाके सा किल भात्यैन्द्री राज्यरमा ।
विभ्राणा ललितं स्त्रीरूपं परमा ॥ ७३॥
शक्तां देवि विधेह्यार्तानामवने ।
इन्द्रस्येव भुजां वासिष्ठस्य मतिम् ॥ ७४॥
पूजाशक्रतरुण्यैतैस्सिध्यतु ते ।
गातृणां वरदे गायत्रौर्मुकुलैः ॥ ७५॥
॥ चतुर्थो वसुमतीपादः ॥
मोहं परिहरन् योगं वितनुताम् ।
देवेन्द्रदयिता हासो मम हृदि ॥ ७६॥
आभातु करुणा सा भारतभुवि ।
सुत्रामसुदृशो यद्वन्निजदिवि ॥ ७७॥
वन्दारुजनतामन्दारलतिकाम् ।
वन्दे हरिहयप्राणप्रियतमाम् ॥ ७८॥
शोकस्य दमनीं लोकस्य जननीम् ।
गायामि ललितां शक्रस्य दयिताम् ॥ ७९॥
रम्या सुमनसां भूपस्य महिषी ।
सौम्या जनिमतां माता विजयते ॥ ८०॥
वीर्यस्य च धियस्त्रैलोक्यभरणे ।
दात्री मघवते देवी विजयते ॥ ८१॥
व्याप्ता जगदिदं गुप्ता हृदि नृणाम् ।
आप्ता सुकृतिनां दैवं मम शची ॥ ८२॥
खे शक्तिरतुला पारे चिदमला ।
स्वश्चारुमहिला दैवं मम शची ॥ ८३॥
शस्त्रं मघवतः शास्त्रं यमवताम् ।
वस्त्रं त्रिजगतो दैवं मम शची ॥ ८४॥
युक्त्स्य भजतः शर्मान्तरतुलम् ।
वर्मापि च बहिर्दैवं मम शची ॥ ८५॥
वीर्यं बलवतां बुद्धिर्मतिमताम् ।
तेजो द्युतिमतां दैवं मम शची ॥ ८६॥
एकैव जनयन्त्येकैव दधती ।
एकैव लयकृद्दैवं मम शची ॥ ८७॥
शक्तीरवितथाः क्षेत्रोषु दधती ।
बीजेषु च परा दैवं मम शची ॥ ८८॥
चिन्वन्त्यपि पचन्त्येका पशुगणम् ।
खादन्त्यपि भवे दैवं मम शची ॥ ८९॥
दृष्टौ धृतचितिर्दृश्ये ततगुणा ।
विश्वात्ममहिषी दैवं मम शची ॥ ९०॥
राकाशशिमुखी राजीवनयना ।
स्वः कापि ललना दैवं मम शची ॥ ९१॥
स्थाणावपि चरे सर्वत्र वितता ।
साक्षाद्भवतु मे स्वर्नाथदयिता ॥ ९२॥
यन्मातरनृतं ध्यातं च गदितम् ।
जुष्टं च हर मे तद्देवि दुरितम् ॥ ९३॥
मां मोचय ऋणादिन्द्राणि सुभुजे ।
मामल्पमतयो मा निन्दिषुरजे ॥ ९४॥
शत्रुश्च शचि मे सख्याय यतताम् ।
दृप्तश्च इमनुजो मामम्ब भजताम् ॥ ९५॥
कष्टं शचि विधूयेष्टं विदधती ।
आनन्दय जनं प्रेयांसमयि मे ॥ ९६॥
अस्त्रं मम भव ध्वंसाय रटताम् ।
सुत्रामरमणि श्रीमातरसताम् ॥ ९७॥
सम्पूरयतु मे सर्वं सुरनुता ।
स्वर्गक्षितिपतेश्शुद्धान्तवनिता ॥ ९८॥
संवर्धय शचि स्वं देशमवितुम् ।
बाहोरिव हरेर्बुद्धेर्मम बलम् ॥ ९९॥
एतैर्वसुमतीवृत्तैर्नवसुमैः ।
भूयाच्चरणयोः पूजा जननि ते ॥ १००॥
॥ प्रथमं गायत्रं शतकं समाप्तम् ॥
॥ अथ द्वितीयमौष्णिहं शतकम् ॥
॥ प्रथमः कुमारललितापादः ॥
सुरेश्वरमहिष्याः स्मितं शशिसितं मे ।
तनोतु मतिमच्छां करोतु बलमग्रय्म् ॥ १०१॥
विधाय रिपुधूतिं निधाय सुदशायाम् ।
पुलोमतनुजाता धिनोतु भरतक्ष्माम् ॥ १०२॥
पदप्रणतरक्षा विधानधृतदीक्षा ।
जगद्भरणदक्षा परा जयति शक्तिः ॥ १०३॥
स्वरत्यविरतं सा शनैर्नभसि रङ्गे ।
ज्वलत्यधिकसूक्ष्मं जगत्प्रभवशक्तिः ॥ १०४॥
महस्तव सुसूक्ष्मं निदानमखिलानाम् ।
भवत्यखिलमातर्जगत्यनुभवानाम् ॥ १०५॥
जनन्यनुभवानां मतित्वपरिणामे ।
स्वरो भवति मूलं तवाभ्रहयरामे ॥ १०६॥
य ईश्वरि निदानं समस्तमतिभाने ।
स्वरो गतिविशेषात्स एव खलु कालः ॥ १०७॥
ज्वलन्त्यभिहिता त्वं विहायसि विशाले ।
प्रचण्डपदपूर्वा प्रपञ्चकरिचण्डी ॥ १०८॥
स्वरन्त्यखिलबुद्धिप्रदा भवसि गौरी ।
त्रिकालतनुरम्ब स्मृता त्वमिह काली ॥ १०९॥
महस्स्वर इतीदं द्वयं तदतिसूक्ष्मम् ।
महेश्वरि तवांशद्वयं परममुक्तम् ॥ ११०॥
महोऽतिशयमाप्तं त्वयि त्रिदिवगायाम् ।
स्वरोऽतिशयमाप्तः सिताद्रिनिलयायाम् ॥ १११॥
दिवं नयति पूर्वा भुवं युवतिरन्या ।
द्वयोः प्रकृतिरभ्रं विशालमतिमान्या ॥ ११२॥
न ते दिवि लसन्त्याः पिता तनुभृदन्यः ।
स्वयं भुवमिमां त्वां सतामवनि विद्मः ॥ ११३॥
सुरारिकुलजन्मा तवेश्वरि पुलोमा ।
पितेति कविभाषा परोक्षगतिरेषा ॥ ११४॥
वदन्त्यसुरशब्दैर्घनं सजलमेतम् ।
पुलोमपदमेकं पुराणसतितेषु ॥ ११५॥
प्रकृष्टतरदीप्तिर्गभीरतरनादा ।
इतो हि भवसि त्वं तटित्तनुरमेये ॥ ११६॥
अरातिरसुरोऽयं विभोर्निगदितस्ते ।
हयश्च बतगीतः पिता तव पयोदः ॥ ११७॥
प्रियैः किल परे वां परोक्षवचनौघैः ।
प्रतारितमिवेला जगन्मुनिगणेन ॥ ११८॥
निकृष्टमपि रम्यं यदि त्रिदिवलोके ।
तवाम्ब किमु वाच्या रुचिस्त्रिदिवनाथे ॥ ११९॥
त्वमम्ब रमणीया वधूस्त्वमिव नाके ।
त्वया क इव तुल्यां मृदो वदतु लोके ॥ १२०॥
विनीलमिव खांशं विदुस्त्रिदिवमेके ।
परस्तु वदसि स्वः कविः कमलबन्धुम् ॥ १२१॥
अमुत्रगतशोके महामहसि नाके ।
नमाम्यधिकृतां तां पुराणकुलकान्ताम् ॥ १२२॥
यदा ममुतपक्वं मदीयमघमुग्रम् ।
तदिन्द्रकुलकान्ते निवारय समग्रम् ॥ १२३॥
ददातु भरतक्ष्माविषादहरणाय ।
अलं बलमुदारा जयन्तजननी मे ॥ १२४॥
अतीव ललिताभिः कुमारललिताभिः ।
इमाभिरमरेशप्रिया भजतु मोदम् ॥ १२५॥
॥ द्वितीयो मदलेखापादः ॥
पौलोम्याः परिशुभ्रज्योत्स्नादृश्यरुचो मे ।
श्रीमन्तो दरहासाः कल्पन्तां कुशलाय ॥ १२६॥
कारुण्यामृतसिक्ता शक्ता शक्रमहिष्याः ।
प्रेक्षा भारतभूमेर्दौर्बल्यं विधुनोतु ॥ १२७॥
वन्दे निर्जरराज्ञीं सङ्क्ल्पे सति यस्याः ।
साध्यासाध्यविचारो नैव स्यादणुकोऽपि ॥ १२८॥
सङ्क्ल्पस्तव कश्च्चिचत्ते चेद्दिव ईशे ।
स्यादुल्लङ्घ्य निसर्गं सिद्धिर्निष्फलता च ॥ १२९॥
मूढोऽप्युत्तमरीत्या सिध्येदध्ययनेषु ।
मेधावी च नितान्तं नैव स्यात्कृतकृत्यः ॥ १३०॥
उत्पद्येत महेश्वर्यप्राज्ञादपि शास्त्रम् ।
यायान्मातरकस्माद्विभ्रान्तिं विबुधोऽपि ॥ १३१॥
अल्पानामबलानां सङ्ग्रामे विजयः स्यात् ।
शक्तानां बहुलानां घोरा स्यात्परिभूतिः ॥ १३२॥
राजेरन्नृपपीठेष्वख्यातानि कुलानि ।
स्याद्दुर्धर्षबलानां पातो राजकुलानाम् ॥ १३३॥
निर्यत्नोऽपि समाधेर्विन्देद्देवि समृद्धिम् ।
योगस्याम्ब न पश्येदभ्यस्यन्नपि सिद्धिम् ॥ १३४॥
अत्यन्तं यदसाध्यं नेदिष्ठं भवतीदम् ।
साध्यं सर्वविधाभिः स्यादिन्द्राणि दविष्ठम् ॥ १३५॥
गायामो मुनिसङ्घैर्गेयां कामपि मायाम् ।
इन्द्रस्यापि विनेत्रीं त्रैलोक्यस्य च धात्रीम् ॥ १३६॥
विद्यानामधिनाथे कां विद्यां श्रयसे त्वम् ।
इन्द्रं कर्तुमधीनं विश्वस्मादधिकं तम् ॥ १३७॥
नित्यालिर्मिनीषे स्त्रीमोहो न वितर्क्यः ।
भ्रूचेष्टानुचरत्वादन्या स्यादनुकम्पा ॥ १३८॥
सौन्दर्यं परमन्यद्वजेरद्दर्यथवा ते ।
हर्तुं यत्सुखमीष्टे तादृक्तस्य च चित्तम् ॥ १३९॥
चक्षुर्दर्शनमात्रन्निस्तेजो विदधानम् ।
चित्तं चोज्झितधैर्यं मत्तानां दनुजानाम् ॥ १४०॥
गर्ते दुर्जनदेहे मग्नान् पङ्क्विलग्नान् ।
प्राणानात्मसजातीनुद्धर्तुं धृतदीक्षम् ॥ १४१॥
वज्रं निर्जरराजो यद्धत्ते समरेषु ।
त्वच्छक्तेः कलयैतन्मन्मातर्निरमायि ॥ १४२॥
राज्ञीत्वात्परमेते राजत्वं शतमन्योः ।
निश्शक्तिस्स विना त्वां कामाज्ञां कुरुतां नः ॥ १४३॥
सर्वं शक्रनिशान्तस्येशाने तव हस्ते ।
अस्माकं तु धियेदं स्तोत्रं सङ्ग्रहतस्ते ॥ १४४॥
गन्तव्यं स्वरधीशे निश्शेषार्पणशूरम् ।
बिभ्राणा नयसि त्वं मार्जालीव किशोरम् ॥ १४५॥
गृह्ण्न्नम्बरनाथामम्बामश्लथमन्धः ।
कीशस्येव किशोरो योगी गच्छति गम्यम् ॥ १४६॥
पूर्णात्मार्पणहीनोऽप्यज्ञाताऽपि समाधेः ।
नित्यं यो जगदम्ब त्वां सेवेत जपाद्यैः ॥ १४७॥
तं चाचञ्चलभक्तिं कृत्वा पूरितकामम् ।
निष्ठां दास्यसि तस्मै पौलोमि क्रमशस्त्वम् ॥ १४८॥
भिन्नां सङ्घसहस्रैः खिन्नां शत्रुभरेण ।
पातुं भारतभूमिं मातर्देहि बलं मे ॥ १४९॥
त्र्यैलोक्यावनभारश्रान्तां वासवकान्ताम् ।
हैरम्ब्यो मदलेखाः सम्यक् सम्मदयन्तु ॥ १५०॥
॥ तृतीयो हंसमालापादः ॥
सुरुचिर्वज्रपाणेस्सुदृशो मन्दहासः ।
हरतान्मोहमूलं हृदयस्थं तमो मे ॥ १५१॥
अमृतं सङ्किरन्त्या प्रसरन्त्येह दृष्ट्या ।
सुरराज्ञी बलाढ्यां भरतक्ष्मां करोतु ॥ १५२॥
अमृताम्भः किरन्ती करुणाम्भो वहन्ती ।
नतरक्षात्तदीक्षा शचि मातस्तवेक्षा ॥ १५३॥
कृतपीयूषवृष्टिस्ततकल्याणसृष्टिः ।
विहितैनोविनष्टिर्धृतविज्ञानपुष्टिः ॥ १५४॥
भृतदेवेन्द्रतुष्टिर्यमिनां देवगृष्टिः ।
मम काम्यानि देयात्तव विश्वाम्ब दृष्टिः ॥ १५५॥
जगतां चक्रवर्तिन्यसितस्ते कटाक्षः ।
जलदो भक्तिभाजां शिखिनां नर्तनाय ॥ १५६॥
सुकृती कोऽपि नाट्ये बहुले तत्र मातः ।
जगते सारभूतानुपदेशान्करोति ॥ १५७॥
अपरो नव्यकाव्यान्यनवद्यानि धन्यः ।
विदधात्यप्रयत्नाद्बुधभोगक्षमाणि ॥ १५८॥
इतरो भाग्यशाली रमणीयैः प्रसङ्गैः ।
वितनोति स्वजातिं जगति श्रेष्ठनीतिम् ॥ १५९॥
जगतां मातरेको महसा पुण्यशाली ।
विधुतारिः स्वदेशं कुरुते वीतपाशम् ॥ १६०॥
पर इन्द्राणि साधुर्बत विस्मृत्य विश्वम् ।
रमते सिक्तगण्डः प्रमदाश्रुप्रदानैः ॥ १६१॥
तव रागार्द्रदृष्ट्या दिवि शक्रस्य नाट्यम् ।
करुणासिक्तदृष्टया भुवि भक्त्स्य नाट्यम् ॥ १६२॥
तव सप्रेमदृष्टिर्बलमिन्द्रे दधाति ।
तव कारुण्यदृष्टिर्बलमस्मासु धत्ताम् ॥ १६३॥
तव वामाः कटाक्षाः प्रभुमानन्दयन्तु ।
उचितो दक्षिणानामयमस्त्वीक्षणानाम् ॥ १६४॥
सुकृतानां प्रपोषं दुरितानां विशोषम् ।
करुणार्द्रा विभान्ती तव दृष्टिः क्रियान्नः ॥ १६५॥
कुरु पादाब्जबन्धोः सरणिं निस्तमस्काम् ।
शचि विज्ञानतेजः किरतावीक्षितेन ॥ १६६॥
क्रिययाराधयन्तो भुवने ते विभूतीः ।
इह केचिल्लभन्ते तव मातः कटाक्षान् ॥ १६७॥
स्फुटविज्ञानपूर्वं प्रभजेरन् यदि त्वाम् ।
स्थिरया देवि भक्त्या किमु वक्तव्यमीशे ॥ १६८॥
कुविधेर्विस्मरन्ती भरतक्ष्मा शचि त्वाम् ।
