इन्द्रकृतं लक्ष्मीस्तोत्रम्

इन्द्रकृतं लक्ष्मीस्तोत्रम्

नारायण उवाच । सहस्रदलपद्मस्य कर्णिकावासिनीं पराम् । शरत्पार्वणकोटीन्दुप्रभाजुष्टकरां वराम् ॥ १०॥ स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् । प्रतप्तकाञ्चननिभां शोभां मूर्तिमतीं सतीम् ॥ ११॥ रत्नभूषणभूषाढ्यां शोभितां पीतवाससा । ईषद्धास्यप्रसन्नास्यां रम्यां सुस्थिरयौवनाम् ॥ १२॥ सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् । ध्यानेनानेन तां ध्यात्वा चोपहारैस्सुसंयुतः ॥ १३॥ (इन्द्रः)सम्पूज्य ब्रह्मवाक्येन चोपहाराणि षोडश । ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ॥ १४॥ इन्द्र उवाच । ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ ५२॥ पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ ५३॥ सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः । सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ ५४॥ हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः । कृष्णवक्षस्थितायै च कृष्णेशायै नमो नमः ॥ ५५॥ कृष्णशोभास्वरूपायै रत्नाढ्यायै नमो नमः । सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ ५६॥ सस्याधिष्ठातृदेव्यै च सस्यलक्ष्म्यै नमो नमः । नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ ५७॥ वैकुण्ठे च महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ ५८॥ गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । सुरभिस्सा गवां माता दक्षिणा यज्ञकामिनी ॥ ५९॥ अदितिर्देवमाता त्वं कमला कमलालये । स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ६०॥ त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा । शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥ ६१॥ क्रोधहिंसावर्जिता च वरदा च शुभानना । परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ६२॥ यया विना जगत्सर्वं भस्मीभूतमसारकम् । जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ ६३॥ सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी । यया विना न सम्भाष्यो बान्धवैर्बान्धवः सदा ॥ ६४॥ त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः । धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ ६५॥ स्तनन्धयानां त्वं माता शिशूनां शैशवे यथा । तथा त्वं सर्वदा माता सर्वेषां सर्वविश्वतः ॥ ६६॥ त्यक्तस्तनो मातृहीनः स चेज्जीवति दैवतः । त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ ६७॥ सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवाम्बिके । वैरिग्रहस्तद्विषयं देहि मह्यं सनातनि ॥ ६८॥ वयं यावत्त्वया हीना बन्धुहीनाश्च भिक्षुकाः । सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥ ६९॥ राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि । कीर्तिं देहि धनं देहि पुत्रान्मह्यं च देहि वै ॥ ७०॥ कामं देहि मतिं देहि भोगान्देहि हरिप्रिये । ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ॥ ७१॥ सर्वाधिकारमेवं वै प्रभावं च प्रतापकम् । जयं पराक्रमं युद्धे परमैश्वर्य्यमेव च ॥ ७२॥ इत्युक्त्वा तु महेन्द्रश्च सर्वैः सुरगणैः सह । ननाम साश्रुनेत्रोऽयं मूर्ध्ना चैव पुनः पुनः ॥ ७३॥ इति ब्रह्मवैवर्तपुराणे प्रकृतिखण्डे एकोनचत्वारिंशाध्यायान्तर्गतं इन्द्रकृतं लक्ष्मीस्तोत्रं समाप्तम् । ब्रह्मवैवर्तपुराण । प्रकृतिखण्ड । अध्याय ३९/१०-१२/; ५३-७३॥ brahmavaivartapurANa . prakRRitikhaNDa . adhyAya 39/10-12/; 53-73.. Proofread by PSA Easwaran
% Text title            : Indrakritam Lakshmi Stotram
% File name             : indrakRRitaMlakShmIstotram.itx
% itxtitle              : lakShmIstotram (indrakRitaM brahmavaivartapurANAntargatam namaH kamalavAsinyai nArAyaNyai namo namaH)
% engtitle              : indrakRRitaM lakShmIstotram
% Category              : devii, devI, brahmavaivartapurANa, lakShmI, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | prakRRitikhaNDa | adhyAya 39/10-12/; 53-73||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 5, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org