त्रिपुरारहस्योक्तं ज्ञानकलिकास्तोत्रम्

त्रिपुरारहस्योक्तं ज्ञानकलिकास्तोत्रम्

परापदाम्बुजप्रीतिरसमाद्यच्छुभाऽन्तरा । अद्भुतं ज्ञायनकलिकास्तोत्रं समुपचक्रमे ॥ शिवे देवि सम्वित्सुधासागराऽऽत्म- स्वरूपाऽसि सर्वान्तराऽऽत्मैकरूपा । न किञ्चिद् विना त्वत्कलामस्ति लोके ततः सत्स्वरूपाऽसि सत्येऽप्यसत्ये ॥ १॥ असत्यं पुनः सत्यमन्ये द्विरूपं द्वयातीतमेके जगुः सर्वमेतत् । न ते तां विदुर्मायया मोहितास्ते चिदानन्दरूपा त्वमेवाऽसि सर्वम् ॥ २॥ क्षणानां क्रमैभिन्नरूपां धराद्यौ- र्मितामाहुरेके तमोमात्ररूपाम् । तमोदीप्तिसम्भिन्नरूपाञ्च शान्त- स्वरूपां महेशी विदुस्त्वां न तेऽज्ञाः ॥ ३॥ शिवादिक्षितिप्रान्ततत्त्वावलिर्या विचित्रा यदीये शरीरे विभाति । पटे चित्रकल्पा जले सेन्दुतारा नभोवत्परा सा त्वमेवाऽसि सर्वा ॥ ४॥ अभिन्नं विभिन्नं बहिर्वाऽन्तरे वा विभाति प्रकाशस्तमो वाऽपि सर्वम् । ऋते त्वां चितिं येन नो भाति किञ्चित् ततस्त्वं समस्तं न किञ्चित्वदन्यत् ॥ ५॥ निरुध्याऽन्तरङ्गं विलाप्याऽक्षसङ्घं परित्यज्य सर्वत्र कामादिभावम् । स्थितानां महायोगिनां चित्तभूमौ चिदानन्दरूपा त्वमेका विभासि ॥ ६॥ तथाऽन्ये मनः सेन्द्रियं सञ्चरच्चा- ऽप्यसंयम्यतन्मार्गकेजागरूकाः । स्वसम्वित्सुधाऽऽदर्शदेहे स्फुरन्तं महायोगिनाथाः प्रपश्यन्ति सर्वम् ॥ ७॥ निरुक्ते महासारमार्गेऽतिसूक्ष्मे गतिं ये न विन्दन्ति मूढस्वभावाः । जनान् तान् समुद्धर्तुमक्षावगम्यं बहिः स्थूलरूपं विभिन्नं विभर्षि ॥ ८॥ तदाराधनेऽनेकमार्गान् विचित्रान् विधायाऽथ मार्गेण केनापि यान्तम् । नदीवारि सिन्धुर्यथा स्वीकरोति प्रदाय स्वभावं नु स्वात्मीकरोषि ॥ ९॥ तथातासुमूर्तिष्वनेकासु मुख्या धनुर्बाणपाशाङ्कशाढ्यैवमूर्तिः । शरीरेषु मूर्धेव ये तां भजेयु- र्जनास्त्रैपुरीं मूर्तिमत्युत्तमास्ते ॥ १०॥ जनान् दुःखसिन्धोः समुद्धर्तुकामा पथस्ताननेकान् प्रदिश्य प्रकृष्टान् । दयार्द्रस्वभावेति विख्यातकीर्ति स्त्वमेकैव पूज्या पराशक्तिरूपा ॥ ११॥ सदा ते पदाब्जे मनःषट्पदो मे पिबंस्तद्रसन्निर्वृतःसंस्थितोऽस्तु । इति प्रार्थनां मे निशम्याऽऽशु मात- र्विधेहि स्वदृष्टिं दयार्द्रामपीषत् ॥ १२॥ इति संस्तुत्य सा गौरी त्रिपुरां परमेश्वरीम् । स्तोत्रेण ज्ञानकलिकाख्येन ध्यानं समास्थिता ॥ १३॥ इति ज्ञानकलिकास्तोत्रं सम्पूर्णम् । त्रिपुरारहस्यम् माहात्म्य खण्डम् १६-२९ Tripurārahasyam Māhātmya Khaṇḍam 16-29 Encoded and proofread by Mandar Mali
% Text title            : Jnanakalika Stotram from Tripurarahasya
% File name             : jnAnakalikAstotramtripurArahasya.itx
% itxtitle              : jnAnakalikAstotram tripurArahasyoktaM
% engtitle              : jnAnakalikAstotramtripurArahasya
% Category              : devii, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at gmail.com
% Proofread by          : Mandar Mali aryavrutta at gmail.com, NA
% Description/comments  : Tripurārahasyam Māhātmya Khaṇḍam 16-29
% Indexextra            : (Scans 1, 2)
% Latest update         : September 8, 2019, July 31, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org