जगन्मङ्गलास्तोत्रम्
वीणावादनतत्पराङ्गुलि नदल्लोलाञ्चितैः किङ्किणी-
जालैः शोभितकङ्कणे शशिमुखे बालेन्दुचूडामणे ।
हेलाराजितचारुनेत्रयुगले ग्रैवेयशोभाञ्चिते
बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ १॥
कुक्षौ ते बहुजीवलोकसमितेः कोचिं चिरं बिभ्रती
कल्पादौ त्रिपुरे सृजस्यवसि तान् सर्वास्ववस्थास्वहो ।
अन्ते तानखिलान्विनाशयसि सर्वं भो विलासस्तव
बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ २॥
लोके नीरधराग्निवायुगगनाः सर्वे भवल्लीलया
मातः सञ्चलिता हि तारकगणाः सूर्यादिसर्वे ग्रहाः ।
सर्वं खल्विह ते स्वरूपमपि च त्वं चोदयित्री सदा
बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ३॥
मायामेयविकासमात्रविभवा मातस्तवेयं कृति-
र्गेया सर्वगुणान्विता च बहुधा मेयापि वेद्या नहि ।
ध्येया ज्ञानविशारदैश्च विविधैः शास्त्रैर्विलोक्यापि वै
बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ४॥
नेत्रैः श्वेतविनीलशोणरुचिभिः पूर्णानुकम्पान्वितैः
पापानां मम भञ्जनाय गिरिजे पूरत्रयाणामिव ।
तीर्थानामुपसङ्गमस्य नयसीत्येतद्ध्रुवं मां तथा
बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ५॥
मातस्ते दरलोलशीतविमलैर्नेत्रैः शिवे पश्य मां
दुःखात्यन्तविपाकदीनवदनं शीघ्रं दयार्द्रैर्यतः ।
ग्रामे वा विपिनेऽपि वा हिमकरो ज्योत्स्नानिपातैः समं
बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ६॥
वेदानां शिखराणि पादयुगली धत्ते तवाम्बान्वहं
पाद्यं तद्धरमौलिजूटतटिनीलाक्षाङ्कितो रागिमा ।
श्रीविष्णोर्हि किरीटरत्नसुषमा यस्यास्तु वन्देतरां
बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ७॥
या शम्भोश्चरितामृतेन चलिता रोषा च गङ्गाहृदे
या सख्यां परमादरा शिवगले या सङ्गता सर्वदा ।
दृष्ट्या ते शशिशीतया च दिशती सन्मङ्गलं सन्ततं
बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ८॥
वाग्देवीं चतुराननस्य गृहिणीमाहुर्विधिज्ञा नराः
श्रीविष्णोर्गृहिणीं सुधाब्धितनयां श्रीकण्ठपत्नीमुमाम् ।
मातः का भवती विलासचतुरा माया परा देवता
बाले पालय पापसंहतितमस्तारे जगन्मङ्गले ॥ ९॥
इति श्रीजगन्मङ्गलास्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Ramgopal Bhimavarapu bhimavarapu2014 at gmail.com
and Sunder Hattangadi