बहुकालादभाग्ये पतिता देव्ययोग्ये ॥ १६९॥
अभिषिक्त्स्य माता तव तेजोंशभूता ।
सुदशां सेवमानामनयत्पश्चिमाशाम् ॥ १७०॥
अयि कालं कियन्तं दयसे पश्चिमस्याम् ।
इत इन्द्राणि पूर्वामवलोकस्व दीनाम् ॥ १७१ ॥
न वयं पश्चिमस्याश्शचि याचामनाशम् ।
कृपयैतां च पूर्वां निहताशामवाशाम् ॥ १७२॥
सकलं व्यर्थमासीदयि दीनेषु दृष्टा ।
तव विश्वस्य मातः करुणैकावशिष्टा ॥ १७३॥
सुरराजस्य कान्ते नरसिंहस्य सूनुम् ।
बलवन्तं कुरु त्वं भरतक्ष्मावनाय ॥ १७४॥
रुचिराभिर्निजाभिर्गतिभिर्हर्षयन्तु ।
मरुतां भर्तुरेतास्तरुणीं हंसमालाः ॥ १७५॥
॥ चतुर्थो मधुमतीपादः ॥
दिशि दिशि प्रसरद्रुचितमोदमनम् ।
हरतु मे दुरितं हरिवधूहसितम् ॥ १७६॥
हरतु दुःखभरप्रसृतमश्रुजलम् ।
भरतभूसुदृशो बलजितो रमणी ॥ १७७॥
अतितरां महिता सुरपतेर्वनिता ।
करुणया कलिता मम शची शरणम् ॥ १७८॥
त्रिभुवनक्षितिराड्भुवनभूषणभा ।
अखिलभासकभा मम शची शरणम् ॥ १७९॥
सततयुक्तसुधीहृदयदीपकभा ।
निखिलपाचकभा मम शची शरणम् ॥ १८०॥
रविविरोचकभा शशिविराजकभा ।
भगणशोभकभा मम शची शरणम् ॥ १८१॥
गगनखेलकभा सकलचालकभा ।
अभयदाऽतिशुभा मम शची शरणम् ॥ १८२॥
रुचिलवङ्गतया यदनघांशुनिधेः ।
हृततमोभवनं भवति दीपिकया ॥ १८३॥
स्फुरति चारु यतः किरणमेकमिता ।
जलदसौधतले मुहुरियं चपला ॥ १८४॥
भवति यद्द्युतितः कमपि भागमितः ।
पविररातिहरः प्रहरणेशपदम् ॥ १८५॥
भवति यत्सुरुचेरणुतमांशमिता ।
युवमनोमदनी सुवदनास्मितभा ॥ १८६॥
विततसूक्ष्मतनुर्महति सा गगने ।
परमपूरुषभा मम शची शरणम् ॥ १८७॥
अमरनाथसखी रुचिनिधानमुखी ।
अमृतवर्षकदृङ् मम शची शरणम् ॥ १८८॥
अविधवा सततं युवतिरेव सदा ।
अनघवीरसुता मम शची शरणम् ॥ १८९॥
अमृतवत्यधरे सुरधरापतये ।
चरणयोर्भजते मम शची शरणम् ॥ १९०॥
स्मितलवेषु सिता शिरसिजेष्वसिता ।
चरणयोररुणा बहिरपि त्रिगुणा ॥ १९१ ॥
कपटचन्द्रमुखी प्रकृतिरिन्द्रसखी ।
मृतिजरारहिता मम शची शरणम् ॥ १९२ ॥
कृशतमेप्युदरे त्रिभुवनं दधती ।
जनिमतां जननी मम शची शरणम् ॥ १९३ ॥
स्थिरतरा मनसि स्थिरतमा वचसि ।
नयनयोस्तरला मम शची शरणम् ॥ १९४॥
मृदुतरा करयोर्मृदुतमा वचसि ।
भुजबले कठिना मम शची शरणम् ॥ १९५॥
मृदुलबाहुलताऽप्यमितभीमबला ।
असुरदर्पहरी मम शची शरणम् ॥ १९६॥
अबलयाऽपि यया न सदृशोऽस्ति बले ।
जगति कश्चिदसौ मम शची शरणम् ॥ १९७॥
अतितरां सदया पदरते मनुजे ।
खलजने परुषा मम शची शरणम् ॥ १९८॥
गणपतिं कुरुताद्भरतभूम्यवने ।
अमरभूमिपतेः प्रियतमा सबलम् ॥ १९९॥
मधुरशब्दततीर्मधुमतीरजरा ।
गणपतेश्शृणुयात्सुरपतेस्तरुणी ॥ २००॥
॥ द्वितीयमौष्णिहं शतकं समाप्तम् ॥
॥ अथ तृतीयमानुष्टुभं शतकम् ॥
॥ प्रथमः पथ्यावक्त्रपादः ॥
हसितं तन्महाशक्तेरस्माकं हरतु भ्रमम् ।
यत एव महच्चित्रं विश्वमेतद्विजृम्भते ॥ २०१॥
राजन्ती सर्वभूतेषु सर्वावस्थासु सर्वदा ।
माता सर्गस्य चित्पायात् पौलोमी भारतक्षितिम् ॥ २०२॥
धर्मिज्ञानं विभोस्तत्त्वं धर्मो ज्ञानं सवित्रि ते ।
व्यवहृत्यै विभागोऽयं वस्त्वेकं तत्त्वतो युवाम् ॥ २०३॥
इन्द्रेशवासुदेवाद्यैः पदैः सङ्कीत्र्यते विभुः ।
शची शिवा महालक्ष्मीप्रमुखैर्भवती पदैः ॥ २०४॥
अन्तरं वस्तुनो ज्ञातृ तच्छक्तं परिचक्षते ।
शाखाः समन्ततो ज्ञानं शक्तिं सङ्कीर्तयन्ति ताम् ॥ २०५॥
अन्तरस्य च शाखानामैक्यं निर्विषयस्थितौ ।
विषयग्रहणेष्वेव सविभागः प्रदृश्यते ॥ २०६॥
स्यादेवं विषयापेक्षी शाखानामन्तरस्य च ।
अविभक्तैकरूपाणां विभागो हरितामिव ॥ २०७॥
लक्ष्यमन्तर्वयं चक्रे ध्यायामो यत्र निष्ठिताः ।
अन्तरीभावतस्तस्य नान्तरं तु विलक्षणम् ॥ २०८॥
अहङ्कृतेर्वयं नान्ये यत्राहङ्कृतिसम्भवः ।
सम्पद्येतान्तरं तत्र ज्ञानस्य ज्ञातृतावहम् ॥ २०९॥
अन्तरावर्तभूयस्त्वादेकस्मिन् बोधसागरे ।
बोद्धारो बहवोऽभूवन् वस्तु नैव तु भिद्यते ॥ २१०॥
चिद्रूपे मातरेवं त्वं परस्माद्ब्रह्मणो यथा ।
न देवि देवतात्मभ्यो जीवात्मभ्यश्च भिद्यसे ॥ २११॥
समस्तभूतबीजानां गूढानामन्तरात्मनि ।
तवोद्गारोऽयमाकाशो मातस्सूक्ष्मरजोमयः ॥ २१२॥
न सर्वभूतबीजानि वस्तूनि स्युः पृथक् पृथक् ।
त्वयि प्रागविभक्तानि बभूवुरिति विश्रुतिः ॥ २१३॥
यथाम्बस्मृतिबीजानां प्रज्ञायामविशेषतः ।
तथा स्याद्भूतबीजानामविभक्त्स्थितिस्त्वयि ॥ २१४॥
नाणूनि भूतबीजानि प्राक्सर्गात्त्वयि संस्थितौ ।
चितिशक्त्यात्मकान्येव निराकाराणि सर्वथा ॥ २१५॥
अनादि चेदिदं विश्वं स्मरण्णात्तव सर्जनम् ।
सादि चेदादिमः सर्गो वक्त्व्यस्तव कल्पनात् ॥ २१६॥
विधातुं शक्नुयात्संविदभूतस्यापि कल्पनम् ।
कल्पितस्यैकदा भूयः सर्जनावसरे स्मृतिः ॥ २१७॥
चितेरस्मादृशां वीर्यं स्वप्ने चेद्विश्वकारणम् ।
चितेस्समष्टिभूतायाः प्रभावे संशयः कुतः ॥ २१८॥
मातस्समष्टिचिद्रूपे विभूतिर्भुवनं तव ।
इह व्यष्टि शरीरेषु भान्ती तदनुपश्यसि ॥ २१९॥
त्वं बह्म त्वं पराशक्तिस्त्वं सर्वा अपि देवताः ।
त्वं जीवास्त्वं जगत्सर्वं त्वदन्यन्नास्ति किञ्चन ॥ २२०॥
सती चिदम्ब नैव त्वं भावाभावविलक्षणा ।
शक्तिशक्तिमतोर्भेददर्शनादेष विभ्रमः ॥ २२१॥
तवाम्ब जगतधास्य मृत्तिकाघटयोरेव ।
सम्बन्धो वेदितव्यः स्यान्न रज्जौफणिनोरिव ॥ २२२॥
त्वं शक्तिरस्यविच्छिन्ना भावैरात्मविभूतिभिः ।
अन्तरास्तु महेन्द्रस्य शक्त्स्य प्रतिबिम्बवत् ॥ २२३॥
शक्तिर्गणपतेः काये प्रवहन्ती सनातनी ।
भारतस्य क्रियादस्य बाध्यमानस्य रक्षणम् ॥ २२४॥
इमानि तत्त्ववादीनि वासिष्ठस्य महामुनेः ।
पथ्यावक्त्रणि सेवन्तामनन्तामभवां चितिम् ॥ २२५॥
॥ द्वितीयो माणवकपादः ॥
शक्त्तमा शक्रवधू हासविभा मे हरतु ।
मानसमार्गावरकं जेतुमशक्यं तिमिरम् ॥ २२६॥
भारतभूपद्मदृशो दुर्दशया क्षीणतनोः ।
बाष्पमजस्रं विगलद्वासवभामा हरतु ॥ २२७॥
दण्डितरक्षोजनता पण्डितगीतावनिता ।
मण्डितमाहेन्द्रगृहा खण्डितपापा जयति ॥ २२८॥
सद्गुणसम्पत्कलितं सर्वशरीरे ललितम् ।
देवपतेः पुण्यफलं पुष्यतु मे बुद्धिबलम् ॥ २२९॥
हासविशेषैरलसैर्दिक्षु किरन्त्यच्छसुधाम् ।
इन्द्रदृगानन्दकरी चन्द्रमुखी मामवतु ॥ २३०॥
प्रेमतरङ्गप्रतिमैः शीतलदृष्टिप्रकरैः ।
शक्रमनोमोहकरी वक्रकचा मामवतु ॥ २३१॥
गाढरसैश्चारुपदैर्गूढतरार्थैर्वचनैः ।
कामकरी वृत्रजितो हेमतनुर्मामवतु ॥ २३२॥
मृत्युतनुः कालतनोर्विश्वपतेः पार्श्वचरी ।
प्रेतजगद्रक्षति या सा तरुणी मामवतु ॥ २३३॥
प्रेतजगत्केचिदधो लोकमपुण्यं ब्रुवते ।
शीतरुचेर्देवि परो नेतरदेतद् वदति ॥ २३४॥
भूरियमुर्वी वसुधा वारिजवैर्येषभुवः ।
स्वर्महसां राशिरसौ येषु नरप्रेतसुराः ॥ २३५॥
राजतशैलं शशिनः केचिदभिन्नं ब्रुवते ।
मृत्युयमावेव शिवावीश्वरि तेषां तु मते ॥ २३६॥
राजतशैलः पितृभूरोषधिराडेष यदि ।
काञ्चनशैलः सुरभूर्बन्धुरसौ वारिरुहाम् ॥ २३७॥
पावय भूमिं दधतः पावककायस्य विभोः ।
भामिनि भावानुगुणे सेवकमग्नायि तव ॥ २३८॥
यस्य यमो भूतपतिर्बुद्धिमतस्तस्य मते ।
आग्निरुपेन्द्रो मघवा काञ्चनगर्भो भगवान् ॥ २३९॥
यस्य महाकालवधूर्मृत्युरपि द्वे न विदः ।
त्वं शचि मेधाऽस्यमते पावकशक्तिः कमला ॥ २४०॥
नामसु भेदोऽस्तु धियामीश्वरि निष्कृष्टमिदम् ।
सूर्यधरेन्दुष्वजरे त्वं त्रितनुर्भासि परे ॥ २४१॥
सात्त्विकशक्तिः सवितर्यादिमरामे भवसि ।
राजसशक्तिर्भुवि नस्तामसशक्तिः शशिनि ॥ २४२॥
सर्वगुणा सर्वविभा सर्वबला सर्वरसा ।
सर्वमिदं व्याप्य जगत्कापि विभान्ती परमा ॥ २४३॥
व्योमतनुर्निर्वपुषो देवि सतस्त्वं दयिता ।
अस्यभियुक्तैर्विबुधैरम्ब महेश्वर्युदिता ॥ २४४॥
सा खलु माया परमा कारणमीशं वदताम् ।
सा प्रकृतिः साङ्ख्यविदां सा यमिनां कुण्डलिनी ॥ २४५॥
सा ललिता पञ्चदशीमुत्तमविद्यां जपताम् ।
सा खलु चण्डी जननी साधुनवार्णं भजताम् ॥ २४६॥
सा मम शच्याः परमं कारणरूपं भवति ।
कार्यतनुर्दिवि शक्रं सम्मदयन्ती लसति ॥ २४७॥
व्योमतनोः सर्वजगच्चालनसूत्रं तु वशे ।
निर्वहणे तस्य पुनर्दिव्यतनुस्त्रीत्रितयम् ॥ २४८॥
पातुमिमं स्वं विषयं हन्त चिरान्निर्विजयम् ।
किङ्क्रमीशे विभयं मां कुरु पर्यार्शियम् ॥ २४९॥
चारुपदक्रीडनकैर्मातरिमैर्माणवकैः ।
चेतसि ते देवनुते प्रीतिरमोघा भवतु ॥ २५०॥
॥ तृतीयश्चित्रपदापादः ॥
अप्यलसो हरिदन्तध्वान्तततेरपि हर्ता ।
अस्तु ममेन्द्रपुरन्ध्री हासलवः शुभकर्ता ॥ २५१॥
पाहि परैर्हृतसारां नेत्रगलज्जलधाराम् ।
भारतभूमिमनाथां देवि विधाय सनाथाम् ॥ २५२॥
चालयता सुरराजं पालयता भुवनानि ।
शीलयता नतरक्षां कालयता वृजिनानि ॥ २५३॥
लालयता मुनिसङ्घं कीलयता दिवि भद्रम् ।
पावय मां सकृदीशे भासुरदृक्प्रसरेण ॥ २५४॥
सर्वरुचामापि शालां त्वां शचि मङ्गललीलाम् ।
कालकचामुत कालीं पद्ममुखीमुत पद्माम् ॥ २५५॥
यः स्मरति प्रतिकल्यं भक्तिभरेण परेण ।
तस्य सुरेश्वरि साधोरस्मि पदाब्जभुजिष्यः ॥ २५६॥
यस्तव नामपवित्रं कीर्तयते सुकृती ना ।
वासवसुन्दरि दासस्तच्चरणस्य सदाऽहम् ॥ २५७॥
पावकसागरकोणं यस्तव पावनयन्त्रम् ।
पूजयति प्रतिघस्रं देवि भजामि तदङ्घ्रिम् ॥ २५८॥
यस्तव मन्त्रमुदारप्राभवमागमसारम् ।
पावनि कूर्चमुपास्ते तस्य नमध्रणाय ॥ २५९॥
शान्तधियेतरचिन्तासन्ततिमम्ब विधूय ।
चिन्तयतां तव पादावस्मि सतामनुयायी ॥ २६०॥
शोधयतां निजतत्त्वं साधयतां महिमानम् ।
भावयतां चरणं ते देवि पदानुचरोऽहम् ॥ २६१॥
