श्रीजगदम्बा-गीतिका
जय जगदम्बा नमोऽस्तु ते,
दुर्गति-नाशिनि ! भर्ग-विलासिनि !
महेश्वरी त्वं विश्वनुते !
जय जगदम्बा नमोऽस्तु ते ॥ (ध्रुवम्)॥
त्वमपर्णा कवि- वर्णित-सुगुणा
पूर्णविभासित-वर्णमयी,
धरा-सुधारिणि ! कलिविष-वारिणि !
कल्मष-हारिणि ! हिरण्मयी ।
त्वं महिषासुर-विमर्दिनी,
मृगेन्द्र-वाहिनि ! तवानुकम्पा
पुण्य-सम्पदा-प्रदायिनी ।
त्रिशूलधारिणि ! शैलसुते !
जय जगदम्बा नमोऽस्तु ते ॥ १॥
जनार्त्ति-हरणे प्रवर्त्तसे त्वं
मर्त्त्यमण्डले सुकीर्त्तिता,
शुम्भनिपातिनि ! निशुम्भ-घातिनि !
शाकम्भरि हे ! शम्भुरता ।
हर सन्त्रासं दैत्यदलम्,
एहि शरण्या देहि वरेण्या
रण-रुद्राणी हार्द-बलम् ।
हृत-खल-दम्भा लोकहिते,
जय जगदम्बा नमोऽस्तु ते ॥ २॥
अयि गङ्गाधर- सङ्गिनि ! मङ्गल-
दायिनि ! शुभाङ्गि ! महाबले !
क्षमो नु को वा गातुमनन्तं
महिमानं ते महीतले ।
त्वमभयदात्री दयावती,
भक्तिमयी त्वं शक्तिमयी त्वं
रक्तिम-कुसुमे प्रीतिमती ।
वरद-करस्ते शं तनुते,
जय जगदम्बा नमोऽस्तु ते ॥ ३॥
सुचिन्तनं ते कृन्ततु नियतं
ध्वान्त-सन्ततिं स्वान्तगताम्,
हर सन्तापं प्रवितर शान्तिं
परमानन्दं सुन्दरताम् ।
दुर्गे ! रचना-सुचर्च्चिते !
अघ-भय-सर्वं दिव्य-रश्मिभि-
र्भस्मीकुरु हे शुभस्मिते !
मात-र्निखिलै-र्भुवि स्तुते !
जय जगदम्बा नमोऽस्तु ते ॥ ४॥
जगद्धितार्थं हृदि सद्बुद्धिः
श्रद्धासहिता प्रवर्द्धताम्,
विश्वबन्धुता- सुगन्धयुक्ता
वसुन्धरेयं विराजताम् ।
सद्भावनया परिप्लुता,
अवनी तावक- पावन-कृपया
प्रसरतु रम्या प्रेमयुता ।
पर्यावरणे परिष्कृते,
जय जगदम्बा नमोऽस्तु ते ॥ ५॥
-- गीति-रचना : डाॅ हरेकृष्ण-मेहेरः
(नव्यच्छन्दसा विरचिता इयं गीतिका)
Copyright Dr.Harekrishna Meher