कामाक्षीपूजनम्

कामाक्षीपूजनम्

(कामाक्षीस्तोत्रम्) शुक्लपक्षे शुभे काले स्नात्वा सन्ध्यामुपास्य च । गुरुं नत्वा पवित्रं च मन्दिरं प्रति संव्रजेत् ॥ ८७॥ आचमनं ततः कृत्वा महालक्ष्मीं प्रपूजयेत् । आवाहनासने पाद्यमर्घ्यमाचमनं क्रियात् ॥ ८८॥ स्नानं पञ्चामृतमयं शुद्धाद्भिरभिषेचनम् । वस्त्रं विभूषणं गन्धं पुष्पं धूपं च दीपकम् । नैवेद्यं सलिलं ताम्बूलकं प्रदक्षिणं स्तुतिम् ॥ ८९॥ ``ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो महालक्ष्म्यै कम्भरायै कामाक्ष्यै ललितायै श्रीचक्रायै महानारायण्यै महापरमेश्वर्यै पूर्णब्रह्ममहाविष्णुपत्न्यै श्रीगोपाल- कृष्णाङ्गनायै सर्वसम्पत्प्रपूरिण्यै चाऽष्टोत्तरद्विशतमहा- सामर्थ्यमय्यै ते नमः क एं ईल ह्रीं हस कहल ह्रीं सकल ह्रीं ऐं क्लीं सौः सौः क्लीं ऐं श्रीं स्वाहा ॥ ९०॥ इतिपुष्पाञ्जलिं दद्यात्ततो गोमयलेपिते । भूतले तण्डुलपीठे वारिकुम्भं सरत्नकम् ॥ ९१॥ पञ्चपल्लवसंयुक्तं नारिकेलफलान्वितम् । अभ्यर्च्य गन्धपुष्पाद्यैस्ततो मन्त्रं जपेन्मुहुः ॥ ९२॥ अष्टोत्तरशतं जप्त्वा दीपं प्रदर्श्य वै गुरुः । शिष्यं च कारयित्वैव साष्टाङ्गं कुसुमाञ्जलिम् ॥ ९३॥ प्रार्थनां कारयेत् तत्र मुहुः सर्वेष्टलब्धये । परन्धाम परम्ब्रह्म मम त्वं स्वेष्टदेवता ॥ ९४॥ रक्ष मां सकुटुम्बं त्वं रक्ष मोक्षार्थमेव माम् । गुरोश्चरणयोर्न्यस्य मस्तकं भक्तिसंयुतः ॥ ९५॥ हस्तौ प्रक्षाल्य च ततो नैवेद्यं मिष्टमुत्तमम् । विविधान्नं फलं दुग्धसारं लक्ष्म्यै समादिशेत् ॥ ९६॥ शिष्यकर्णे मनुं दत्वाऽभिषिञ्चेत् कुम्भवारिणा । ततः शुद्धो महालक्ष्म्याः सपर्या सर्वदाऽऽचरेत् ॥ ९७॥ लक्ष्मीशेषं प्रभुञ्ज्याच्च दक्षिणां गुरवेऽर्पयेत् । भोजयेद्वैष्णवान् साधून् साध्वीर्बालाँश्च कन्यकाः ॥ ९८॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे १२०-अध्यायान्तर्गतं गुरुनेतृत्वे शिष्येन करणीयं कामाक्षी पूजनं तथास्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १२०/८७-९८॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 120/87-98.. Proofread by PSA Easwaran
% Text title            : Kamakshipujanam
% File name             : kAmAkShIpUjanam.itx
% itxtitle              : kAmAkShIpUjanam (lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : kAmAkShIpUjanam
% Category              : devii, devI, lakShmInArAyaNIyasaMhitA, pUjA
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 120/87-98||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : April 12, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org