श्रीकालरात्र्यष्टकम्
नमामि कालरात्रिं तां घोररूपां महाबलाम् ।
दुष्टसंहारकर्त्रीं च भक्तरक्षापरायणाम् ॥ १॥
कृष्णवर्णां महादेवीं मुक्तकेशीं भयङ्करीम् ।
गर्दभारूढदेवीं तां कालरात्रिं नमाम्यहम् ॥ २॥
विद्युत्प्रभाकरालीं च दीप्तनेत्रां दिगम्बराम् ।
लोहितास्यां महाघोरां कालरात्रिं नमाम्यहम् ॥ ३॥
खड्गं लोहितवज्रं च कराभ्यां धारिणीं शिवाम् ।
अभयां वरदां देवीं कालरात्रिं नमाम्यहम् ॥ ४॥
करालवदने घोरे दुष्टदैत्यविघातिनीम् ।
चण्डमुण्डप्रहन्त्रीं तां कालरात्रिं नमाम्यहम् ॥ ५॥
घोररात्रिस्वरूपे त्वं महाकालप्रपूजिते ।
कालपाशहरे रौद्रे कालरात्रि नमोऽस्तु ते ॥ १॥
भक्तानामभयङ्कर्त्रीं सर्वसिद्धिप्रदायिनीम् ।
संसारभयसंहर्त्रीं कालरात्रिं नमाम्यहम् ॥ ७॥
कालरात्र्यष्टकं पुण्यं भक्त्या यः पठते नरः ।
तस्य सर्वभयं नश्येत् देवीप्रीतिश्च जायते ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीकालरात्र्यष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com