जगदीश्वरीवन्दना
जगदीश्वरी ! शुभं नः शक्ता त्वमेव दातुम् ।
भक्तास्तवानुरक्ताः सोढुं व्यथामशक्ताः ।
तेषां त्वमेव शक्ता बाधामधो विधातुम् ॥ जगदीश्वरी ॥ १॥
दुष्टा अहर्निशं हा ! घ्नन्ति ह्यसङ्ख्यका गाः ।
मातर्जगत्तले ना कोप्यस्ति तास्तु पातुम् ! जगदीश्वरी ॥ २॥
आयत्त एष देशः क्व स्यात् सुखस्य लेशः ?
भारस्त्वयि ह्यशेषः शक्यो जनैर्निधातुम् ॥ जगदीश्वरी ॥ ३॥
दीना दशा तु नाथः सन्दृश्यते हि मातः !
सर्व शुभं तवातः सामर्थ्यमस्ति रातुम् ॥ जगदीश्वरी ॥ ४॥
इति जगदीश्वरीवन्दना सम्पूर्णा ।
रचयितृ - श्रीबालकृष्णशर्मा सारस्वतः ।
Proofread by : Varun P