योऽनुभवेन्निजदेहे त्वामजरे प्रवहन्तीम् ।
सन्ततचिन्तनयोगात्तस्य नमामि पदाब्जम् ॥ २६२॥
बोधयते भवतीं यः प्राणगतागतदर्शी ।
कुण्डलिनीं कुलकुण्डात्तं त्रिदिवेश्वरि वन्दे ॥ २६३॥
लोचनमण्डलसौधां लोकनमूलविचारी ।
विन्दति यः परमे त्वां वन्दनमस्य करोमि ॥ २६४॥
मानिनि जम्भजितस्त्वां मानसमूलवितर्की ।
वेदहृदम्बुरुहे यः पादममुष्य नमामि ॥ २६५॥
अन्तरनादविमर्शी पश्यति यः सुकृती ते ।
वैभवमम्ब विशुद्धे तेन वयं परवन्तः ॥ २६६॥
इन्द्रपदस्थितचित्तश्शीर्षसुधारसमत्तः ।
यो भजते जननि त्वां तच्चरणं प्रणमामि ॥ २६७॥
रासनवारिणि लग्नः सम्मदवीचिषु मग्नः ।
ध्यायति यः परमे त्वां तस्य पदं मम वन्द्यम् ॥ २६८॥
त्वां सदहञङ्कृतिरूपां योगिनुते हतपापाम् ।
धारयते हृदये यस्तस्य सदाऽस्मि विधेयः ॥ २६९॥
धूतसमस्तविकल्पो यस्तव पावनलीलाम् ।
शोधयति स्वगुहायां तस्य भवाम्यनुजीवी ॥ २७०॥
यो भजते निजदृटिं रूपपरिग्रहणेषु ।
कामपि देवि कलां ते तस्य पदे निपतेयम् ॥ २७१॥
कर्मणि कर्मणि चेष्टामम्ब तवैव विभूतिम् ।
यः शितबुद्धिरुपास्ते तत्पदमेष उपास्ते ॥ २७२॥
वस्तुनि वस्तुनि सत्तां यो भवतीं समुपास्ते ।
मातरमुष्य वहेयं पादयुगं शिरसाऽहम् ॥ २७३॥
पातुमिमं निजदेशं सर्वदिशासु सपाशम् ।
अम्ब विधाय समर्थं मां कुरु देवि कृतार्थम् ॥ २७४॥
चित्रपदाभिरिमाभिश्चित्रविचित्रचरित्रा ।
सम्मदमेतु मघोनः प्राणसखी मृगनेत्र ॥ २७५॥
॥ चतुर्थो नाराचिकापादः ॥
अन्तर्विधुन्वता तमः प्राणस्य तन्वता बलम् ।
मन्दस्मितेन देवताराज्ञी करोतु मे शिवम् ॥ २७६॥
उत्थाप्य पुण्यसञ्चयं सम्मद्र्य पापसंहतिम् ।
सा भारतस्य सम्पदे भूयाद्बलारिभामिनी ॥ २७७॥
लीलासखी बिडौजसस्स्वर्वाटिकासु खेलने ।
पीयुषभानुजिन्मुखी देवी शची विराजते ॥ २७८॥
पक्षः परो मरुत्वतो रक्षः प्रवीरमर्दने ।
भामालि भासुरानना देवी शची विराजते ॥ २७९॥
भीतिं निशाटसंहतेः प्रीतिं सुपर्वणां ततेः ।
ज्याटङ्कृतैर्वितन्वती देवी शची विराजते ॥ २८०॥
देवेन्द्रशक्तिधारिणी शत्रुप्रसक्तिवारिणी ।
मौनीन्द्रमुक्तिकारिणी देवी शची गतिर्मम ॥ २८१॥
सन्नस्वदेशदर्शनाद्भिन्नस्वजातिवीक्षणात् ।
खिन्नस्य संश्रितावनी देवी शची गतिर्मम ॥ २८२॥
सङ्घे सहस्रधाकृते देशे निकृष्टतां गते ।
शोकाकुलस्य लोकभृद्देवी शची गतिर्मम ॥ २८३॥
सा संविदोऽधिदेवता तस्यास्स्वरः परो वशे ।
सर्वं विधीयते तया तस्मात्परा मता शची ॥ २८४॥
सा याति सूक्ष्ममप्यलं सा भाति सर्ववस्तुषु ।
सा माति खं च निस्तुलं तस्मात्परा मता शची ॥ २८५॥
सा सर्वलोकनायिका सा सर्वगोलपालिका ।
सा सर्वदेहचालिका तस्मात्परा मता शची ॥ २८६॥
यस्याः कृतिर्जगत्त्रयं या तद्बिभर्ति लीलया ।
यस्यां प्रयाति तल्लयं सा विश्वनायिका शची ॥ २८७॥
धर्मे परिक्षयं गते याऽविश्य निर्मलं जनम् ।
तद्रक्षणाय जायते सा विश्वनायिका शची ॥ २८८॥
वेधा ऋतस्य योदिता मन्त्रेण सत्यवादिना ।
बाधानिवारिणी सतां सा विश्वनायिका शची ॥ २८९॥
यज्ञो यया विनीयते युद्धं तथा पृथग्विधभ् ।
तां देवराजमोहिनीं नारीं नुमः पुरातनीम् ॥ २९०॥
यस्यास्सुतो वृषाकपिर्देवोऽसतां प्रशासिता ।
तां सर्वदा सुवासिनीं नारीं नुमः पुरातनीम् ॥ २९१॥
यस्यास्समा नितम्बिनी काचिन्न विष्टपत्रये ।
तां नित्यचारु यौवनां नारीं नुमः पुरातनीम् ॥ २९२॥
यच्चारुता न दृश्यते मन्दारपल्लवेष्वपि ।
तत्सुन्दराच्चसुन्दरं शच्याः पदाम्बुजं श्रये ॥ २९३॥
यस्य प्रभा न विद्यते माणिक्यतल्ल्जेष्वपि ।
तद्भासुराच्च भासुरं शच्याः पदाम्बुजं श्रये ॥ २९४॥
न स्यादघैस्तिरस्कृतो यच्चिन्तको नरः कृती ।
तत्पावनाच्च पावनं शच्याः पदाम्बुजं श्रये ॥ २९५॥
राजन्नखेन्दुभानुभिस्सर्वं तमो विधुन्वते ।
वृन्दारकेन्द्रसुन्दरीपादाम्बुजाय मङ्गलम् ॥ २९६॥
गीर्वाणमौलिरीभा सङ्क्षालिताय दीप्यते ।
स्वर्गाधिनाथभामिनिपादाम्बुजाय मङ्गलम् ॥ २९७॥
बालार्कबिम्बरोचिषे योगीन्द्र हृद्गुहाजुषे ।
पाकारिजीवितेश्वरीपादाम्बुजाय मङ्गलम् ॥ २९८॥
आत्मीयदेशरक्षणे शक्तं करोतु सर्वथा ।
पापद्विषां प्रियङ्करी वासिष्ठमिन्द्रसुन्दरी ॥ २९९॥
वासिष्ठवाक्प्रदीप्तिर्भिनाराचिकाभिरीश्वरी ।
गीर्वाणचक्रवर्तिनस्सम्मोदमेतु सुन्दरी ॥ ३००॥
॥ तृतीयमानुष्टुभं शतकं समाप्तम् ॥
॥ अथ चतुर्थं बार्हतं शतकम् ॥
॥ प्रथमो हलमुखीपादः ॥
क्षीरवीचिपृषतसितं प्रेमधारिदरहसितम् ।
नाकराजनलिनदृशः शोकहारि मम भवतु ॥ ३०१॥
अध्वनो गलितचरणामध्वरक्षितिमविभवाम् ।
आदधातु पथि विमले वैभवे च हरितरुणी ॥ ३०२॥
ब्रह्मणश्वितिरथनभः कायभागवगतिमती ।
या तदा पृथगिव बभौ धर्मितां स्वयमपि गता ॥ ३०३॥
मोदबोधविभवकृतप्राकृतेतरवरतनु ।
सर्वसद्गुणगणयुतं या ससर्ज सुरमिथुनम् ॥ ३०४॥
पुंसि दीप्तवपुषि तयोर्ब्रह्म सोऽहमिति लसति ।
योषिते किल धियमदात्तस्य शक्तिरहमिति या ॥ ३०५॥
याभिमानबलवशतस्तामुदारतमविभवाम् ।
मन्यते स्म वरवनितां स्वाधिदैविकतनुरिति ॥ ३०६॥
आदिपुंसि गगनतनुर्या तनोति तनुजमतिम् ।
आदधाति युवतितनुः प्राणनायक इति रतिम् ॥ ३०७॥
तां परां भुवनजननीं सर्वपापततिशमनीम् ।
तन्त्रजालविनुतबलां स्तौमि सर्वमतिममलाम् ॥ ३०८॥
सा मतिर्विदितविषया सा रुचिर्विततविषया ।
सा रतिर्विनुतविषया सा स्थितिर्विधुतविषया ॥ ३०९॥
यत्र यत्र मम धिषणा ग्राह्यवस्तुनि गतिमती ।
तत्र तत्र विलसतु सा सर्वगा सकलचरिता ॥ ३१०॥
दुर्बलस्य बहुलबलैरर्दितस्य जगति खलैः ।
आदिदेवि तव चरणं पावनं भवति शरणम् ॥ ३११॥
पौरुषे भवति विफले त्वामयं जननि भजते ।
किं नुते यदि विमुखता पौरुषं कथय भजताम् ॥ ३१२॥
कर्तुरप्रतिहतगिरः पौरुषाच्छतगुणमिदम् ।
ध्यातुरस्खलितमनसः कार्यसिद्धिषु तव पदम् ॥ ३१३॥
पौरुषं विदितमफलं काङ्क्षिते मम सुरनुते ।
शक्तमीदृशि तु समये श्रद्दधामि तव चरणम् ॥ ३१४॥
पौरुषं यदि कविमतं देवि तेऽपि पदभजनम् ।
दैववादपटुवचसो मूकतैव मम शरणम् ॥ ३१५॥
पूर्वजन्मसुकृतफलं दैवमम्ब निगदति यः ।
भक्तिपौरुषविरहिणो भावितस्य रिपुदयितम् ॥ ३१६॥
उद्यतस्य तव चरणं संश्रितस्य च सुरनुते ।
पूर्वजन्मसुकृतबलश्रद्धयाऽलमहृदयया ॥ ३१७॥
अस्तु पूर्वभवसुकृतं मास्तु वा जननि जगताम् ।
साम्प्रतं तव पदयुगं संश्रितोस्म्यव विसृज वा ॥ ३१८॥
नास्ति सम्प्रति किमपि किं भूतिमाप्स्यसि किमु ततः ।
अन्यजन्मनि वितरणे का प्रसक्तिरमरनुते ॥ ३१९॥
नान्यजन्मनि बहुशिवं नापि नाकभुवनसुखम् ।
कामये फलमभिमतं देहि सम्प्रति शचि न वा ॥ ३२०॥
मेदिनी भुवनतलतो निस्तुलादुत गगनतः ।
भास्करादुत रुचिनिधेः काम्यमीश्वरि वितर मे ॥ ३२१॥
विष्टपे क्वचन वरदे दातुमीश्वरि कृतमतिम् ।
वारयेज्जननि न परस्त्वां जनस्तव पतिमिव ॥ ३२२॥
देहि वा भगवति न वा पाहि वा शशिमुखि न वा ।
पावनं तव पदयुगं न त्यजानि हरिदयिते ॥ ३२३॥
रक्षितुं भरतविषयं शक्तमिन्द्रहृदयसखी ।
चन्द्रबिम्बरुचिरमुखी सा क्रियाद्भुवि गणपतिम् ॥ ३२४॥
सम्प्रहृष्यतु हलमुखीर्भास्वतीर्गणपतिमुनेः ।
सा निशम्य सुरनृपतेर्मोहिनी सदयहृदया ॥ ३२५॥
॥ द्वितीयो भुजगशिशुभृतापादः ॥
मरुदधिपमनोनाथा मधुकरचिकुरास्माकम् ।
वृजिनविधुतिमाधत्तां विशदहसितलेशेन ॥ ३२६॥
अखिलनिगमसिद्धान्तो बहुमुनिवरबुद्धान्तः ।
सुरपरिबृढशुद्धान्तो भरतवसुमतीमव्यात् ॥ ३२७॥
भगवति भवतीचेतो रतिकृदभवदिन्द्रस्य ।
स तव जननि सन्तानद्रुमवनमतिरम्यं वाम् ॥ ३२८॥
पतिरखिलयुवश्रेष्ठः किमपि युवतिरत्नं त्वम् ।
वनविहृतिषु वां चेतो हरणमभवदन्योन्यम् ॥ ३२९॥
मधुरललितगम्भीरैस्तव हृदयमुपन्यासैः ।
वनविहरणलीलायामहरदयि दिवो राजा ॥ ३३०॥
कलवचनविलासेन प्रगुणमुखविकासेन ।
भुवनमपिमनोऽहार्षीर्जननि वनविहारे त्वम् ॥ ३३१॥
कनककमलकान्तास्या धवलकिरणवक्त्रेण ।
असितजलजपत्राक्षी सितनलिनदलाक्षेण ॥ ३३२॥
अलिचयनिजधम्मिल्ला नवजलधरकेशेन ।
मृदुलतमभुजावल्ली दृढतमभुजदण्डेन ॥ ३३३॥
अमृतनिलयबिम्बोष्ठी रुचिरधवलदन्तेन ।
अतिमुकुरलसद्गण्डा विकचजलजहस्तेन ॥ ३३४॥
युवतिरतितरां रम्या सुललितवपुषा यूना ।
भगवति शचि युक्ता त्वं त्रिभुवनविभुनेन्द्रेण ॥ ३३५॥
विकचकुसुममन्दारद्रष्ठ्हमवनवरवाटीषु ।
विहरणमयि कुर्वाणा मनसिजमनुगृह्णासि ॥ ३३६॥
तव शचि चिकुरे राजत्कुसुमममरवृक्षस्य ।
नव सलिलभृतो मध्ये स्फुरदिव नवनक्षत्रम् ॥ ३३७॥
अभजततरुरौदार्यं विभवमपि महान्तं सः ।
विकचकुसुमसम्पत्त्या भगवति भजते यस्त्वाम् ॥ ३३८॥
अमरनृपतिना साकं कुसुमितवनवाटीषु ।
भगवति तव विश्रान्तेः स जयति समयः कोऽपि ॥ ३३९॥
अमरतरुवरच्छायास्वयि मुहुरुपविश्य त्वम् ।
शचि कृतिजनरक्षायै मनसि वितनुषु चर्चाम् ॥ ३४०॥
किमु वसु वितराण्यस्मै सुमतिमुत ददान्यस्मै ।
क्षमतममथवाऽमुष्मिन् बलमुरुघटयानीति ॥ ३४१॥
हरितरुणि कदा वामे विनमदवनचर्चासु ।
स्मरणसमय आयास्यत्यमलहृदयरङ्गे ते ॥ ३४२॥
शचि भगवति साक्षात्ते चरणकमलदासोऽहम् ।
इह तु वसुमतीलोके स्मर मम विषयं पूर्वम् ॥ ३४३॥
न यदि तव मनो दातुं स्वयमयि लघवे मह्यम् ।
उपवनतरुकर्णे वा वद मदभिमतं कर्तुम् ॥ ३४४॥
निजविषयमतिश्रेष्ठं विपदि निपतितं त्रातुम् ।
स्वकुलमपि सदध्वानं गमयितुमपथे श्रान्तम् ॥ ३४५॥
अखिलभुवनसम्राजः प्रियतरुणि भवत्यैव ।
मतिबलपरिपूर्णोएऽयं गणपतिमुनिराधेयः ॥ ३४६॥
न किमु भवति शं देशे गतवति कलुषे काले ।
तव भजनमघं सद्यो हरिहयललने जेतुम् ॥ ३४७॥
