श्रीकात्यायन्यष्टकम् २
कात्यायनि महादेवि महाशक्तिधरेऽनघे ।
महिषासुरसंहर्त्रि प्रसीद परमेश्वरि ॥ १॥
चन्द्रहासोज्ज्वलकरा त्रिनेत्रा सिंहवाहिनी ।
त्रैलोक्यजननी दुर्गे कात्यायनि नमोऽस्तु ते ॥ २॥
स्वर्णवर्णे विशालाक्षि खड्गचर्मधराम्बिके ।
दुष्टसंहारकर्त्री त्वं कात्यायनि नमोऽस्तु ते ॥ ३॥
देवकार्यकरी देवि दैत्यदर्पविनाशिनि ।
भक्ताभीष्टप्रदे मातः कात्यायनि नमोऽस्तु ते ॥ ४॥
योगिनी योगदे रम्ये योगसिद्धिप्रदायिनि ।
ज्ञानभक्तिप्रदे नित्यं कात्यायनि नमोऽस्तु ते ॥ ५॥
सर्वमङ्गलमाङ्गल्ये सर्वदुःखविनाशिनि ।
सर्वसौभाग्यदे देवि कात्यायनि नमोऽस्तु ते ॥ ६॥
रोगशोकभयघ्नि त्वं दारिद्र्यदुःखहारिणि ।
सर्वदा रक्ष मां देवि कात्यायनि नमोऽस्तु ते ॥ ७॥
कात्यायन्यष्टकं पुण्यं यः पठेद्भक्तिसंयुतः ।
तस्य सिद्धिर्भवेद्देवि प्रसीद परमेश्वरि ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीकात्यायन्यष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com