कालीस्तवः ब्रह्मकृतम्
नमामि कृष्णरूपिणीं कृष्णाङ्गयष्टिधारिणीम् ।
समग्रतत्त्वसागरमपारपारगह्वराम् ॥ १॥
शिवाप्रभां समुज्ज्वलां स्फुरच्छशाङ्कशेखराम् ।
ललाटरत्नभास्करां जगत्प्रदीप्तिभास्कराम् ॥ २॥
महेन्द्र कश्यपार्चितां सनत्कुमारसंस्तुताम् ।
सुरासुरेन्द्रवन्दितां यथार्थनिर्मलाद्भुताम् ॥ ३॥
अतर्क्यरोचिरूर्जितां विकारदोषवर्जिताम् ।
मुमुक्षुभिर्विचिन्तितां विशेषतत्त्वसूचिताम् ॥ ४॥
मृतास्थिनिर्मितस्रजां मृगेन्द्रवाहनाग्रजाऽम् ।
सुशुद्धतत्त्वतोषणां त्रिवेदपारभूषणाम् ॥ ५॥
भुजङ्गहारहारिणीं कपालखण्डधारिणीम् ।
सुधोर्मिकोपकारिणीं सुरेन्द्रवैरिघातिनीम् ॥ ६॥
कुठारपाशचापिनीं कृतान्तकामभेदिनीम् ।
शुभां कपालमालिनीं सुवर्णकल्पशाखिनीम् ॥ ७॥
श्मशानभूमिवासिनीं द्विजेन्द्रमौलिभाविनीम् ।
तमोऽन्धकारयामिनीं शिवस्वभावकामिनीम् ॥ ८॥
सहस्रसूर्य्यराजिकां धनञ्जयोग्रकारिकाम् ।
सुशुद्धकालकन्दलां सुभृङ्गवृन्दमञ्जुलाम् ॥ ९॥
प्रजापिनीं प्रजावतीं नमामि मातरं सतीम् ।
स्वकर्मकारणे गतिं हरप्रियाञ्च पार्वतीम् ॥ १०॥
अनन्तशक्तिकान्तिदां यशोऽर्थम्भुक्तिमुक्तिदाम् ।
पुनः पुनर्जगद्धितां नमाम्यहं सुरार्चिताम् ॥ ११॥
जयेश्वरि ! त्रिलोचने ! प्रसीद देवि ! पाहिमाम् ।
जयन्ति ते स्तुवन्ति ये शुभं लभन्त्यमोक्षतः ॥ १२॥
सदैव ते हतद्विषः परं भवन्ति सज्जुषः ।
नराः परे शिवेऽधुना प्रसाधि मां करोमि किम् ॥ १३॥
अतीव मोहितात्मनो वृथा विचेष्टितस्य मे ।
कुरु प्रसादितं मनो यथास्मि जन्मभञ्जनः ॥ १४॥
तथा भवन्तु तावका यथैव घोषितालकाः ।
इमां स्तुतिं ममेरितां पठन्ति कालिसाधकाः ।
न ते पुनः सुदुस्तरे पतन्ति मोहगह्वरे ॥ १५॥
इति श्यामारहस्ये श्रीब्रह्मकृतकालीस्तवः सम्पूर्णः ।
- ॥ श्यामारहस्यम् । पञ्चदशः परिच्छेदः ॥
- .. shyAmArahasyam . panchadashaH parichChedaH ..
Encoded and proofread by Ruma Dewan