त्रिजगति सकलं यस्य प्रभवति पृथुले हस्ते ।
स बहुलमहिमा कालो मम जननि विभूतिस्ते ॥ ३४८॥
अनवरतगलद्बाष्पां भरतवसुमतीं त्रातुम् ।
वितरतु दयिताजिष्णोर्गणपतिमुनये शक्तिम् ॥ ३४९॥
भुजगशिशुभृता एताः कविगणपतिना गीताः ।
विदधतु मुदितां देवीं विबुधपतिमनोनाथाम् ॥ ३५०॥
॥ तृतीयो मणिमध्यापादः ॥
मङ्गलधायी पुण्यवतां मन्मथधायी देवपतेः ।
विष्टपराज्ञीहासलवो विक्रमधायी मे भवतु ॥ ३५१॥
दृष्टिविशेषैश्शीततरैर्भूर्यनुकम्पैः पुण्यतमैः ।
भारतभूमेस्तापततिं वासवकान्ता सा हरतु ॥ ३५२॥
पावनदृष्टिर्योगिहिता भासुरदृष्टिर्देवहिता ।
शीतलदृष्टिर्भक्थिता मोहनदृष्टिश्शक्रहिता ॥ ३५३॥
उज्ज्वलवाणी विक्रमदा वत्सलवाणी सान्त्वनदा ।
मञ्जुलवाणी सम्मददा पन्नगवेणी सा जयति ॥ ३५४॥
शारदराकाचन्द्रमुखी तोयदमालाकारकचा ।
मेचकपाथोजातदलश्रीहरचक्षुर्वासिकृपा ॥ ३५५॥
चम्पकनासागण्डविभामण्डलखेलत्कुण्डलभा ।
उक्तिषु वीणाबिम्बफलश्रीहरदन्तप्रावरणा ॥ ३५६॥
निर्मलहासक्षालितदिग्भित्तिसमूहा मोहहरी ।
काञ्चनमालाशोभिगला सन्ततलीला बुद्धिकला ॥ ३५७॥
विष्टपधारि क्षीरधरस्वर्णघटश्रीहारिकुचा ।
कापि बिडौजो राज्यरमा चेतसि माता भातु मम ॥ ३५८॥
दिव्यसुधोर्मिर्भक्तिमतां पावककीला पापकृताम् ।
व्योम्नि चरन्ती शक्रसखी शक्तिरमोघा मामवतु ॥ ३५९॥
सम्मदयन्ती सर्वतनुं संशमयन्ती पापततिम् ।
सम्प्रथयन्ती सर्वमतीस्सङ्घटयन्ती प्राणबलम् ॥ ३६०॥
निर्जितशोकाधूततमास्संस्कृतचित्ता शुद्धतमा ।
वासवशक्तेर्व्योमजुषः काचन वीचिर्मां विशतु ॥ ३६१॥
उद्गतकीलं मूलमिदं भिन्नकपालं शीर्षमिदम् ।
उज्झित मोहं चित्तमिदं वासवशक्तिर्मां विशतु ॥ ३६२॥
दृश्यविरक्तं चक्षुरिदं भोगविरक्तं कायमिदम् ।
ध्येयविरक्ता बुद्धिरियं वासवशक्तिर्मां विशतु ॥ ३६३॥
चक्षुरदृश्यज्वालभृता व्यापकखेन प्रोल्लसता ।
विस्मृतकायं सन्दधती वासवशक्तिर्मां विशतु ॥ ३६४॥
कायमजस्रं वज्रदृढं बुद्धिमशेषे व्याप्तिमतीम् ।
दिव्यतरङ्गैरादधती वासवशक्तिर्मां विशतु ॥ ३६५॥
मूर्ध्नि पतन्ती व्योमतलात्सन्ततमन्तः सर्वतनौ ।
सम्प्रवहन्ती दिव्यझरैर्वासवशक्तिर्मां विशतु ॥ ३६६॥
भानुविभायां भासकता दिव्यसुधायां मोदकता ।
काऽपि सुरायां मादकता वासवशक्त्यां तत्त्रितयम् ॥ ३६७॥
भासयतान्मे सम्यगृतं मोदमुदारं पुष्यतु मे ।
साधुमदं मे वर्धयतान्निर्जरभर्तुः शक्तिरजा ॥ ३६८॥
कश्चन शक्तिं योगबलादात्मशरीरे वर्धयति ।
एषि विवृद्धिं भक्तिमतः कस्यचिदेशे त्वं वपुषि ॥ ३६९॥
साधयतां वा योगविदां कीर्तयतां वा भक्तिमताम् ।
वत्सलभावादिन्द्रवधूर्गर्भभुवां वा याति वशम् ॥ ३७०॥
यस्य समाधिः कोऽपि भवेदात्ममनीषा तस्य बलम् ।
यस्तव पादाम्भोजरतस्तस्य खलु त्वं देवि बलम् ॥ ३७१॥
द्वादशवर्षी योगबलाद्या खलु शक्तिर्युक्तमतेः ।
तां शचि दातुं भक्तिमते कापि घटी ते मातरलम् ॥ ३७२॥
योगबलाद्वा ध्यानकृतो भक्तिबलाद्वा कीर्तयतः ।
यातु विवृद्धिं विश्वहिता वासवशक्तिर्मे वपुषि ॥ ३७३॥
दुःखितमेतच्छ्रीरहितं भारतखण्डं सर्वहितम् ।
त्रातुमधीशा स्वर्जगतः सुक्षमबुद्धिं मां कुरुताम् ॥ ३७४॥
सन्तु कवीनां भर्तुरिमे सुन्दरबन्धाशुद्धतमाः ।
सन्मणिमध्याः स्वर्जगतो राजमहिष्याः कर्णसुखाः ॥ ३७५॥
॥ चतुर्थो मात्रसमकपादः ॥
शुक्ल्ज्योतिः प्रकरैर्व्याप्तः सूक्ष्मोऽप्यन्तान् हरितां हासः ।
जिष्णोः पत्न्यास्तिमिरारातिर्निश्शेषं मे हरतान्मोहम् ॥ ३७६॥
शृण्वत्कर्णा सदयालोका लोकेन्द्रस्य प्रियनारी सा ।
नित्याक्रोशैर्विरुदद्वाणीं पायादेतां भरतक्षोणीम् ॥ ३७७॥
देवेषु स्वः परिदीप्यन्ती भूतेष्विन्दौ परिखेलन्ती ।
शक्तिर्जिष्णोर्द्वपदां सङ्घे हन्तैतस्यां भुवि निद्राति ॥ ३७८॥
निद्राणाया अपि ते ज्योतिर्गन्धादेते धरणीलोके ।
मर्त्याः किञ्चत्प्रभवन्तीशे त्वं बुद्धा चेत्किमु वक्त्व्यम् ॥ ३७९॥
मेघच्छन्नोऽप्यरुणस्तेजो दद्यादेव प्रमदे जिष्णोः ।
अत्रस्थानां भवतीग्रन्थिच्छन्नाप्येवं कुरुते प्रज्ञाम् ॥ ३८०॥
ध्यायामो यत्कथयामो यत्पश्यामो यच्छृणुमो यच्च ।
जीवामो वा तदिदं सर्वं निद्राणाया अपि ते भासा ॥ ३८१॥
नाडीबन्धादभिमानाच्च च्छन्ना मातर्भवती देहे ।
एकापायादितरो नश्येत्तस्माद्द्वेधा तपसः पन्थाः ॥ ३८२॥
चित्तं यस्य स्वजनिस्थाने प्रज्ञा बाह्या न भवेद्यस्य ।
आधत्से त्वं भुवनाधीशे बुद्धा क्रीडां हृदये तस्य ॥ ३८३॥
वाणी यस्य स्वजनिस्थाने दूरे कृत्वा मनसा सङ्गम् ।
मातस्तत्र प्रतिबुद्धा त्वं श्लोकैर्लोकं कुरुषे बुद्धम् ॥ ३८४॥
हित्वा दृश्यान्यतिसूक्ष्मायां चक्षुर्यस्य स्वमहो वृत्तौ ।
विश्वाऽलिप्ता जगतां मातर्जाग्रत्यस्मिन्नचला भासि ॥ ३८५॥
शृण्वन् कर्णो दयिते जिष्णोरन्तः शब्दं ध्रियते यस्य ।
बुद्धा भूत्वा वियता साधोरेकीभावं कुरुषे तस्य ॥ ३८६॥
यातायातं सततं पश्येद्यः प्राणस्य प्रयतो मर्त्यः ।
विश्वस्येष्टां तनुषे क्रीडां तस्मिन् बुद्धा तरुणीन्द्रस्य ॥ ३८७॥
स्वान्तं यस्य प्रभवेत्कार्येष्वम्बैतस्मिन्नयि निद्रासि ।
आत्मा यस्य प्रभवेत्कार्येष्वम्बैतस्मिन्नयि जागर्षि ॥ ३८८॥
यस्याऽहन्ता भवति स्वान्ते तस्य स्वान्तं प्रभवेत्कर्तुम् ।
यस्याऽहन्ता भवति स्वात्मन्यात्मा तस्य प्रभवेत्कर्तुम् ॥ ३८९॥
स्वान्तं यस्य प्रभवेत्कर्तुं तत्कर्माल्पं भवति व्यष्टेः ।
आत्मा यस्य प्रभवेत्कर्तुं तच्छ्लाध्यं ते बलजित्कान्ते ॥ ३९०॥
एतत्स्वान्तं हृदयाज्जातं शीर्षे वासं पृथगाधाय ।
हार्दाहन्तां स्वयमाक्रम्य भ्रान्तानस्मान् कुरुते मातः ॥ ३९१॥
अस्माकं भोः कुरुते बाधामस्मज्योतिर्जननि प्राप्य ।
स्वान्ते नैतत्कृतमन्याय्यं कान्ते जिष्णोः शृणु राज्ञि त्वम् ॥ ३९२॥
स्वान्ते तेजो हृदयादायाच्चन्द्रे तेजो दिनभर्तुर्वा ।
आश्रान्तं यो मनुते धीरस्तस्य स्वान्तं हृदि लीनं स्यात् ॥ ३९३॥
मूलान्वेषिस्फुरदावृत्तं नीचैरायात्कबलीकृत्य ।
जानन्त्येका हृदयस्थाने युञ्जानानां ज्वलसीशाने ॥ ३९४॥
शीर्षे चन्द्रो हृदये भानुर्नेत्रो विद्युत्कुलकुण्डेऽग्निः ।
सम्पद्यन्ते महसाऽशैस्ते जिष्णोः कान्ते सुतरां शस्ते ॥ ३९५॥
मन्वानां त्वां शिरसि स्थाने पश्यन्तीं वा नयनस्थाने ।
चेतन्तीं वा हृदयस्थाने राजन्तीं वा ज्वलनस्थाने ॥ ३९६॥
यो ना ध्यायेज्जगतां मातः कश्चिच्छ्रेयानवनौ नाऽतः ।
पूतं वन्द्यं चरणं तस्य श्रेष्ठं वर्ण्यं चरितं तस्य ॥ ३९७॥
दोग्ध्रीं मायां रसनां वा यो मन्त्रं मातर्जपति प्राज्ञः ।
सोऽयं पात्रं करुणायास्ते सर्वं काम्यं लभते हस्ते ॥ ३९८॥
छिन्नां भिन्नां सुतरां सन्नामन्नाभावादभितः खिन्नाम् ।
एतां पातुं भरतक्षोणीं जाये जिष्णोः कुरु मां शक्तम् ॥ ३९९॥
क्लृप्तैः सम्यग्बृहतीछन्दस्येतैर्मात्रसमकैर्वृत्तैः ।
कर्णाध्वानं प्रविशद्भिस्सा पौलोम्यम्बापरितृप्तास्तु ॥ ४००॥
॥ चतुर्थं बार्हतं शतकं समाप्तम् ॥
॥ अथ पञ्चमं पाङ्क्तं शतकम् ॥
॥ प्रथमो मयूरसारिणीपादः ॥
प्रेमवासभूमिरच्छभावस्थानमानमज्जनाघहा मे ।
इन्द्रसुन्दरी मुखाब्जभासी मन्दहास आपदं धुनोतु ॥ ४०१॥
वीक्षितैः कृपान्वितैर्हरन्ती पातकानि मङ्गलं भणन्ती ।
जम्भभेदिजीवितेश्वरी मे जन्मदेशमुज्ज्वलं करोतु ॥ ४०२॥
अम्बरं च देवतानतभ्रूरम्ब ते तनुद्वयं यदुक्तम् ।
आदिमा तयोर्वृषाकपिं तं देव्यजीजनत्परा जयन्तम् ॥ ४०३॥
एतमेव देवि लोकबन्धुं सूरयो वृषाकपिं भणन्ति ।
वर्षहेतुदीधितिर्वृषायं कं पिबन् करैः कपिर्निरुक्त्ः ॥ ४०४॥
केचिदिन्द्रनारि चन्द्ररेखाशेखरं वृषाकपिं गदन्ति ।
पण्डिताः परे तु शेषशय्याशायिनं वृषाकपिं तमाहुः ॥ ४०५॥
ब्रह्मणस्पतिं तु वैद्युताग्नेरंशजं मरुद्गणेषु मुख्यम् ।
विश्वराज्ञि विघ्नराजमेके विश्रुतं वृषाकपिं वदन्ति ॥ ४०६॥
भास्करश्च शङ्क्रश्च मातर्माधवश्च मन्त्रनायकश्च ।
आत्मजेषु ते न सन्ति नान्तर्व्यापकान्तरिक्षविग्रहायाः ॥ ४०७॥
वासवोऽपि देवि देवतात्मा वल्लभस्तव च्छलाङ्गनायाः ।
आत्मजात एव कीर्तनीयो देवतापथेन देहवत्याः ॥ ४०८॥
साशवस्युदीरितासि धीरैर्देहिनी विहायसेन्द्रसूस्त्वम् ।
लिङ्गभेदतोऽनुरूपतस्तत्कीर्तनं शवो हि शक्तिवाचि ॥ ४०९॥
नादितिर्विभिद्यते शवस्यास्सर्वदेव मातरं विदुर्याम् ।
सा मरुत्प्रसूरभाणि पृश्निः सापि भिद्यते ततो न देव्याः ॥ ४१०॥
शक्तिरेव सा न्यगादि पृश्निश्शक्तिरेव साऽदितिर्न्यभाणि ।
शक्तिरेव साऽभ्यधायि भद्रा शक्तिरेव सा शवस्यवादि ॥ ४११॥
विज्जनः प्रकृष्टशक्तिभागं शब्दमेव पृश्निमाह धेनुम् ।
या परैर्बुधैरभाणि गौरी मानवेष्टभाषयैव नारी ॥ ४१२॥
व्यापकत्वकल्पितं विशालं देशमेव शक्तिभागमाहुः ।
बुद्धिशालिनोऽदितिं सवित्रीं या परैर्विचक्षणैः स्मृता द्यौः ॥ ४१३॥
नित्यमोदरूपशक्तिभागं पण्डिताः प्रकीर्तयन्ति भद्राम् ।
उक्तिभेदचातुरीप्रलुब्धाः सूरयः परे शिवां जुगुर्याम् ॥ ४१४॥
वीर्यरूपभाग एव गण्यः पण्डितैः शवस्यभाणि शक्तेः ।
ओजसो न सोऽतिरिच्य तेंशो भिद्यते ततो न वज्रमुग्रम् ॥ ४१५॥
वज्रमेव भाषया परेषामुच्यते प्रचण्डचण्डिकेति ।
यद्विभूतिलेशचुम्बितात्मा जीयते न केनचित्पृथिव्याम् ॥ ४१६॥
सर्वतो गतिश्शचीति शक्तिः कीर्त्यते बुधैरुदारकीर्तिः ।
सर्वभागवाचकं पदं तत् पावनं पुरातनं प्रियं नः ॥ ४१७॥
यश्शचीति नामकीर्तयेन्ना पुष्करेण ते शरीरवत्याः ।
दिव्यसुन्दरी तनोरुताहो तं पराभवेन्न देवि पापम् ॥ ४१८॥
