श्रीजगदम्बारेणुकादेवीस्तोत्रम्
(भुजङ्गप्रयातवृत्तम्)
भजे रेणुकां सर्वलोकैकवेद्यां
शिवां शान्तरूपां मनोवागतीताम् ।
निजानन्दपूर्णां सदाद्वैतरूपां
परां वेदगम्यां परब्रह्मरूपाम् ॥ १॥
सदाचारसद्भक्तिबोधादिभिर्या
गुरोरङ्घ्रिशुश्रूषया मुख्यवृत्या ।
सुवेद्यां सुलभ्यां परानन्दपूर्णां
भजे रेणुकां तां विमोहप्रशान्त्यै ॥ २॥
श्रुतिर्नेति नेतीति सर्वं निरस्य
वदत्येकमाद्यं विभुं चित्सुखं यत् ।
तदेवावशिष्टं स्वरूपं विशुद्धं
भजे रेणुकां तां सदा मृत्युहीनाम् ॥ ३॥
यदानन्दसिन्धौ निमग्नो न पश्य-
त्यहो कर्मजालं फलं वा तदीयम् ।
न चैवं न शैवं जगन्नैव मायां
चिदेकस्वरूपां भजे रेणुकां ताम् ॥ ४॥
अनेकान्तिकां सर्वभेदादिगम्यां
तमोऽज्ञानदुःखान्तिगां शुद्धरूपाम् ।
सदाऽध्यात्मविद्याप्रदानैकशीलां
भजे रेणुकां मुक्तिसौख्याधिदेवीम् ॥ ५॥
त्रितापप्रशान्त्यै समाराध्यते या
सदा जीवलोके स्वसौख्यप्रदात्री ।
भवाम्भोधिसेतुं चिदानन्दकन्दां
भजे रेणुकां ज्ञानमुद्रैकलक्ष्याम् ॥ ६॥
सदा भक्तहृत्कौमुदीं भद्रभद्रां
समोङ्कारवाच्यां वरेण्यां शरण्याम् ।
स्वभक्तार्तिनाशां शुभाङ्गां गुणाढ्यां
भजे रेणुकां भक्तभाग्यां सुरूपाम् ॥ ७॥
सदा भक्तवात्सल्यपूर्णां सुरम्यां
सुरेन्द्रादिभिः स्तूयमानां सुसूक्तैः ।
सदा भक्तवृन्दैश्च संसेव्यमानां
भजे रेणुकां भक्तभाग्यां भवानीम् ॥ ८॥
पठेद्यो सदा भक्तियुक्तो विशुद्धः
स्ववर्णाश्रमाचारतो नित्ययुक्तः ।
स मुक्तः कृती रेणुकायाः प्रसादात्
सदा राजते राजते लोकपूज्यः ॥ ९॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीजगदम्बारेणुकादेवीस्तोत्रं सम्पूर्णम् ।
रचनास्थानं - मातापुर क्षेत्रं
Proofread by Manish Gavkar