श्रीजानकी अष्टोत्तरशतनामावलिः
ॐ सीरध्वजसुतायै नमः ।
ॐ सीतायै नमः ।
ॐ स्वाश्रिताभीष्टदायिन्यै नमः ।
ॐ सहजानन्दिन्यै नमः ।
ॐ स्तव्यायै नमः ।
ॐ सर्वभूताशयस्थितायै नमः ।
ॐ ह्लादिन्यै नमः ।
ॐ क्षेमदायै नमः ।
ॐ क्षान्त्यै नमः ।
ॐ षडर्द्धाक्षहृदिस्थितायै नमः । १०
ॐ श्रीनिधये नमः ।
ॐ श्रीसमाराध्यायै नमः ।
ॐ श्रियः श्रियै नमः ।
ॐ श्रीमदर्चितायै नमः ।
ॐ शरण्यायै नमः ।
ॐ वेदनिःश्वासायै नमः ।
ॐ वैदेह्यै नमः ।
ॐ विबुधेश्वर्यै नमः ।
ॐ लोकोत्तराम्बायै नमः ।
ॐ लोकाद्यै नमः । २०
ॐ रघुनन्दनवल्लभायै नमः ।
ॐ रम्यरम्यनिधये नमः ।
ॐ रामायै नमः ।
ॐ योगेश्वरप्रियात्मजायै नमः ।
ॐ यज्ञस्वरूपायै नमः ।
ॐ यज्ञेश्यै नमः ।
ॐ योगिनां परमागत्यै नमः ।
ॐ मृदुस्वभावायै नमः ।
ॐ मृदुलायै नमः ।
ॐ मैथिल्यै नमः । ३०
ॐ मधुराकृत्यै नमः ।
ॐ मनोरूपायै नमः ।
ॐ महेज्येज्यायै नमः ।
ॐ महासौभाग्यदायिन्यै नमः ।
ॐ भूमिजायै नमः ।
ॐ बुधमृग्याङ्घ्रिकमलायै नमः ।
ॐ बोधवारिधये नमः ।
ॐ तपसां फलस्वरूपायै नमः ।
ॐ फणीन्द्रवर्ण्यवैभवायै नमः ।
ॐ नमस्यायै नमः । ४०
ॐ प्रियदृष्ट्यै नमः ।
ॐ धरारत्नायै नमः ।
ॐ धरासुतायै नमः ।
ॐ दिव्यात्मायै नमः ।
ॐ दीप्तमहिमायै नमः ।
ॐ तत्त्वात्मायै नमः ।
ॐ जनकात्मजायै नमः ।
ॐ जगदीशपरप्रेष्ठायै नमः ।
ॐ ज्ञानिनां परमायनायै नमः ।
ॐ जगन्मङ्गलमाङ्गल्यायै नमः । ५०
ॐ जरामृत्युभयातिगायै नमः ।
ॐ चन्द्रकलामुखासाद्यायै नमः ।
ॐ चिदानन्दस्वरूपिण्यै नमः ।
ॐ चतुरात्मायै नमः ।
ॐ चतुर्व्यूहायै नमः ।
ॐ चन्द्रबिम्बोपमाननायै नमः ।
ॐ घनश्यामात्मनिलयायै नमः ।
ॐ गोप्त्र्यै नमः ।
ॐ गुप्तायै नमः ।
ॐ गुहेशयायै नमः । ६०
ॐ गेयोदारयशःपङ्क्त्यै नमः ।
ॐ गतैश्वर्यकृतस्मयायै नमः ।
ॐ गमनीयपदासक्त्यै नमः ।
ॐ खलभावनिवारिण्यै नमः ।
ॐ कृपापीयूषजलध्यै नमः ।
ॐ कृतज्ञायै नमः ।
ॐ कृतिसाधनायै नमः ।
ॐ कल्याणप्रकृत्यै नमः ।
ॐ काम्यायै नमः ।
ॐ कल्याण्यै नमः । ७०
ॐ कामवर्षिण्यै नमः ।
ॐ कारुण्यार्द्रविशालाक्ष्यै नमः ।
ॐ कम्बुकण्ठ्यै नमः ।
ॐ कलानिधये नमः ।
ॐ केलिप्रियायै नमः ।
ॐ कलाधारायै नमः ।
ॐ कल्मषौघनिवारिण्यै नमः ।
ॐ ॐ शब्दवाच्यायै नमः ।
ॐ ओजोऽब्ध्यै नमः ।
ॐ उदितश्रिये नमः । ८०
ॐ उदारधिये नमः ।
ॐ उदारकीर्त्यै नमः ।
ॐ उदितायै नमः ।
ॐ उदारातुल्यदर्शनायै नमः ।
ॐ इष्टप्रदायै नमः ।
ॐ इभगमनायै नमः ।
ॐ आदिजायै नमः ।
ॐ आह्लादिन्यै परायै नमः ।
ॐ आश्रितवत्सलायै नमः ।
ॐ आराध्यायै नमः । ९०
ॐ अनिर्देश्यस्वरूपिण्यै नमः ।
ॐ अद्वितीयसुखाम्भोधये नमः ।
ॐ अव्याजकरुणापरायै नमः ।
ॐ अनवद्यायै नमः ।
ॐ अप्रमत्तात्मने नमः ।
ॐ अनन्तैश्वर्यमण्डितायै नमः ।
ॐ अमानायै नमः ।
ॐ अयोनिजायै नमः ।
ॐ अकोपायै नमः ।
ॐ अविचिन्त्यायै नमः । १००
ॐ अनघस्मृत्यै नमः ।
ॐ अनीहायै नमः ।
ॐ अनियमायै नमः ।
ॐ अनादिमध्यान्तायै नमः ।
ॐ अद्भुतदर्शनायै नमः ।
ॐ अजेयायै नमः ।
ॐ अकल्मषायै नमः ।
ॐ अकारवाच्यायै नमः । १०८
इति श्रीजानकी अष्टोत्तरशतनामावलिः समाप्ता ।
Proofread by Vani V.