अम्बरं वरं तवाम्ब कायं यस्सदा विलोकयन्नौपास्ते ।
लोकजालचक्रवर्तिजाये तं पराभवेन्न देवि पापम् ॥ ४१९॥
पूर्णिमासुधांशुबिम्बवक्त्रं फुर्विंआरिजातपत्रनेत्रम् ।
शुभ्रतानिधानमन्दहासं कालमेघकल्पकेशपाशम् ॥ ४२०॥
रत्न्दर्पणाभमञ्जुगण्डं चम्पकप्रसूनचारुनासम् ।
कुन्दकुड्मलाभकान्तदन्तं कल्पपर्विंआभदन्तचेलम् ॥ ४२१॥
सद्वराभयप्रदायिहस्तं सर्वदेववन्द्यपादकञ्जम् ।
दिव्यरत्नभूषणैरनर्घैर्भूषितं कनत्सुवर्णवर्णम् ॥ ४२२॥
दिव्यशुक्ल्वस्त्रयुग्मधारि स्वर्गसार्वभोमनेत्रहारि ।
यः स्मरेद्वराङ्गनावपुस्ते तं पराभवेन्न देवि पापम् ॥ ४२३॥
भारतक्षितेरिदं जनन्याश्शोकजन्यबाष्पवारि हर्तुम् ।
देहि शक्तिमाश्रिताय मह्यं पाहि धर्ममिन्द्रचित्तनाथे ॥ ४२४॥
सद्वसिष्ठसन्ततेरिमाभिस्सत्कवेर्मयूरसारिणीभिः ।
सम्मदं प्रयातु शक्रचेतस्सम्प्रमोहिनीसरोजनेत्र ॥ ४२५॥
॥ द्वितीयो मनोरमापादः ॥
हसितमाततायिपातकप्रमथनप्रसिद्धविक्रमम् ।
अमरभूमिपालयोषितो मम करोतु भूरिमङ्गलम् ॥ ४२६॥
करुणया प्रचोदिता क्रियाद्भरतभूमिमक्षयश्रियम् ।
चरणकञ्जराजदिन्दिरा सुरनरेश्वरस्य सुन्दरी ॥ ४२७॥
न भवनं न वा जगत्पृथङ्निवसनाय ते सुरार्चते ।
यदखिलानि विष्टपानि ते वपुषि सर्वमन्दिराणि च ॥ ४२८॥
मतिदविष्ठसीमभासुरं तव शरीरमेव पुष्करम् ।
परमपूरुषस्य वल्लभे भुवनमेकमुच्यते बुधैः ॥ ४२९॥
तरणयस्सुधांशवस्तथा सह भुवा ग्रहाः सहस्रशः ।
अयि जगन्ति विस्तृतानि ते वपुषि पुष्करे जगत्यजे ॥ ४३०॥
बहुभिरुष्णभानुभिक्र्ततात् बहुभिरिन्दुभिर्वशीकृतात् ।
वियति लोकजालधात्रि ते शतगुणं बलं प्रशिश्यते ॥ ४३१॥
न विभुरेककस्य भास्वतो विभवमेव ना प्रभाषितुम् ।
किमुत ते दधासि योदरे द्युतिमतां शतानि तादृशाम् ॥ ४३२॥
इह विहायसा शरीरिणीमतिसमीपवासिनीमपि ।
न खलु कोऽपि लोकितुं प्रभुर्भगवतीं परामयुक्तधीः ॥ ४३३॥
तदिदमुच्यते जनो जगद्वपुरमेयमादिदेवि ते ।
जनयते यतोऽखिलं दृशोर्विषयभूतमेतदाततम् ॥ ४३४॥
बहुलतारकागणैर्युतं किमपि खं तवेह वर्ष्मणि ।
शचि विभज्य भाषयैकया सुकवयो महोजगद्विदुः ॥ ४३५॥
इदमिनेन्दुभूविलक्षणैर्दिनकरैस्सुधाकरैर्ग्रहैः ।
बहुजगद्भिरन्वितं महोजगदशेषधात्रि नैककम् ॥ ४३६॥
अजरमव्ययं सनातनं मुनिजनैकवेद्यवैभवम् ।
न भवतीं विना तपोजगत्पृथगशेषनाथनायिके ॥ ४३७॥
सकलदृश्यमूलकारणं तव च संश्रयो निराश्रयः ।
जननि सत्यलोक संज्ञया परमपूरुषोऽभिधीयते ॥ ४३८॥
अयि पुरातनर्षिभाषया गगनमेतदाप ईरिताः ।
अथ यदासुवीर्यमुज्झितं भगवतस्त्वमेव तत्परे ॥ ४३९॥
शचि विराड्भवत्यभाषत श्रुतिरपीदमेव नाम ते ।
विततविश्वविग्रहात्मनि प्रथितमेतदाह्मयं परम् ॥ ४४०॥
उपनिषद्गिरा विराड्वधूः पुरुष एष भाषयान्यया ।
उभयथापि साधु तत्पदं भवति ते न संशयास्पदम् ॥ ४४१॥
न वनिता न वा पुमान् भवेज्जगति योऽन्तरश्शरीरिणाम् ।
तनुषु लिङ्गभेददर्शनात् तनुमतश्च लिङ्गमुच्यते ॥ ४४२॥
अखिलनाथवीर्यधारणान्न्गनभूमिरङ्गनामता ।
सकललोकबीजभृत्त्वतो गगनदेश एष पूरुषः ॥ ४४३॥
स्फुटविभक्तगात्रलक्ष्मणां नियतवादिनामदर्शनात् ।
न पुरुषो वियद्यथा वयं न वनिता वियद्यथैव नः ॥ ४४४॥
अभिविमानतोऽथ वा शची विबुधराजयोर्विलक्षणात् ।
वरविलसिनी वियत्तनुस्सदविकारमुत्तमः पुमान् ॥ ४४५॥
हृदयमल्पमप्यदो जनन्यनवमं विशालपुष्करात् ।
विमलदेहदुर्गमध्यगं सकलराज्ञि सौधमस्तु ते ॥ ४४६॥
विकसितं निजांशुवीचिभिक्र्तदयमालयं विशाम्ब मे ।
विकचमुष्णभानुभानुभिर्दशशतच्छदं यथा रमा ॥ ४४७॥
हृदयसाधुसौधशायिनीं नयनरम्यहर्म्यचारिणीम् ।
भुवनराजचित्तमोहिनीं नमत तां परां विलासिनीम् ॥ ४४८॥
तव परे मरीचिवीचयस्तनुगुहां प्रविश्य विश्रुते ।
भरतभूमिरक्षणोद्यतं गणपतिं क्रियासुरुज्ज्वलम् ॥ ४४९॥
गणपतेर्मनोरमा इमास्सुगुणवेदिनां मनोरमाः ।
अवहिता शृणोतु सादरं सुरमहीपतेर्मनोरमाः ॥ ४५०॥
॥ तृतीयो मणिरागपादः ॥
ज्योतिषां नृपतिः सकलानां शान्तिमेव सदाभिदधानः ।
निर्मलो हरतात्सुरराज्ञीमन्दहासलवो मम पापम् ॥ ४५१॥
दुष्टलोकदविष्ठपदाब्जा शिष्टशोकनिवारणदक्षा ।
नाकलोकमहीपतिरामा भारतस्य धुनोत्वसुखानि ॥ ४५२॥
देवमौलिमणीकिरणेभ्यो विक्रमं स्वयमेव ददाना ।
देवराजवधूपदपद्मश्रीस्तनोतु सदा मम भद्रम् ॥ ४५३॥
देवि ते वदनं बहुकान्तं साक्षि तत्र पुरन्दरचेतः ।
अम्ब ते चरणावतिकान्तावत्र साक्षि मनः स्मरतां नः ॥ ४५४॥
भासुरं सुरसंहतिवन्द्यं सुन्दरं हरिलोचनहारि ।
पावनं नतपापविदारि स्वर्गराज्ञि पदं तव सेवे ॥ ४५५॥
जङ्घिके जयतस्तव मातः स४ एव रुचां यदधीनः ।
वासवस्य दृशां च सहस्रं यद्विलोकनलोभविनम्रम् ॥ ४५६॥
सक्थिनी तव वासवकान्ते रामणीयकसारनिशान्ते ।
वन्दते विनयेन ममेयं वन्दिनस्तव पावनि वाणी ॥ ४५७॥
इन्द्रनारि कटिस्तव पृथ्वीमण्डलस्यतुला महनीये ।
मध्यमो नभसः प्रतिमानं भोगिनां भुवनस्य च नाभिः ॥ ४५८॥
धीरतां कुरुते विगतासुं सा सुपर्वपतेर्निशिताग्रा ।
सा तवाम्ब मनोभवशस्त्री रोमराजिरघं मम हन्तु ॥ ४५९॥
रोमराजिभुजङ्गशिशुस्ते देवि देवपतेर्हृदयस्य ।
दंशनेन करोत्ययि मोहं जीविताय चिराय विचित्रम् ॥ ४६०॥
पूर्णहेमघटविव शक्रावाहितां दधतावयि शक्तिम् ।
विश्वपोषणकर्मणि दक्षावम्ब दुग्धधरौ जयतस्ते ॥ ४६१॥
लोकमातरुरोरुहपूर्णस्वर्णकुम्भगता तव शक्तिः ।
लोकपालनकर्मणि वीर्यं देवि वज्रधरस्य बिभर्ति ॥ ४६२॥
अक्षयामृतपूर्णघटौ ते शक्रपत्नि कुचै तव पीत्वा ।
लोकबाधकभीकररक्षो धूनने प्रबभूव जयन्तः ॥ ४६३॥
हस्तयोस्तव मार्दवमिन्द्रो भाषतां सुषमामपि देवः ।
दातृतामनयोर्मुनिवर्गो वर्णयत्यजरे पटुतां च ॥ ४६४॥
पुष्पमाल्यमृदोरपि बाहोः शक्तिरुग्रतमाशरनाशे ।
दृश्यते जगतामधिपे ते भाषतां तव कस्तनुतत्त्वम् ॥ ४६५॥
कम्बुकण्ठि तवेश्वरि कण्ठस्तारहारवितानविराजी ।
देवराड्भुजलोचनपथ्यो देवि मे भणताद्बहुभद्रम् ॥ ४६६॥
आननस्य गभस्तिनिधेस्ते रामणीयकमद्भुतमीष्टे ।
अप्यमर्त्यनुताखिलसिद्धेर्वासवस्य वशीकरणाय ॥ ४६७॥
न प्रसन्नमलं रविबिम्बिं चन्द्रबिम्बमतीव न भाति ।
सुप्रसन्नमहोज्ज्वलमास्यं केन पावनि ते तुलयामः ॥ ४६८॥
लोचने तव लोकसवित्रि ज्योतिषः शवसश्च निधाने ।
वक्तुमब्जसमे ननु लज्जे धोरणीमनुसृत्य कवीनाम् ॥ ४६९॥
आयतोज्ज्वलपक्ष्मलनेत्रा चम्पकप्रसवोपमनासा ।
रत्नदर्पणरम्यकपोला श्रीलिपिद्युतिसुन्दरकर्णा ॥ ४७०॥
अष्टमीशशिभासुरभाला विष्टपत्रयचालकलीला ।
स्मेरचारुमुखी सुरभर्तुः प्रेयसी विदधातु शिवं मे ॥ ४७१॥
मन्दहासलवेषु वलक्षा मेचका चिकुरप्रकरेषु ।
शोणतामधरे दधती सा रक्षतु प्रकृतिस्त्रिगुणा नः ॥ ४७२॥
सर्वलोकवधूजनमध्ये यां श्रुतिस्सुभगामभिधत्ते ।
या दिवो जगतो रुचिसारस्तां नमामि पुरन्दररामाम् ॥ ४७३॥
स्वर्गभूपतिलोचनभाग्यश्रीश्शरीरवती जलजाक्षी ।
भारतस्य करोतु समर्थं रक्षणे नरसिंहतनूजम् ॥ ४७४॥
लोकमातुरिमे रमणीयाः पाकशासनचित्तरमण्याः ।
अर्पिताः पदयोर्विजयन्तां सत्कवेः कृतयो मणिरागाः ॥ ४७५॥
॥ चतुर्थो मेघवितानपादः ॥
अमरक्षितिपालकचेतो मदनं सदनं शुचितायाः ।
स्मितमादिवधूवदनोत्त्थं हरतादखिलं कलुषं मे ॥ ४७६॥
सुतरामधनामतिखिन्नामधुना बहुलं विलपन्तीम् ।
परिपातु जगत्त्रयनेत्री भरतक्षितिमिन्द्रपुरन्ध्री ॥ ४७७॥
स्थलमेतदमर्त्यनृपालप्रमदे तव मेघवितानम् ।
अयि यत्र परिस्फुसीशे तटिदुज्ज्वलवेषधरा त्वम् ॥ ४७८॥
तटिता तव भौतिकतन्वा जितमम्बुधरे विलसन्त्या ।
उपमा भुवि या ललितानां युवचित्तहृतां वनितानाम् ॥ ४७९॥
स्फुरितं तव लोचनहारि स्तनितं तव धीरगभीरम् ।
रमणीयतया मिलिता ते शचि भीकरता चपलायाः ॥ ४८०॥
चपले शचि विस्फुरसीन्द्रं घनजालपतिं मदयन्ती ।
दितिजातमवग्रहसंज्ञं जनदुःखकरं दमयन्ती ॥ ४८१॥
प्रभुमभ्रपतिं रमयन्ती दुरितं नमतां शमयन्ती ।
हरितां तिमिराणि हरन्ती पवमानपथे विलसन्ती ॥ ४८२॥
अलघुस्तनितं विदधाना बलमुग्रतमं च दधाना ।
हृदयावरकं मम मायापटलं तटिदाशु धुनोतु ॥ ४८३॥
सुरपार्थवजीवितनाथे निखिले गगने प्रवहन्त्याः ।
तटितस्तव वीचिषु काचिच्चपला लसतीह पयोदे ॥ ४८४॥
विबुधप्रणुते धनिकानां भवनेषु भवन्त्ययि दीपाः ।
पटुयन्त्रबलादुदितानां तव देवि लवाः किरणानाम् ॥ ४८५॥
व्यजनानि च चालयसि त्वं बत सर्वजगन्नऋपजाये ।
विबुधोऽभिदधात्वथवा को महतां चरितस्य रहस्यम् ॥ ४८६॥
इह चालित ईड्यमनीषैरयि यन्त्रविशेषविधिज्ञैः ।
बहुलाद्भुतकार्यकलापस्तटितस्तव मातरधीनः ॥ ४८७॥
अचरस्तरुगुल्मलतादिः सकलश्च चरो भुवि जन्तुः ।
अनिति प्रमदे सुरभर्तुस्तटितस्तव देवि बलेन ॥ ४८८॥
मनुते निखिलोऽपि भवत्या मनुजोऽनिति वक्तिशृणोति ।
अवलोकयते च भणामः किमु ते जगदम्ब विभूतिम् ॥ ४८९॥
अतिसूक्ष्मपवित्रसुषुम्णापथतस्तनुषु प्रयतानाम् ।
कुलकुण्डकृशानुशिखा त्वं ज्वलसि त्रिदशालयनाथे ॥ ४९०॥
इतरो न सुरक्षितिपालात्कुलकुण्डगतो ज्वलनोऽयम् ।
इतरेन्द्रविलासिनि न त्वत्कुलकुण्डकृशानुशिखेयम् ॥ ४९१॥
कुलकुण्डकृशानुशिखायाः किरणैः शिरसि स्थित एषः ।
द्रवतीन्दुरनारतमेतद्वपुरात्ममयं विदधानः ॥ ४९२॥
मदकृद्बहुलामृतधारापरिपूतमिदं मम कायम् ।
विदधासि भजन्मनुजाप्ते कुलकुण्डधनंजयदीप्ते ॥ ४९३॥
शिरसीह सतः सितभानोरमृतेन वपुर्मदमेति ।
हृदि भात इनस्य च भासा मतिमेतु परां शचि चेतः ॥ ४९४॥
मम योगमदेन न तृप्तिनिजदेशदशाव्यथितस्य ।
अवगन्तुमुपायममोघं शचि भासय मे हृदि भानुम् ॥ ४९५॥
