श्रीजानकीजयतिस्तोत्रं
अर्च्यां शिवार्चितां दिव्यैरलङ्कारैरलङ्कृताम् ।
स्तुतिं चकार स्तोत्रेण महाविष्णुर्महाशिवः ॥ १॥
श्रीमहाविष्णुरुवाच -
जयति जनकपुत्री राम वामाङ्क संस्था
जयति युगविधात्रीं विश्वधात्रीं कराब्जा ।
कनकसदनशोभां लोकचित्रां लिखन्तीं
रघुवरवरभागा भाविनी मङ्गलं मे ॥ २॥
कनकभवनखण्डे पादसञ्चारणाद्वै
सितमणिगणभूमिः पद्मरागास्ति यस्या ।
जयतु जनकजाया चिन्मयी ब्रह्मरूपा
रघुवरमुददात्री सद्गुणानां धरित्री ॥ ३॥
मुकुरगृहरमन्त्याश्चन्द्रकोटिश्चभित्तौ
सततमुदयमस्या आस्य मेवा करोद्वै ।
कलित कमलश्रेणी तत्र तत्रैव जाता
करकमल विभावैर्निर्दिशन्त्याश्च चित्रम् ॥ ४॥
जयति जनकपुत्र्याः पादपद्मप्रभावो
यदनुगतनखानां पङ्क्तितश्चन्द्रपङ्क्तिः ।
विलसति खलु लोके भिन्न ब्रह्माण्डके स्वे
तदभिगत कलैका शङ्करस्यापि भाले ॥ ५॥
जयति जनकपुत्र्याः पादसञ्चारण श्री-
श्चकितमपि विधत्ते याञ्च वीक्ष्येन्द्र नागाः ।
निज हृदि तनुभावं राजहंसाः विदध्युः
रघुवररस मूर्तिर्वीक्ष्य मोदाब्धि मग्नः ॥ ६॥
जयति जनकजायानेत्रयुग्मं विशालं
रघुवर रसवांस सौकुमार्यादि भासम् ।
प्रणतजन दयार्द्रं कोप भावाऽस्पृशं
वै मुकुलितमिवदोषान्वीक्षितुं सेवकानाम् ॥ ७॥
जयति जनकपुत्र्या मुद्रिका कङ्कणाभ्यां
विभूषित करयुग्मं कञ्जमेवाप्त नालम् ।
निजकृतदुरितेभ्य स्त्राशमेवाप्तकेषु
स्वभयवरदमुद्रं स्वाशिषांवत्सुमुद्रम् ॥ ८॥
जयति जनकपुत्र्यारागविद्या समग्रं
रघुपतिमतिकर्षं मोदवर्षं विचित्रम् ।
अमितगति सुतालं मूर्छनाग्रामजालं
स्वरमुनिमितयुक्तं ग्रामयुक्तं त्रिभिर्वै ॥ ९॥
जयति जनकजाया भारती भव्यरूपा
वसुरसपरिपूर्णाशब्दशद्मा मृतासा ।
ऋजु रचितपदानां संहिता संस्कृता या
रघुपति मति दीक्षालङ्कृतेर्युग्मशिक्षा ॥ १०॥
जयति जनकपुत्र्याः पारमैश्वर्यभावो
सुरानरमुनिसिद्धैर्याञ्छया स्तूयमानः ।
अमित विभवलक्ष्मीर्लोकब्रह्माण्डभिन्नाः
प्रभवति खलु यस्या अंशतस्तान्निषेवे ॥ ११॥
जगदुदयकरैका कालरूपाद्वितीया
पुनरपिगतमध्ये पालने पातु दक्षा ।
तवपदनखा दीप्त्या शक्तिरेकासमर्था
प्रभवति खलु सीतातिसृणां भूतभावा ॥ १३॥
तव पतिपद स्वङ्काद् ब्रह्मविष्णुर्हरोऽयं
अनुजभवगतरूपास्तेऽपि ताभिःसमेता ।
रचयतिपुनरेकापालयेत् भक्षयेद्वै
निवसति निजलोके यावदीक्ष्यास्ति ते वै ॥ १३॥
त्वमसिपरतमेशी नैव त्वत्तः
परास्यात्तवपति रघुनाथोऽसौ समस्तात्परात्मा ।
ननु भवति तु भेदोलिङ्गव्याख्यानशास्त्रे
भवति न खलुतत्त्वे राम सीतास्वरूपे ॥ १४॥
तवगुणगण मूर्त्तिः स्यामहं रामचन्द्रः
प्रथम गुरुवरं मे श्रीमहाशम्भुरास्ते ।
उररि कुरू ममेदं स्तोत्रकं रामसीते
कृतमपि गुरूणा मे साहसं स स्वरोक्तम् ॥ १५॥
श्रीयाज्ञवल्क्य उवाच -
एवं कृत्वा स्तवं देवं देवो महाविष्णुर्महाहरः ।
समुवाच शिवं देवं प्रशंसापूर्वया गिरा ॥ १६॥
॥ श्रीस्वामी जनकराजकिशोरीशरण श्रीरसिक अली विरचितं
अमररामायणान्तर्गत श्रीजानकीजयतिस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Vishal Pandey