दक्षप्रोक्ता कालीस्तुतिः
दक्ष उवाच -
शिवा शान्ता महामाया योगनिद्रा जगन्मयी ।
या प्रोच्यते विष्णुमाया तां नमामि सनातनीम् ॥ ४९॥
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ।
स्थितिञ्च विष्णुरकरोद्यन्नियोगाज्जगत्पतिः ॥ ५०॥
शम्भुरन्तं ततो देवीं त्वां नमाभि महीयसीम् ।
विकाररहितां शुद्धामप्रमेयां प्रभावतीम् ।
प्रमाणमानमेयाख्यां प्रणमामि सुखात्मिकाम् ॥ ५१॥
यस्त्वां विचिन्तयेद्देवीं विद्याविद्यात्मिकां पराम् ।
तस्य भोग्यञ्च मुक्तिश्च सदा करतले स्थिता ॥ ५२॥
यस्त्वां प्रत्यक्षतो देवीं सकृत् पश्यति पावनीम् ।
तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिकाम् ॥ ५३॥
योगनिद्रे महामाये विष्णुमाये जगन्मयि ।
या प्रमाणार्थसम्पन्ना चेतना सा तवात्मिका ॥ ५४॥
ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च ।
जगन्मयीति मायेति सर्वं तेषां भविष्यति ॥ ५५॥
इति कालिकापुराणे अष्टमाध्यायान्तर्गता दक्षप्रोक्ता कालीस्तुतिः समाप्ता ।
Proofread by PSA Easwaran