विदितः प्रमदस्य विधातुः शशिनो जनयित्रि विलासः ।
अहमुत्सुक ईश्वरि भानोर्विभवस्य च वेत्तुमियत्ताम् ॥ ४९६॥
वरुणस्य दिशि प्रवहन्ती मदमम्ब करोषि महान्तम् ।
दिशि वज्रभृतः प्रवहन्ती कुरु बुद्धिमकुण्ठितसिद्धिम् ॥ ४९७॥
अमलामधिरुह्य सुषुम्णां प्रवहस्यधुनाम्ब मदाय ।
अमृतामधिरुह्य च किञ्चित्प्रिवहेश्वरि बुद्धिबलाय ॥ ४९८॥
भरतक्षितिक्षणकर्मण्यभिधाय मनोज्ञमुपायम् ।
अथ देवि विधाय च शक्तं कुरु मां कृतिनं शचि भक्तम् ॥ ४९९॥
नरसिंहसुतेन कवीनां विभुना रचितैः कमनीयैः ।
परितृप्यतु मेघवितानैर्मरुतामधिपस्य पुरन्ध्री ॥ ५००॥
॥ पञ्चमं पाङ्क्तं शतकं समाप्तम् ॥
॥ अथ षष्ठं त्रैष्टुभं शतकम् ॥
॥ प्रथम उपजातिपादः ॥
मन्दोऽपि बोधं विदधन्मुनीनां स्वच्छोऽपि रागं त्रिदशेश्वरस्य ।
अल्पोऽपि धुन्वन्हरितां तमांसि स्मिताङ्कुरो भातु जयन्तमातुः ॥ ५०१॥
अशेषपापौघनिवारणाय भाग्यस्य पाकाय च देवराज्ञी ।
शोकाकुलां भारतभूमिमेतां लोकस्य माता हृदये करोतु ॥ ५०२॥
धर्मद्विषामिन्द्रनिरादराणां संहारकर्मण्यतिजागरूकाम् ।
देवीं परां देवपथे ज्वलन्तीं प्रचण्डचण्डीं मनसा स्मरामि ॥ ५०३॥
व्याप्ता तटिद्वा गगने निगूढा नारी सुरेशानमनोरमा वा ।
शक्तिः सुषुम्णापथचारिणी वा प्रचण्डचण्डीति पदस्य भावः ॥ ५०४॥
समस्तलोकावनिनायिकायाः सुपर्वमार्गेण शरीरवत्याः ।
मातुर्महोंशं महनीयसारं विज्ञानवन्तस्तटितं भणन्ति ॥ ५०५॥
निगूढतेजस्तनुरम्बिकेयं प्रचण्डचण्डी परितो लसन्ती ।
अव्यक्त्शब्देन शरीरवत्याः काल्याः कवीनां वचनेषु भिन्ना ॥ ५०६॥
शब्दं विना नैव कदापि तेजस्तेजो विना नैव कदापि शब्दः ।
शक्तिद्वयं सन्ततयुक्तमेतत्कथं स्वरूपेण भवेद्विभक्तम् ॥ ५०७॥
एकैव शक्तिर्ज्वलति प्रकृष्टा स्वरत्यपि प्राभवतः समन्तात् ।
क्रियाविभेदादिह पण्डितानां शक्तिद्वयोक्तिस्तु समर्थनीया ॥ ५०८॥
एकक्रियायाश्च फलप्रभेदात्पुनर्विभागः क्रियते बहुज्ञैः ।
कालीं च तारां स्वरमग्र्यमाहुः प्रचण्डचण्डीं ललितां च तेजः ॥ ५०९॥
सम्पद्यते शब्दगतेर्हि कालः शब्दो वरेण्यस्तदभाणि काली ।
ध्यातेन शब्देन भवं तरेद्यद्सुधास्ततः शब्दमुशन्ति ताराम् ॥ ५१०॥
यदक्षरं वेदविदामृषीणां वेदान्तिनां यः प्रणवो मुनीनाम् ।
गौरी पुराणेषु विपश्चितां या सा तान्त्रिकाणां वचनेन तारा ॥ ५११॥
सम्पद्यते संहृतिरोजसा यत्प्रचण्डचण्डी तदुदीरितौजः ।
सिध्येदशेषोऽनुभवो यदोजस्यतो बुधास्तां ललितां वदन्ति ॥ ५१२॥
प्रचण्डचण्डीं लघुना पदेन चण्डीं विदुः केचन बुद्धिमन्तः ।
एके विदः श्रेष्ठमहोमयीं तां लक्ष्मीं महत्पूर्वपदां वदन्ति ॥ ५१३॥
अतीव सौम्यं ललितेति शब्दं प्रचण्डचण्डीति पदं च भीमम् ।
देवी दधाना सुतरां मनोज्ञा घोरा च नित्यं हृदि मे विभातु ॥ ५१४॥
प्रचण्डचण्डीं तु शरीरभाजां तनूषु योगेन विभिन्नशीर्षाम् ।
शक्तिं सुषुम्णासरणौ चरन्तीं तां छिन्नमस्तां मुनयो वदन्ति ॥ ५१५॥
कपालभेदो यदि योगवीर्यात्सम्पद्यते जीवत एव साधोः ।
तमेव सन्तः प्रवदन्ति शीर्षच्छेदं शरीरान्तरभासि शक्तेः ॥ ५१६॥
उदीर्यसे निर्जरराजपत्नि त्वं छिन्नमस्ता यमिनां तनूषु ।
उज्जऋम्भणे विश्वसवित्रि यस्याः कायं भवेद्वैद्युतयन्त्रतुल्यम् ॥ ५१७॥
पितुर्नियोगात्तनयेन कृत्ते मस्ते जनन्याः किल रेणुकायाः ।
त्वमाविशः पावनि तत्कबन्धं तद्वा त्वमुक्तासि निकृत्तमस्ता ॥ ५१८॥
छिन्नं शिरः कीर्णकचं दधानां करेण कण्ठोद्गतरक्तधाराम् ।
रामाम्बिकां दुर्जनकालरात्रिं देवीं पवित्रं मनसा स्मरामि ॥ ५१९॥
ध्रुवो रमा चन्द्रधरस्य रामा वाग्वज्रवैरोचसदीर्घनिर्ये ।
कूर्चद्वयं शस्त्रकृशानुजाये विद्यानृपार्णा सुरराजशक्तेः ॥ ५२०॥
मायाद्विवारं यदि सैकवर्णा विद्यैकवर्णा यदि धेनुरेका ।
धेन्वादि सम्बोधनमस्त्रमग्नेर्विलासिनी चेति धरेन्दुवर्णा ॥ ५२१॥
चतुष्टयेत्रन्यतमं गृहीत्वा मन्त्रं महेन्द्रस्य मनोधिनाथाम् ।
भजेत यस्तान्त्रिकदिव्यभावमाश्रित्य सिद्वीः सकलाः स विन्देत् ॥ ५२२॥
संहोत्रमित्यद्भुतशक्तियुक्तं वृषाकपेर्दर्शनमम्ब मन्त्रम् ।
यो वैदिकं ते मनुजो भजेत किञ्चिन्न तस्येह जगत्यसाध्यम् ॥ ५२३॥
प्रचण्डचण्डि प्रमदे पुराणि पुराणवीरस्य मनोधिनाथे ।
प्रयच्छ पातुं पटुतां परां मे पुण्यामिमामार्यनिवासभूमिम् ॥ ५२४॥
प्रपञ्चराज्ञीं प्रथितप्रभावां प्रचण्डचण्डीं परिकीर्तयन्त्यः ।
एताः प्रमोदाय भवन्तु शक्तेरुपासकानामुपजातयो नः ॥ ५२५॥
॥ द्वितीयो रथोद्धतापादः ॥
क्षालनाय हरितां विभूतये विष्टपस्य मदनाय वज्रिणः ।
तज्जयन्तजननीमुखाब्जतो निर्गतं स्मितमघं धुनोतु नः ॥ ५२६॥
अन्नलोपकृशभीरुकप्रजां भिन्नभावबलहीननेतृकाम् ।
वासवस्य वरवर्णिनी परैरर्दितामवतु भारतावनिम् ॥ ५२७॥
पाणिपादमनिमेषराज्ञि ते पारिजातनवपल्लवोपमम् ।
अक्षपाविरहमङ्गभासरिद्वासिचक्रमिथुनं कुचद्वयम् ॥ ५२८॥
पूर्णचन्द्रयशसोऽपहारकं सम्प्रसादसुषमास्पदं मुखम् ।
ज्ञानशक्तिरुचिशेवधीदृशौ रक्त्वर्णकसुधाघनोऽधरः ॥ ५२९॥
मर्दयत्तिमिरमुद्धतं दिशां अल्पमप्यधिकवैभवं स्मितम् ।
प्रावृडन्तयमुनातरङ्गवन्नत्न्लचारुरतिपावनः कचः ॥ ५३०॥
वल्लकीं च परुषध्वनिं वदन् दुःखितस्य च मुदावहः स्वरः ।
चारु हावशबलाऽलसा गतिः कायधामवचसां न पद्धतौ ॥ ५३१॥
योगसिद्धिमतुलां गता मतिश्चातुरी च बुधमण्डलस्तुता ।
विष्टपत्रितयराज्यतोऽप्यसि त्वं सुखाय महते बिडौजसः ॥ ५३२॥
त्वामुदीक्ष्य धृतदेवतातनुं दीप्तपक्ष्मलविशाललोचनाम् ।
आदितो जननि जन्मिनामभूद् वासवस्य रतिरादिमे रसे ॥ ५३३॥
आदिमं रसमनादिवासना वासितौ प्रथममन्वगृह्णताम् ।
सम्मदस्य निधिमादिदम्पती सोऽचलत्त्रिभुवने ततः क्रमः ॥ ५३४॥
ज्यायसा दिविषदां पुरातनी नीलकञ्जनयना विलासिनी ।
यद्विहारमतनोत्प्ररोचनं तत्सतामभवदादिमे रसे ॥ ५३५॥
न त्वदम्ब नलिनाननाऽधिका नापि नाकपतितोऽधिकः पुमान् ।
नाधिकं च वनमस्ति नन्दनान्नादिमादपि रसोऽधिको रसात् ॥ ५३६॥
नायिका त्वमसमानचारुता नायकः स मरुतां महीपतिः ।
नन्दनं च रसरङ्गभूः कथं मन्मथस्य न भवेदिहोत्सवः ॥ ५३७॥
देवि वां मृतिकथैव दूरतो जातुचिद्गलति नैव यौवनम् ।
काङ्क्षितः परिकरो न दुर्लभः किं रसः परिणमेदिहान्यथा ॥ ५३८॥
विष्टपस्य युवराजकेशवे त्राणभारमखिलं निधाय वाम् ।
क्रीडतोरमरराज्ञि नन्दने क्रीडितानि मम सन्तु भूतये ॥ ५३९॥
यद्युवाममरराज्ञि नन्दने कुर्वतो रहसि देवि मन्त्रणम् ।
तत्र चेन्मम कृतिर्मनागियं स्पर्शमेति भुवि को नु मत्कृती ॥ ५४०॥
क्रन्दनं यदि ममेह वन्दिनो नन्दने विहरतोः सवित्रि वाम् ।
अन्तरायकृदथाब्जकान्ति ते सम्प्रगृह्य चरणं क्षमापये ॥ ५४१॥
योषितामपि विमोहनाकृतिर्मोहनं तु पुरुषसंहतेरपि ।
इन्द्रमम्बरमयां बभूविथ त्वं रसार्द्रहृदया लसद्रसम् ॥ ५४२॥
दिव्यचन्दनरसानुलेपनैः पारिजातसुमतल्पकल्पनैः ।
चारुगीतकृतिभिश्च भेजिरे नाकलोकवनदेवताश्च वाम् ॥ ५४३॥
स्वर्णदीसलिलशीकरोक्षिताः पारिजातसुमगन्धधारिणः ।
नन्दने त्रिदशलोकराज्ञि वां केपि भेजुरलसाः समीरणाः ॥ ५४४॥
आदधासि सकलाङ्गनाधिके पद्मगन्धिनि सुधाधराधरे ।
मञ्जुवाणि सुकुमारि सुन्दरि त्वं सुरेन्द्रसकलेन्द्रियार्चनम् ॥ ५४५॥
आदिदेवि वदनं तवाभवत् कान्तिधाम मदनं दिवस्पतेः ।
आननादपि रसामृतं किरन्निष्क्रमं विलसितं कलं गिराम् ॥ ५४६॥
चारुवाग्विलसिताच्च निस्तुलप्रेमवीचिरुचिरं विलोकितम् ।
वीक्षितादपि विलासविश्रमस्थानमल्पमलसं शुचिस्मितम् ॥ ५४७॥
भासुरेन्द्रदृढबाहुपञ्जरे लज्जया सहजया नमन्मुखी ।
तद्विलोचनविकर्षकालका पातु मां त्रिदिवलोकनायिका ॥ ५४८॥
भारतक्षितिविषादवारणे तत्सुतं गणपतिं कृतोद्यमम् ।
आदधातु पटुमर्जुनस्मिता दुर्जनप्रमथनक्षमा शची ॥ ५४९॥
चारुशब्दकलिताः कृतीरिमाः सत्कविक्षितिभुजो रथोद्धताः ।
सा शृणोतु सुरमेदिनीपतेर्नेत्रचित्तमदनी विलासिनी ॥ ५५०॥
॥ तृतीयो मौक्तिकमालापादः ॥
निर्मलभासां दिशि दिशि कर्ता पुण्यमतीनां हृदि हृदि धर्ता ।
पालयतान्मामनघविलासः शक्रमहिश्याः सितदरहासः ॥ ५५१॥
पुण्यचरित्रा मुनिजनगीता वासवकान्ता त्रिभुवनमाता ।
वत्सलभावादवतु विदूनां भारतभूमिं धनबलहीनाम् ॥ ५५२॥
कोटितटिद्वत्तव तनुकान्तिः पूर्णसमाधेस्तव हृदि शान्तिः ।
वासवभामे भगवति घोरः शत्रुविदारी तव भुजसारः ॥ ५५३॥
आश्रयभूतं सुमधुरताया आलयभूतं जलधिसुतायाः ।
वासवदृष्टेस्तवमुखमब्जं किङ्क्रदृष्टेस्तव पदमब्जम् ॥ ५५४॥
पादसरोजं वृजिनहरं ते यो भजते ना सुरपतिकान्ते ।
तत्र कटाक्षा अयि शतशस्ते तस्य समस्तं भगवति हस्ते ॥ ५५५॥
ज्ञापकशक्तिः प्रतिनरमस्तं कारकशक्तिः प्रतिनरहस्तम् ।
वासवचक्षुस्सुकृतफलश्रीर्भातु ममान्तः सुरभुवनश्रीः ॥ ५५६॥
मन्त्रपराणां वचसि वसन्ती ध्यानपराणां मनसि लसन्ती ।
भक्तिपराणां हृदि विहरन्ती भाति पराम्बा नभसि चरन्ती ॥ ५५७॥
सेवकपापप्रशमननामा दिक्तिमिरौघप्रमथनधामा ।
उज्ज्वलशस्त्रा रणभुवि भीमा पातु नतं मां हरिहयरामा ॥ ५५८॥
योगिनि शक्तिर्विलससि दान्तिः योषिति शक्तिर्विलससि कान्तिः ।
ज्ञानिनि शक्तिर्विलससि तुष्टिः धन्विनि शक्तिर्विलससि दृष्टिः ॥ ५५९॥
सङ्गिनि शक्तिर्विलससि निद्रा ध्यातरि शक्तिर्विलससि मुद्रा ।
वासवकान्ते गगननिशान्ते भाषितुमीशः क्व नु विभवं ते ॥ ५६०॥
यद्दितिजानां दमनमवक्रं केशवहस्ते विलसति चक्रम् ।
तत्र कला ते भगवति भद्रा काचन भारं वहति विनिद्रा ॥ ५६१॥
