त्रिपुरारहस्योक्तं ज्ञानकलिकास्तोत्रम्
शिवे देवि सम्वित्सुधासागराऽऽत्म-
स्वरूपाऽसि सर्वान्तराऽऽत्मैकरूपा ।
न किञ्चिद् विना त्वत्कलामस्ति लोके
ततः सत्स्वरूपाऽसि सत्येऽप्यसत्ये ॥ १॥
असत्यं पुनः सत्यमन्ये द्विरूपं
द्वयातीतमेके जगुः सर्वमेतत् ।
न ते तां विदुर्मायया मोहितास्ते
चिदानन्दरूपा त्वमेवाऽसि सर्वम् ॥ २॥
क्षणानां क्रमैभिन्नरूपां धराद्यौ-
र्मितामाहुरेके तमोमात्ररूपाम् ।
तमोदीप्तिसम्भिन्नरूपाञ्च शान्त-
स्वरूपां महेशी विदुस्त्वां न तेऽज्ञाः ॥ ३॥
शिवादिक्षितिप्रान्ततत्त्वावलिर्या
विचित्रा यदीये शरीरे विभाति ।
पटे चित्रकल्पा जले सेन्दुतारा
नभोवत्परा सा त्वमेवाऽसि सर्वा ॥ ४॥
अभिन्नं विभिन्नं बहिर्वाऽन्तरे वा
विभाति प्रकाशस्तमो वाऽपि सर्वम् ।
ऋते त्वां चितिं येन नो भाति किञ्चित्
ततस्त्वं समस्तं न किञ्चित्वदन्यत् ॥ ५॥
निरुध्याऽन्तरङ्गं विलाप्याऽक्षसङ्घं
परित्यज्य सर्वत्र कामादिभावम् ।
स्थितानां महायोगिनां चित्तभूमौ
चिदानन्दरूपा त्वमेका विभासि ॥ ६॥
तथाऽन्ये मनः सेन्द्रियं सञ्चरच्चा-
ऽप्यसंयम्यतन्मार्गकेजागरूकाः ।
स्वसम्वित्सुधाऽऽदर्शदेहे स्फुरन्तं
महायोगिनाथाः प्रपश्यन्ति सर्वम् ॥ ७॥
निरुक्ते महासारमार्गेऽतिसूक्ष्मे
गतिं ये न विन्दन्ति मूढस्वभावाः ।
जनान् तान् समुद्धर्तुमक्षावगम्यं
बहिः स्थूलरूपं विभिन्नं विभर्षि ॥ ८॥
तदाराधनेऽनेकमार्गान् विचित्रान्
विधायाऽथ मार्गेण केनापि यान्तम् ।
नदीवारि सिन्धुर्यथा स्वीकरोति
प्रदाय स्वभावं नु स्वात्मीकरोषि ॥ ९॥
तथातासुमूर्तिष्वनेकासु मुख्या
धनुर्बाणपाशाङ्कशाढ्यैवमूर्तिः ।
शरीरेषु मूर्धेव ये तां भजेयु-
र्जनास्त्रैपुरीं मूर्तिमत्युत्तमास्ते ॥ १०॥
जनान् दुःखसिन्धोः समुद्धर्तुकामा
पथस्ताननेकान् प्रदिश्य प्रकृष्टान् ।
दयार्द्रस्वभावेति विख्यातकीर्ति
स्त्वमेकैव पूज्या पराशक्तिरूपा ॥ ११॥
सदा ते पदाब्जे मनःषट्पदो मे
पिबंस्तद्रसन्निर्वृतःसंस्थितोऽस्तु ।
इति प्रार्थनां मे निशम्याऽऽशु मात-
र्विधेहि स्वदृष्टिं दयार्द्रामपीषत् ॥ १२॥
इति संस्तुत्य सा गौरी त्रिपुरां परमेश्वरीम् ।
स्तोत्रेण ज्ञानकलिकाख्येन ध्यानं समास्थिता ॥ १३॥
इति ज्ञानकलिकास्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Mandar Mali aryavrutta at gmail.com