श्रीकामाख्यामन्त्रक्रमः गोपनीय

श्रीकामाख्यामन्त्रक्रमः गोपनीय

Below are some secret mantras found in different tantras १. श्रीपरब्रह्मयोनिमन्त्रः विनियोगः - अस्य श्रीपरब्रह्मयोनि मन्त्रस्य महाकाल ऋषिः । जगती छन्दः । श्रीकामाख्या देवता । क्षौं बीजम् । क्षीं शक्तिः । क्षें कीलकम् । मम परतत्त्वबोधसिद्ध्यर्थं सर्वमन्त्ररहस्यावबोधार्थं जपे विनियोगः ॥ ऋष्यादिन्यासः - महाकालऋषये नमः शिरसि । जगतीछन्दसे नमः मुखे । श्रीकामाख्यापरब्रह्मयोनिदेवतायै नमः हृदि । क्षौं बीजाय नमः गुह्ये । क्षीं शक्तये नमः पादयोः । क्षें कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे ॥ करन्यासः - क्षौं अङ्गुष्ठाभ्यां नमः । क्षीं तर्जनीभ्यां नमः । क्षें मध्यमाभ्यां नमः । कामाक्षे अनामिकाभ्यां नमः । परब्रह्मयोने कनिष्ठिकाभ्यां नमः । स्वाहा करतलकरपृष्ठाभ्यां नमः ॥ षडङ्गन्यासः - क्षौं हृदयाय नमः । क्षीं शिरसे स्वाहा । क्षें शिखायै वषट् । कामाक्षे कवचाय हुम् । परब्रह्मयोने नेत्रत्रयाय वौषट् । स्वाहा अस्त्राय फट् ॥ ध्यानं - नीलशैलनिकेतनां निराकारां निरञ्जनाम् । योनिमण्डलमध्यस्थां परब्रह्मस्वरूपिणीम् ॥ क्षौङ्कारबीजनिलयां क्षीङ्कारामृतवर्षिणीम् । क्षेङ्कारगूढतत्त्वज्ञां कामाक्षीं प्रणमाम्यहम् ॥ मन्त्रः - क्षौं क्षीं क्षें कामाक्षे परब्रह्मयोने स्वाहा ॥ २. महायोनिकामाख्यामन्त्रः विनियोगः - अस्य श्रीमहायोनिकामाख्यामन्त्रस्य भैरव ऋषिः । त्रिष्टुप्छन्दः । श्रीमहायोनिकामाख्या देवता । ह्रीं बीजम् । क्षौं शक्तिः । विश्वजननी कीलकम् । मम सर्वसौभाग्यविद्याप्राप्तये जपे विनियोगः ॥ करन्यासः - ह्रीं अङ्गुष्ठाभ्यां नमः । क्षौं तर्जनीभ्यां नमः । कामाख्ये मध्यमाभ्यां नमः । महायोनि अनामिकाभ्यां नमः । विश्वजननि कनिष्ठिकाभ्यां नमः । स्वाहा करतलकरपृष्ठाभ्यां नमः ॥ षडङ्गन्यासः - ह्रीं हृदयाय नमः । क्षौं शिरसे स्वाहा । कामाख्ये शिखायै वषट् । महायोनि कवचाय हुम् । विश्वजननि नेत्रत्रयाय वौषट् । स्वाहा अस्त्राय फट् ॥ मन्त्रः - ह्रीं क्षौं कामाख्ये महायोनि विश्वजननि स्वाहा ॥ ३. श्रीगुह्यकामाख्यामन्त्रः - विनियोगः - अस्य श्रीगुह्यकामाख्यामन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप्छन्दः । श्रीगुह्य कालिका देवता । त्रीं बीजम् । ह्रीं शक्तिः । क्षौं कीलकम् । मम अन्तर्बोधसिद्धये जपे विनियोगः ॥ ध्यानम् - रक्ताम्भोजसमासीनां रक्तमाल्यानुलेपनाम् । त्रिनेत्रां वरदां देवीं कामरूपनिवासिनीम् ॥ ह्रीङ्कारहृदयां देवीं त्रीङ्कारप्राणरूपिणीम् । क्षौङ्कारपरमं तेजः कामाख्यां प्रणमाम्यहम् ॥ मन्त्रः - त्रीं क्षौं ह्रीं कामरूपनिलये कामाख्ये प्रसीद प्रसीद स्वाहा ॥ ४. श्रीकामाख्यापरमविद्यामन्त्रः विनियोगः - अस्य श्रीकामाख्यापरमविद्यामन्त्रस्य सनत्कुमार ऋषिः । पङ्क्तिछन्दः । श्रीकामाख्या परमविद्या देवता । क्षौं बीजम् । ह्रीं शक्तिः । श्रीं कीलकम् । मम महाविद्यासिद्धये जपे विनियोगः ॥ करन्यासः - क्षौं अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । श्रीं मध्यमाभ्यां नमः । त्रीं अनामिकाभ्यां नमः । कामाक्षि कनिष्ठिकाभ्यां नमः । स्वाहा करतलकरपृष्ठाभ्यां नमः ॥ षडङ्गन्यासः - क्षौं हृदयाय नमः । ह्रीं शिरसे स्वाहा । श्रीं शिखायै वषट् । त्रीं कवचाय हुम् । कामाक्षि नेत्रत्रयाय वौषट् । स्वाहा अस्त्राय फट् ॥ मन्त्रः - क्षौं ह्रीं श्रीं त्रीं कामाक्षि कामरूपेशि परदेवि परात्परे स्वाहा ॥ Disclaimer : These mantras are provided for knowledge and reference purposes only. Please do not attempt to practice them on your own, as these mantras require initiation according to the Kamakhya tradition (Kamakhya Paddhati). Consult a knowledgeable person. However, her stotras may be recited without initiation. Encoded and proofread by Durga Sharma
% Text title            : Kamakhyamantrakramah SECRET
% File name             : kAmAkhyAmantrakramaHgopanIya.itx
% itxtitle              : kAmAkhyAmantrakramaH gopanIya
% engtitle              : kAmAkhyAmantrakramaH gopanIya
% Category              : devii, kAmAkShI, devI, mantra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : kAmAkShI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Durga Sharma
% Proofread by          : Durga Sharma
% Description/comments  : To be recited/practiced with the help of a teacher knowledgeable in Kamkhya tradition
% Indexextra            : (Info)
% Latest update         : August 30, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org