दुष्टनिशाटप्रशमनशीलं यत् सितभूभृत्पतिकरशूलम् ।
तत्र मर्महोंशस्तव जगदीशे राजति कश्चित्पटुररिनाशे ॥ ५६२॥
यन्निजरोचिक्र्ततरिपुसारं वासवहस्ते कुलिशमुदारम् ।
तत्र तवांशो विलसति दिव्यः कश्चन भासो भगवति भव्यः ॥ ५६३॥
अम्बरदेशे सुमहति गुप्ता पङ्क्जबन्धौ विलसति दीप्ता ।
राजसि मातर्हिमरुचिशीता वेदिकृशानौ क्रतुभृतिपूता ॥ ५६४॥
सूक्ष्मरजोभिर्विहितमुदारं यज्जगदेतन्न्गगनमपारम् ।
तत्तववेदः प्रवदति कायं पावनि भानुस्तव तनुजोऽयम् ॥ ५६५॥
ईश्वरि नैकस्तव खरतेजाः तेऽपि च सर्वे जननि तनूजाः ।
उज्वलखेटाः कुवदति कायाः पावनि कस्ते प्रवदतु मायाः ॥ ५६६॥
या महिमानं प्रथयति भूमिः पावनकीर्तिर्जलनिधिनेमिः ।
सेयमपीशे भवति सुपुत्री वासवजाये तव जनधात्री ॥ ५६७॥
अङ्ग सखायो विरमतसङ्गाश्वष्ठ्हर्विषयाणां कृतमतिभङ्गात् ।
ध्यायत चित्ते धुतभयबीजं वासवजायाचरणसरोजम् ॥ ५६८॥
पापमशेषं सपदि विहातुं शक्तिमनल्पामपि परिधातुम् ।
चेतसि साधो कुरु परिपूतं वासवजायापदजलजातम् ॥ ५६९॥
ईश्वरि वन्द्यद्युतिभृतिमेधे काङ्क्षितनीराण्यसृजति मोघे ।
निर्मलकीर्तेस्तव शचि गानं शक्ष्यति कर्तुं तदुदकदानम् ॥ ५७०॥
आमयवीर्याद्विगलति सारे जीवति किञ्चिद्रिसनगनीरे ।
रक्षति जन्तुं तव शचि नाम प्राज्ञजनैरप्यगणितधाम ॥ ५७१॥
मध्यमलोके स्यति शुचिरुग्रा राजसि नाके विभवसमग्रा ।
प्राणिशरीरे भवसि विचित्र वासवजाये विविधचरित्र ॥ ५७२॥
व्योम्नि वपुस्ते विनिहतपापं विश्रुतलीलं तव दिवि रूपम् ।
कर्मवशात्ते भवति स भोगः प्राणिशरीरे भगवति भागः ॥ ५७३॥
भारतभूमेः शुचमपहन्तुं श्रेष्ठमुपायं पुनरवगन्तुम् ।
वासवजाये दिश मम बुद्धिं पावनि माये कुरु कुरु सिद्धिम् ॥ ५७४॥
सम्मदयन्तीर्बुधजनमेताः स्वर्गधरित्रीपतिसतिपूताः ।
मौक्तिकमालाः शृणु नुतिकर्तुर्भक्तिनिबद्धाः कविकुलभर्तुः ॥ ५७५॥
॥ चतुर्थः सुमुखीपादः ॥
अजितमिनाग्नितटिच्छशिभिः मम हृदयस्य तमः प्रबलम् ।
अमरपतिप्रमदाहसितं विमलघृणिप्रकरैर्हरतु ॥ ५७६॥
सुरनृपतेर्दयिता विनताहितशमनी लुलितामितरैः ।
वरकरुणावरुणालयदृङ्मम जननीमवतादवनिम् ॥ ५७७॥
पटुतपसो जमदग्निमुनेरिह सहधर्मचरीं भुवने ।
तनयनिकृत्तशिरः कमलां वरमतिमाविशदिन्द्रवधूः ॥ ५७८॥
यदुकुलकीर्तिविलोपभिया बतविनिगूह्य ऋतं कवयः ।
मुनिगृहिणी वधहेतुकथामितरपथेन भणन्ति मृषा ॥ ५७९॥
न सुरभिरर्जुनभूमिपतिर्भृगुतिलकस्य जहार स याम् ।
इयममृतांशुमनोज्ञमुखी परशुधरस्य जनन्यनघा ॥ ५८०॥
अतिरथमर्जुनभूमिपतिं सहपृतनं जमदग्निसुतः ।
युधि स विजित्य विशालयशाः पुनरपि मातरमाहृतवान् ॥ ५८१॥
परगृहवासकलङ्कवशान्निजगृहिणीं जमदग्निमुनिः ।
बतविनिहन्तुमना कलयंस्तनुभवमादिशदुग्रमनाः ॥ ५८२॥
पितृवचनादतिभक्तिमताप्यसुरवदात्मसुतेन हताम् ।
मुनिगृहिणीमनघेतिवदंस्तव वरदेऽविशदंश इमाम् ॥ ५८३॥
इदमविकम्प्यमतिप्रबलं प्रभवति कारणमार्यनुते ।
मुनिगृहिणीमनघां भणितुं शचि कलया यदि मामविशः ॥ ५८४॥
खलजनकल्पितदुष्टकथाश्रवणवशाद्व्यथितं हृदयम् ।
अथ चरितेऽवगते विमलस्मृतिवशतो मम याति मुदम् ॥ ५८५॥
तव महसा विशता कृपया मम शचि सूक्ष्मशरीरमिदम् ।
नृपरिपुमातृपवित्रकथा स्मरणपथं गमिता सपदि ॥ ५८६॥
विदधतुरासुरकृत्यमुभौ बहुलगुणामपि यद्गृहिणीम् ।
स मुनिरघातयदच्छकथां दशरथजश्च मुमोच वने ॥ ५८७॥
अपि विनिकृत्तशिराः शचि ते वरमहसा विशता सपदि ।
अलभत जीवितमम्ब पुनर्भुवनशुभाय मुनेस्तरुणी ॥ ५८८॥
यदि शिरसा रहिते वपुषि प्रकटतया विलसन्त्यसवः ।
यदि हृदयं सहभाति धिया किमिव विचित्रमितश्चरितम् ॥ ५८९॥
परशुधरस्य सवित्रि कला त्वयि पुरुहूतसरोजदृशः ।
स शिरसि काचिदभूद्रुचिरा विशिरसि भीमतमा भवति ॥ ५९०॥
परशुधरोऽर्जुनभूमिपतिं यदजयदम्ब तपोऽत्र तव ।
अभजत कारणतामनघे वरमुनिगेयपवित्रकथे ॥ ५९१॥
भगवति कृत्तशिरो भवती मथितवती नृपतीनशुभान् ।
प्रथनभुवि प्रगुणं भुजयोः परशुधराय वितीर्य बलम् ॥ ५९२॥
शुभतमकुण्डलपूर्वसतिः पदनतपातकसंशमनी ।
दिशतु निकृत्तशिराः कुशलं मम सुरपार्थवशक्तिकला ॥ ५९३॥
निजसुतरङ्गपतेर्निकटे कृतवसतिर्नतसिद्धिकरी ।
दलितशिराः प्रतनोतु मम श्रियममरेश्वरशक्तिकला ॥ ५९४॥
भुवि ततसह्यनगान्तरगे शुभतमचन्द्रगिरौ वरदा ।
कृतवसतिः कुरुतान्मम शं भृगूकुलरामजनन्यजरा ॥ ५९५॥
अवतु विकृत्तशिराः पदयोर्भजकमनिन्द्यविचित्रकथा ।
दिनकरमण्डलमध्यगृहा सुरधरणीपतिशक्तिकला ॥ ५९६॥
गगनचरार्चितपादुकया पदनतसन्मतिबोधिकया ।
मम सततं शुचिरेणुकया परवदिदं कुलमम्बिकया ॥ ५९७॥
शमयितुमुग्रतमं दुरितं प्रथयितुमात्मनिगूढबलम् ।
गमयितुमग्रय्दशां स्वकुलं तव चरणाम्बुजमम्ब भजे ॥ ५९८॥
परवशगामशिवेन वृतां भरतधरां परिपातुमिमाम् ।
पटुमतिवाक्क्रियमातनुताद्गणपतिमभ्रहयप्रमदा ॥ ५९९॥
गणपतिदेवमर्महोंशजुषो गणपतिनामकविप्रकवेः ।
सुरपतिजीवसखीशृणुयाद्दशशतपत्रमुखी सुमुखीः ॥ ६००॥
॥ षष्ठं त्रैष्टुभं शतकं समाप्तम् ॥
॥ अथ सप्तमं जागतं शतकम् ॥
॥ प्रथमो द्रुतविलम्बितपादः ॥
सुरमहीरमणस्य विलासिनी जलचरध्वजजीवितदायिनी ।
हरतु बोधदृगावरणं तमो हृदयगं हसितेन सितेन मे ॥ ६०१॥
नमदमर्त्यकिरीटकृतैः किणैः कमठपृष्ठनिभे प्रपदेऽङ्किता ।
परिधुनोतु शची भरतक्षितेर्वृजिनजालमजालमकम्पनम् ॥ ६०२॥
अतितरां नतपालनलोलया विबुधनाथमनोहरलीलया ।
किरिमुखीमुखशक्त्युपजीव्यया विदितयादितया गतिमानहम् ॥ ६०३॥
घनहिरण्यमदापहरोचिषा वनरुहाननयाऽवनदक्षया ।
गतिमदिन्द्रमनोरथनाथया भुवनमेव न मे कुलमात्रकम् ॥ ६०४॥
तनुषु वामनमूर्तिधरे विभौ तमनुयाच विराजति वामनी ।
शरणवाननयाम्बिकया लसत् करुणयाऽरुणया पदयोरहम् ॥ ६०५॥
सकरुणा कुशलं मम रेणुकातनुरजा तनुतादुदितो यतः ।
युधि मुनिर्विदधौ परशुं दधज्जनपतीनपतीव्रभुजामदान् ॥ ६०६॥
सुजनशत्रुरमाथि घनध्वनिः शचि सरात्रिचरस्तव तेजसा ।
जननि रामसहोदरसायकं प्रविशताऽविशतादधिकौजसा ॥ ६०७॥
तव महःकलयाबलमाप्तया जननि शुम्भनिशुम्भमदच्छिदा ।
जगदरक्ष्यत गोपकुलेशितुस्तनुजयाऽनुजयार्जुनसारथेः ॥ ६०८॥
न विनिरूपयितुं प्रबभूव यां कविजनो विविधं कथयन्नपि ।
मुनिहृदम्बुजसौधतलेन्दिरा जयति सा यतिसाधुजनावनी ॥ ६०९॥
इममयि त्रिदिवेश्वरि कल्किनं रुषमपोह्य सवित्रि विलोकितैः ।
सुरपतेर्द्विषतोऽघवतो लसन् मदनकैरवकैरवलोचने ॥ ६१०॥
स्मरदमर्त्यनृपालविलासिनीं प्रबलपातकभीतिविनाशिनीम् ।
प्रवणयान्तरनन्यधिया लसद्विनययानययामवतीर्मनः ॥ ६११॥
भगवतीगगनस्थलचारिणी जयति सङ्गररङ्गविहारिणी ।
सुकृतशत्रुमतिभ्रमकारिणी हरिहयारिहयादिविदारिणी ॥ ६१२॥
शरणवानहमर्जुनहासया भुवनभूपतिहारिविलासया ।
दिवि पुलोमजया धवलाचले गिरिजयाऽरिजयावितदेवया ॥ ६१३॥
चरणयोर्धृतया विजयामहे वयमशेषजगन्नृपजायया ।
दिवि पुलोमजया धवलाचले नगजया गजयानविलासया ॥ ६१४॥
अरिवधाय विधाय बुधाधिपं पटुभुजाबलभीषणमाजिषु ।
न भवती शचि गच्छति दुर्गतः क्वचन काचन कातरधीरिव ॥ ६१५॥
सपदि मानसधैर्यहृतो जगज्जननि वज्रतनोर्ज्वलितार्चिषः ।
अरिजने प्रथमं तव वीक्षया सुरपतेरपतेजसि वि क्रमः ॥ ६१६॥
न मननोचितमस्ति परं नृणां विबुधराजवधूपदपद्मतः ।
जगति दर्शनयोग्यमिहापरं न रमणी रमणीयमुखाब्जतः ॥ ६१७॥
शरणवानहमस्मि पुरातनप्रमदया मुनिगेयचरित्रया ।
स्वबलचालितनाकजगन्नभो वसुधया सुधया सुरराड्दृशाम् ॥ ६१८॥
अयमहं गतिमानतिशान्तया त्रिदिवभूमिपतिप्रियकान्तया ।
मनसि मौनिजनैरतिभक्तितो निहितया हितया सुकृतात्मनाम् ॥ ६१९॥
विनयतः स्तुतया गमयाम्यहं जनिमतां जनयित्रि निशास्त्वया ।
प्रसृतया कुलकुण्डधनञ्जयाद्धृततनूततनूतनवेगया ॥ ६२०॥
सकृदमोघसरस्वतिसाधुधी हृदयवेद्यपदाम्बुजसौष्ठवे ।
मम शिवं सुमनः पृथिवीपतेः सुवदने वद नेत्रलसद्दये ॥ ६२१॥
दुरवगाहपथे पतितं चिराज्जननि गम्यविलोकनलालसम् ।
स्वयममर्त्यनृपालमनोरमे सुनयने नयनेयमिमं जनम् ॥ ६२२॥
अवतु नः स्वयमेव पटून् विपद्विमथनाय विधाय बुधेश्वरी ।
सकलमर्मसुवीतदयैः परैर्विनिहतानिह तापवतः शची ॥ ६२३॥
सुरधरापतिजीवितनाथया स्वजननक्षितिरक्षणकर्मणि ।
पटुतमो जन एष विधीयतामिह तया हतया तु समूहया ॥ ६२४॥
गणपतेः शृणुयादिममुज्वलं द्रुतविलम्बितवृत्तगणं शची ।
सलिलराशिसुताभवनीभवद्भुवनपावनपादसरोरुहा ॥ ६२५॥
॥ द्वितीयो जलोद्धतगतिपादः ॥
हरित्सु परितः प्रसादमधिकं दधानममलत्विषां प्रसरणैः ।
महेन्द्रमहिलाविलासहसितं मदन्तरतमो धुनोतु विततम् ॥ ६२६॥
प्रसूस्त्रिजगतः प्रिया मघवतः कृपाकलितया कटाक्षकलया ।
नितान्तमगतेर्विकुण्ठितमतेर्धुनोतु भरतक्षितेरकुशलम् ॥ ६२७॥
पुरा शचि मतिस्त्वमीशितुरथो नभस्तनुमिता पृथङ्मतिमती ।
अनन्तरमभूः सरोजनयना तनुः सुरपतेर्विलोचनसुधा ॥ ६२८॥
परत्र विगुणा सतोऽसि धिषणा नभस्तनुरिह प्रपञ्चमवसि ।
असि स्वरबला प्रिया सुरपतेरियत्तव शचि स्वरूपकथनम् ॥ ६२९॥
प्रजापतिपदे पुराणपुरुषे स्मृता त्वमदितिः सुरासुरनुते ।
जनार्दनपदे रमासि परमे सदाशिवपदे शिवा त्वमजरे ॥ ६३०॥
उषा इनपदे स्वधाऽनलपदे पुरन्दरपदे त्वमीश्वरि शची ।
यथा रुचिविदुः पदानि कवयश्चितैश्च चितिमान्युवामृजुगिरा ॥ ६३१॥
अमेयममलं पुराणपुरुषं तदीयविभवाभिधायिभिरिमे ।
वदन्ति कवयः पदैर्बहुविधैस्तथैव भवतीं ततो मतभिदाः ॥ ६३२॥
नभश्च पवनः स्वरश्च परमस्तटिच्च वितता पतिश्च महसाम् ।
सुधांशुरनलो जलं च पृथिवी सवित्रि युवयोर्विभूतिपटली ॥ ६३३॥
