कालिकाकीलकम्

कालिकाकीलकम्

विनियोगः- ॐ अस्य श्रीकालिकाकीलकस्य सदाशिवऋषिः, अनुष्टप्छन्दः, श्रीदक्षिणकालिकादेवता, सर्वार्थसिद्धिसाधने कीलकन्यासे जपे विनियोगः । अथातः सम्प्रवक्ष्यामि कीलकं सर्वकामदम् । कालिकायाः परं तत्त्वं सत्यं सत्यं त्रिभिर्ममः ॥ दुर्वासाश्च वसिष्ठश्च दत्तात्रेयो बृहस्पतिः । सुरेशो धनदश्चैव अङ्गराश्च भृभूद्वाहः ॥ च्यवनः कार्तवीर्यश्च कश्यपोऽथ प्रजापतिः । कीलकस्य प्रसादेन सर्वैश्वर्चमवाप्नुयुः ॥ अथ कीलकम् । ॐकारं तु शिखाप्रान्ते लम्बिका स्थान उत्तमे । सहस्त्रारे पङ्कजे तु क्रीं क्रीं वाग्विलासिनी ॥ कूर्चबीजयुगं भाले नाभौ लज्जायुगं प्रिये । दक्षिणे कालिके पातु स्वनासापुट युग्मके ॥ हूङ्कारद्वन्द्वं गण्डे द्वे द्वे माये श्रवणद्वये । आद्यातृतीयं विन्यस्य उत्तराधर सम्पुटे ॥ स्वाहा दशनमध्ये तु सर्व वर्णन्न्यसेत् क्रमात् । मुण्डमाला असिकरा काली सर्वार्थसिद्धिदा ॥ चतुरक्षरी महाविद्या क्रीं क्रीं हृदय पङ्कजे । ॐ हूं ह्रीं क्रीं ततो हूं फट् स्वाहा च कण्ठकूपके ॥ अष्टाक्षरी कालिकाया नाभौ विन्यस्य पार्वति । क्रीं दक्षिणे कालिके क्रीं स्वाहान्ते च दशाक्षरी ॥ मम बाहु युगे तिष्ठ मम कुण्डलिकुण्डले । हूं ह्रीं मे वह्निजाया च हूं विद्या तिष्ठ पृष्ठके ॥ क्रीं हूं ह्रीं वक्षदेशे च दक्षिणे कालिके सदा । क्रीं हूं ह्रीं वह्निजायाऽन्ते चतुर्दशाक्षरेश्वरी ॥ क्रीं तिष्ठ गुह्यदेशे मे एकाक्षरी च कालिका । ह्रीं हूं फट् च महाकाली मूलाधारनिवासिनी ॥ सर्वरोमाणि मे काली कराङ्गुल्यङ्कपालिनी । कुल्ला कटिं कुरुकुल्ला तिष्ठ तिष्ठ सदा मम ॥ विरोधिनी जानुयुग्मे विप्रचित्ता पदद्वये । तिष्ठ मे च तथा चोग्रा पादमूले न्यसेत्क्रमात् ॥ प्रभा तिष्ठतु पादाग्रे दीप्ता पादाङ्गुलीनपि । नीली न्यसेद्बिन्दु देशे घना नादे च तिष्ठ मे ॥ वलाका बिन्दुमार्गे च न्यसेत्सर्वाङ्गसुन्दरी । मम पातालके मात्रा तिष्ठ स्वकुलकायिके ॥ मुद्रा तिष्ठ स्वमत्येमां मितास्वङ्गाकुलेषु च । एता नृमुण्डमालास्त्रग्धारिण्यः खड्गपाणयः ॥ तिष्ठन्तु मम गात्राणि सन्धिकूपानि सर्वशः । ब्राह्मी च ब्रह्मरन्ध्रे तु तिष्ठ स्व घटिका परा ॥ नारायणी नेत्रयुगे मुखे माहेश्वरी तथा । चामुण्डा श्रवणद्वन्द्वे कौमारी चिबुके शुभे ॥ तथामुदरमध्ये तु तिष्ठ मे चापराजिता । वाराही चास्थिसन्धौ च नारसिंही नृसिंहके ॥ आयुधानि गृहीतानि तिष्ठस्वेतानि मे सदा । इति ते कीलकं दिव्यं नित्यं यः कीलयेत्स्वकम् ॥ फलश्रुतिः - कवचादौ महेशानि तस्यः सिद्धिर्न संशयः । श्मशाने प्रेतयोर्वापि प्रेतदर्शनतत्परः ॥ यः पठेत्पाठयेद्वापि सर्वसिद्धीश्वरो भवेत् । सवाग्मी धनवान्दक्षः सर्वाध्यक्षः कुलेश्वरः ॥ पुत्र बान्धव सम्पन्नः समीर सदृशो बले । न रोगवान् सदा धीरस्तापत्रय निषूदनः ॥ मुच्यते कालिका पायात् तृणराशिमिवानला । न शत्रुभ्यो भयं तस्य दुर्गमेभ्यो न बाध्यते ॥ यस्य य देशे कीलकं तु धारणं सर्वदाम्बिके । तस्य सर्वार्थसिद्धिः स्यात्सत्यं सत्यं वरानने ॥ मन्त्रच्छतगुणं देवि कवचं यन्मयोदितम् । तस्माच्छतगुणं चैव कीलकं सर्वकामदम् ॥ तथा चाप्यसिता मन्त्रं नील सारस्वते मनौ । न सिध्यति वरारोहे कीलकार्गलके विना ॥ विहीने कीलकार्गलके काली कवच यः पठेत् । तस्य सर्वाणि मन्त्राणि स्तोत्राण्यन सिद्धये प्रिये ॥ इति कालिकाकीलकं सम्पूर्णम् । Encoded and proofread by Durga Sharma
% Text title            : Kalika Kilakam
% File name             : kAlikAkIlakam.itx
% itxtitle              : kAlikAkIlakam
% engtitle              : kAlikAkIlakam
% Category              : devii, devI, dashamahAvidyA, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Durga Sharma
% Proofread by          : Durga Sharma
% Indexextra            : (Scan)
% Latest update         : September 22, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org