श्रीकालीशतनामस्तोत्रम्
भैरव उवाच -
शतनाम प्रवक्ष्यामि कालिकाया वरानने ।
यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ १॥
काली कपालिनी कान्ता कामदा कामसुन्दरी ।
कालरात्रिः कालिका च कालभैरवपूजिता ॥ २॥
कुरुकुल्ला कामिनी च कमनीयस्वभाविनी ।
कुलीना कुलकर्त्री च कुलवर्त्मप्रकाशिनी ॥ ३॥
कस्तूरीरसनीला च काम्या कामस्वरूपिणी ।
ककारवर्णनिलया कामधेनुः करालिका ॥ ४॥
कुलकान्ता करालास्या कामार्ता च कलावती ।
कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥ ५॥
कुलजा कुलकन्या च कुलहा कुलपूजिता ।
कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी ॥ ६॥
कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी ।
कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता ॥ ७॥
काश्यपी कृष्णमाता च कुलिशाङ्गी कला तथा ।
क्रींरूपा कुलगम्या च कमला कृष्णपूजिता ॥ ८॥
कृशाङ्गी किन्नरी कर्त्री कलकण्ठी च कार्तिकी ।
कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी ॥ ९॥
कुलस्त्री कीर्त्तिका कृत्या कीर्तिश्च कुलपालिका ।
कामदेवकला कल्पलता कामाङ्गवर्धिनी ॥ १०॥
कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका ।
कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी ॥ ११॥
कुमारीपूजनरता कुमारीगणशोभिता ।
कुमारीरञ्जनरता कुमारीव्रतधारिणी ॥ १२॥
कङ्काली कमनीया च कामशास्त्रविशारदा ।
कपालखट्वाङ्गधरा कालभैरवरूपिणी ॥ १३॥
कोटरी कोटराक्षी च काशी कैलासवासिनी ।
कात्यायनी कार्यकरी काव्यशास्त्रप्रमोदिनी ॥ १४॥
कामाकर्षणरूपा च कामपीठनिवासिनी ।
कङ्किनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥ १५॥
कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्धिनी ।
कुम्भस्तनी कटाक्षा च काव्या कोकनदप्रिया ॥ १६॥
कान्तारवासिनी कान्तिः कठिना कृष्णवल्लभा ।
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ॥ १७॥
प्रपठेद्य इदं नित्यं कालीनामशताष्टकम् ।
त्रिषु लोकेषु देवेशि तस्यासाध्यं न विद्यते ॥ १८॥
प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि ।
यः पठेत्परया भक्त्या कालीनामशताष्टकम् ॥ १९॥
कालिका तस्य गेहे च संस्थानं कुरुते सदा ।
शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः ॥ २०॥
वह्निमध्ये च सङ्ग्रामे तथा प्राणस्य संशये ।
शताष्टकं जपन्मन्त्री लभते क्षेममुत्तमम् ॥ २१॥
कालीं संस्थाप्य विधिवत् स्तुत्वा नामशताष्टकैः ।
साधकस्सिद्धिमाप्नोति कालिकायाः प्रसादतः ॥ २२॥
इति श्रीकालीशतनामस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com