अपारबहुलप्रमोदलहरी सतः किलचितिः परत्र वितता ।
पुनर्वियदिदं परीत्य निखिलं जगन्ति दधती परा विजयते ॥ ६३४॥
न यद्यपि परात्परे नभसि ते सरोजनयना वपुः पृथगजे ।
तथापि नमतां मतीरनुसरन्त्यमेयविभवे दधासि च तनूः ॥ ६३५॥
सह त्रिभुवनप्रपालनकृता समस्तमरुतां गणस्य विभुना ।
सदा शशिमुखी शरीरभृदजा जगत्यदुरिते शची विजयते ॥ ६३६॥
कुलं बहुभिदं बलं न भुजयोः कथं नु विपदस्तरेम भरताः ।
समर्थमधुना विपद्विधुतये तवाम्ब चरणं व्रजामि शरणम् ॥ ६३७॥
समस्तमपि च स्वदेशविदुषां विधानपटलं बभूव विफलम् ।
अभाग्यदमनक्षमं तदधुना तवाम्ब चरणं व्रजामि शरणम् ॥ ६३८॥
निजो मम जनो नितान्तमगतिर्न कुक्षिभरणेऽप्ययं प्रभवति ।
महेश्वरि कृपामरन्दमधुना तवाम्ब चरणं व्रजामि शरणम् ॥ ६३९॥
अदृष्टकनकं कुलं मम चिरान्निरायुधमिदं निराशमभितः ।
स्वभावत इव प्रबद्धमभवत्तवाम्ब चरणं व्रजामि शरणम् ॥ ६४०॥
अवीरचरितं विपालककथं निरार्षविभवं चिरान्मम कुलम् ।
इदं मम मनो निकृन्तति मुहुस्तवाम्ब चरणं व्रजामि शरणम् ॥ ६४१॥
चिरात्स्मृतिपथादपि च्युतमजे तपोबलभवं तमार्षविभवम् ।
स्वदेशमधुना पुनर्गमयितुं तवाम्ब चरणं व्रजामि शरणम् ॥ ६४२॥
हतं च विहतं धुतं च विधुतं रुदन्तमभितो विशिष्टकरुणे ।
इमं स्वविषयं शिवं गमयितुं तवाम्ब चरणं व्रजामि शरणम् ॥ ६४३॥
क्षयाय सुकृतद्विषां विहरतां शिवाय च सतां प्रपञ्चसुहृदाम् ।
निजस्य मनसो बलाय च परे तवाम्ब चरणं व्रजामि शरणम् ॥ ६४४॥
जयत्सु सुकृतं द्विषत्सु परितः सतामपि कुले बलेन रहिते ।
खलप्रिययुगे कलौ परिणते तवाम्ब चरणं व्रजामि शरणम् ॥ ६४५॥
अभाति सुकृते निगूढविभवे विभाति दुरिते फलानि दिशति ।
विधानविकले मनस्यभयदे तवाम्ब चरणं व्रजामि शरणम् ॥ ६४६॥
पटौ प्रतिभटे गदे प्रतिभये नतावनविधावतीव निपुणम् ।
सुपर्वभुवनक्षितीशदयिते तवाम्ब चरणं व्रजामि शरणम् ॥ ६४७॥
अमर्त्यपटलीकिरीटमणिभाभुजङ्गकिरणं नितान्तमरुणम् ।
विपत्तिदमनं तमः प्रशमनं तवाम्ब चरणं व्रजामि शरणम् ॥ ६४८॥
विनष्टविभवामिमां पुनरपि श्रियाविलसितां विधातुमजरे ।
स्वजन्मपृथिवीं स्वरीशदयिते दिशेर्गणपतेः कराय पटुताम् ॥ ६४९॥
सुपर्ववसुधाधिनाथसुदृशो जलोद्धतगतिस्तवोऽयमनघः ।
कृतिर्गणपतेः करोतु विधुतिं भयस्य भरतक्षमातलजुषाम् ॥ ६५०॥
॥ तृतीयः प्रमिताक्षरपादः ॥
उदितं महेन्द्रमहिलावदने प्रसृतं करैर्दिशि दिशि प्रगुणैः ।
अहितं तमः प्रशमयद्यमिनां हसितं करोतु मम भूरि शिवम् ॥ ६५१॥
भरतक्षितेस्तिमिरमाशु हरत्वरिचातुरीकृतविमोहमतेः ।
रविलक्षतोऽप्यधिकमंशुमती पविपाणिचित्तदयिता वनिता ॥ ६५२॥
शशिलक्षशीतलकटाक्षसुधा तरुणार्ककोटिरुचिपादयुगा ।
हृदि मे विभातु मुनिगेयगुणा विबुधेन्द्रचित्तरमणी तरुणी ॥ ६५३॥
कमनीयदीप्तसुकुमारतनुर्मननीयपावनपदाम्बुरुहा ।
विदधातु मे शिवमसद्विमुखी विबुधेन्द्रजीवितसखी सुमुखी ॥ ६५४॥
अनुमानमूढपितृवाक्यवशात्तनयेन देवि विनिकृत्तशिराः ।
तव रेणुका विलसिता कलया गणनीयशक्तिरभवद्दशसु ॥ ६५५॥
सकलामयप्रशमनं दुरितक्षयकारिकाङ्क्षितकरं च भवेत् ।
सुरसुन्दरी जनसमर्चतयोर्हृदि रेणुकाचरणयोः करणम् ॥ ६५६॥
विनिहन्ति पापपटलं स्मरणाद्विधुनोति रोगनिवहं भजनात् ।
विदघाति वाञ्छिततफलं स्तवनान्मनुजस्य रामजननी चरणम् ॥ ६५७॥
शरणं व्रजामि नवरव्यरुणं चरणं तवाम्ब नृपजातिरिपोः ।
भरतक्षितेरवनतः प्रथमं मरणं ममेह न भवत्वधमम् ॥ ६५८॥
स्मरणं चिरादविरतं विदधच्चरणस्य ते तरुणभानुरुचः ।
अयमस्तु रामजनयित्रिपटुः सुरकार्यमार्यविनुते चरितुम् ॥ ६५९॥
अव भारतक्षितिममोघदये करणं भवत्विह तवैष जनः ।
निजयोः सवित्रि चरणाम्बुजयोर्न विहातुमर्हसि चिराद्भजकम् ॥ ६६०॥
अविशस्त्वमिन्द्रदयिते किलतामपि यज्ञसेनतनयां कलया ।
अनघव्रतासु कवयः प्रथमां प्रवदन्ति यां बहुलवन्द्यगुणाम् ॥ ६६१॥
भुवि भारतं पठति यः सुकृती कलुषं धुनोति सकलं किल सः ।
इयमम्ब शक्तिकुलराज्ञि तव द्रुपदस्य नन्दिनि कथामहिमा ॥ ६६२॥
अभिमन्युमातरमनल्पगुणामतिलङ्घ्य चैक्षत हरिर्भवतीम् ।
अतिसौहृदेन यदिहार्यनुते तव हेतुरीड्यतमशक्तिकला ॥ ६६३॥
गृहकार्यतन्त्रचतुरा गृहीणी सकलीन्द्रियामृतझरी रमणी ।
वरनीतिमार्गकथने सचिवोऽप्यभवस्त्वमम्ब कुरु वंशभृताम् ॥ ६६४॥
न युधिष्ठिरस्य वरघोरतपो न धनञ्जयस्य पटु बाहुबलम् ।
अरिसङ्क्षयं कृतवती बहुलं तव वेणिकाऽपचरिता फणिनी ॥ ६६५॥
असितापि कान्तिवसतिर्महती वनिताजनस्य च विमोहकरी ।
कुशलं ममाभ्रपतिशक्तिकला द्रुपदक्षितीन्द्रदुहिता दिशतु ॥ ६६६॥
शिरसा समस्तजनपापभरं वहतो भवाय भुवि यामवृणोत् ।
अमराधिपः पतितपावनि तां भुवि कन्यकां तव विवेश कला ॥ ६६७॥
कलया तवातिबलया कलिता पुरुषस्य योगमखिलाम्ब विना ।
अखिलेश्वरप्रहिततेज इयं सुतजन्मने किल दधावनघा ॥ ६६८॥
सुररक्षकस्य मदयित्रि दृशां नररक्षकस्य जनयित्रि परे ।
कुलरक्षणाय कृतबुद्धिमिमं कुरु दक्षमद्भुतपवित्रकथे ॥ ६६९॥
मुमुचुः कुले मम सुपर्वपतेस्तव चाभिधेयमिह मन्दधियः ।
अपराधमेतमतिघोरतरं जननि क्षमस्व मम वीक्ष्य मुखम् ॥ ६७०॥
इह शारदेति यतिभिर्विनुता प्रथिता सुरेश्वरमनोदयिता ।
भुवि भाति कीर्तिवपुषा शचि या सुकथापि सा तव सवित्रि कला ॥ ६७१॥
अरुणाचलेश्वरदरीवसतेस्तपतो मुनेर्गणपतेः कुशलम् ।
विविधावतारविलसच्चरिता वितनोतु सा विबुधराड्वनिता ॥ ६७२॥
अरुणाचलस्य वरकन्दरया प्रतिघोषितं कलुषहारि यशः ।
विबुधाधिनाथरमणी शृणुयाद्गणनाथगीतमतिचारुनिजम् ॥ ६७३॥
भरतक्षितेः शुभविधायिषु सा विबुधक्षितीशदयिता दयया ।
धनशक्तिबन्धुबलहीनमपि प्रथमं करोतु गणनाथमुनिम् ॥ ६७४॥
मुदितामिमा विदधतु प्रमदां त्रिदिवाधिपस्य निपुणश्रवणाम् ।
अमितप्रकाशगुणशक्तिमजां प्रमिताक्षराः सुकविभूमिपतेः ॥ ६७५॥
॥ चतुर्थस्तामरसपादः ॥
दिशतु शिवं मम चन्द्रवलक्षस्तिमिरसमूहनिवारणदक्षः ।
कृतगतिरोधकपातकनाशः सुरधरणीशवधूस्मितलेशः ॥ ६७६॥
अविदितमार्गतयातिविषण्णां गतिमपहाय चिराय निषण्णाम् ।
भरतधरामनिमेषधरत्री पतिगृहिणी परिपातु सवित्री ॥ ६७७॥
भुवनमिदं भवतः किल पूर्वं यदमलरूपमनाकृतिसर्वम् ।
प्रकृतिरियं कुरुताददरिद्रामतिमतिशाततरां मम भद्रा ॥ ६७८॥
सृजति जगन्ति विभौ परमे या सुबहुलशक्तिरराजत माया ।
प्रदिशतु सा मम कञ्चन योगं झटिति निराकृतमानसरोगम् ॥ ६७९॥
प्रतिविषयं विकृतीतर सत्ता विलसति या मतिमद्भिरुपात्ता ।
इयमनघा परिपालितजातिं वितरतु मे विविधां च विभूतिम् ॥ ६८०॥
प्रतिविषयग्रहणं परिपूतामतिरखिलस्य जनस्य च माता ।
मम विदधातु शुभं शुभनामा त्रिदिवनिवासिनरेश्वररामा ॥ ६८१॥
गगनतनुर्जगतो विपुलस्य प्रभुपदमग्रय्मिता सकलस्य ।
प्रतिजनदेहमजा प्रवहन्ती मम हृदि नन्दतु सा विहरन्ती ॥ ६८२॥
पटुकुलकुण्डधनञ्जयकीला समुदितहार्दविभाकरलीला ।
द्रुतशिर इन्दुकलामृतधारा जनमवतान्निजभक्तमुदारा ॥ ६८३॥
विषयसमाकृतिरत्र पुरस्ताद्विमलतमा किल तत्र परस्तात् ।
भुवनमयी भुवनाच्च विभक्तामतिरनघाऽवतु मामतिशक्ता ॥ ६८४॥
विषयपरिग्रहणेष्वतिसक्ता विषयविभूतिषु कापि विविक्ता ।
अखिलपतेर्मयि दीव्यतु शक्तिर्विमलतमा विधुतेतरशक्तिः ॥ ६८५॥
दृशि दृशि भाति यदीयमपापं दिशि दिशि गन्तृ च वेत्तृ च रूपम् ।
भवतु शिवाय ममेयमनिन्द्या भुवनपतेर्गृहिणी मुनिवन्द्या ॥ ६८६॥
जडकुलकुण्डदरीषु शयाना बुधकुलवह्निषु भूरिविभाना ।
हरिहयशक्तिरमेयचरित्र मम कुशलं विदधातु पवित्र ॥ ६८७॥
दहरगताखिलमाकलयन्ती द्विदलगता सकलं विनयन्ती ।
दशशतपत्रगता मदयन्ती भवतु मयीन्द्रवधूर्विलसन्ती ॥ ६८८॥
गृहयुगलीश्रिय आश्रितगम्या पदकमलद्वितयी बहुरम्या ।
मम हृदि भात्वविकुण्ठितयाना हरिसुदृशस्तरुणारुणभाना ॥ ६८९॥
उपरि तता कुलकुण्डनिशान्ताज्ज्वलितधनञ्जयदीधितिकान्तात् ।
हरिहयशक्तिरियं मम पुष्टा द्रवयतु मस्तकचन्द्रमदुष्टा ॥ ६९०॥
नभसि विराजति या परशक्तिर्मम हृदि राजति या वरशक्तिः ।
उभयमिदं मिलितं बहुवीर्यं भवतु सुखं मम साधितकार्यम् ॥ ६९१॥
त्रिभुवनभूमिपतेः प्रिययोषा त्रिमलहरी सुरविष्टपभूषा ।
मम वितनोतु मनोरथपोषं दुरितविपत्तिततेरपि शोषम् ॥ ६९२॥
पवनजगत्प्रभुपावनमूर्तिर्जलधरचालनविश्रुतकीर्तिः ।
मम कुशलाय भवत्वरिभीमा जननवतां जननी बहुधामा ॥ ६९३॥
मम सुरराजवधूकलयोग्रा खलजनधूननशक्तनखाग्रा ।
दमयतु कृत्तशिराः कलुषाणि प्रकटबला हृदयस्य विषाणि ॥ ६९४॥
कुलिशिवधूकलया परिपुष्टा बुधनुतसन्नुणजालविशिष्टा ।
मम परितो विलसद्विभवानि द्रुपदसुता विदधातु शिवानि ॥ ६९५॥
सुरजनराड्दयितांशविदीप्ते पदकमलाश्रितसाधुजनाप्ते ।
दुरितवशादभितो गतभासं मनुजकुमारजनन्यवदासम् ॥ ६९६॥
अमरनरेश्वरमन्दिरनेत्री सुमशरजीवनसुन्दरगात्री ।
भवतु शची विततस्वयशस्सु प्रतिफलिता गणनाथवचस्सु ॥ ६९७॥
विकसतु मे हृदयं जलजातं विलसतु तत्र शचीस्तुतिगीतम् ।
स्फुरतु समस्तमिहेप्सितवस्तु प्रथिततमं मम पाटवमस्तु ॥ ६९८॥
कुरु करुणारससिक्तनिरीक्षे वचनपथातिगसन्नुणलक्षे ।
शचि नरसिंहजमाहितगीतं भरतधरामवितुं पटुमेतम् ॥ ६९९॥
सुललिततामरसैः प्रसमाप्तं वरनुतिबन्धमिमं श्रवणाप्तम् ।
जननि निशम्य सुसिद्धमशेषं हरिललने मम कुर्वभिलाषम् ॥ ७००॥
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः
गणपतेः कृतौ इन्द्राणीसप्तशती समाप्ता ॥
The Collected Works of Vasishtha Kavyakantha Ganapati Muni Vol 02-14
Proofread by DPD