इन्द्रकृतं देवीस्तोत्रम्
इन्द्र उवाच ।
नमस्ते जगतां मात्रे भूतानां बीजसंविदे ॥ २९॥
भक्तिः श्रद्धा च भजतां शक्तिश्चासि त्वमम्बिके ।
कारणं परमा कीर्तिः शान्तिर्दान्तिः कला क्षमा ॥ ३.१.११.३०॥
एकैव विश्वरूपा त्वं नामभेदैर्निगद्यसे ।
तेषु तेषु पदेष्वस्मांस्तपोऽनुगुणसिद्धिषु ॥ ३१॥
नियुज्य शत्रुं निर्भिद्य शिवा ज्ञेया प्रकाशसे ।
हतोऽयं महिषो दुष्टो विनिकृत्तश्च शाम्भवि ॥ ३२॥
छिन्नमेतस्य तु शिरः सजीवमिव लक्ष्यते ।
रक्तनेत्रं तीक्ष्णशृगं ज्वलज्जिह्वं चलं शिरः ॥ ३३॥
आक्रम्य तव तिष्ठन्त्या रूपमेव सदास्तु नः ।
चक्रशृङ्गधनुर्बाणखड्गचर्मवराभयैः ॥ ३४॥
शूलघण्टाङ्कुशकशाकपालकुलिशादिभिः ।
अशेषदेवतामूर्तिरशेषैर्देवतायुधैः ॥ ३५॥
आपूरिता त्वमेवाम्ब सर्वशत्रून्निहंसि नः ।
आयुधानां सहस्राणि तन्मयास्ते विभूतयः ॥ ३६॥
त्वज्जितारातयः सर्वे विविधायुधवाहनाः ।
रथनागहयैर्युक्ताः ससैन्या अपि भूभृतः ॥ ३७॥
क्षणेन दग्धवीर्याः स्युस्त्वत्प्रसादविवर्जिताः ।
अपदोऽप्यल्पवीर्योऽपि त्वत्पादाम्बुजसेवकः ॥ ३८॥
त्रिलोकनाथतां प्राप्तः प्रथते कीर्तिमण्डितः ।
तद्रूपमिदमत्युग्रं ध्यायतामर्चतां सदा ॥ ३९॥
न शत्रुभ्यो भयं किञ्चिद्भवेद्विजयशालिनाम् ।
ईदृशं सर्वलोकेषु रूपं ते देववन्दितम् ॥ ३.१.११.४०॥
पूज्यतामिष्टसिद्ध्यर्थं देवैर्भृत्यैश्च सर्वदा ।
मातरश्च त्वया सृष्टाः सर्वाभीष्टफलप्रदाः ॥ ४१॥
सगणाः प्रतिपूज्यन्तां सर्वस्थानेषु सर्वदा ।
अयं च निहतो दैत्यस्त्वत्पादकृतलाञ्छनः ॥ ४२॥
तव भक्तैः सदा पूज्यस्त्वत्प्रमादात्त्वदग्रतः ॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, अरुणाचलमाहात्म्ये, पूर्वार्धे,
एकादशाध्यायान्तर्गतं इन्द्रकृतं देवीस्तोत्रं समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । अरुणाखण्ड । पूर्वखण्ड । अध्याय ११/२९-४२॥
skandapurANa . mAheshvarakhaNDa . aruNAkhaNDa . pUrvakhaNDa . adhyAya 11/29-42..
Proofread by PSA Easwaran