कावेरीनवरत्नमालिका अथवा सह्यजानवरत्नमालिका

कावेरीनवरत्नमालिका अथवा सह्यजानवरत्नमालिका

अथ सह्यजानवरत्नमालिका । यत्पाथःकणवाहि-मारुतलव-स्पृष्टेषु दुष्टेष्वपि प्रध्वंसं प्रबलैनसां विदुरिह प्राज्ञा भवाज्ञाजुषः । सिष्णासां त्वयि बिभ्रतो मम चिरात् कृष्णाधिके सह्यजे निष्णाताऽसि न किं विगाहनकृतः पङ्कौघ-सङ्क्षालने ॥ १॥ कावेरि त्वत्कवारि प्रवहति सरितां सार्वभौमीह भूमौ यत्रायं पुण्यदेशः स तु किमुत वृषाकप्यभीष्ट-स्थलं चेत् । काश्या तुल्यानि यानि त्वगणिषत षडप्यार्षगीर्षु स्थलानि श्वेतारण्यं च तेष्वादिममिह वसतां को यमस्तस्य केऽमी ॥ २॥ कावेरि त्वद्वारि-पूरोदरेऽस्मिन् स्नायं स्नायं धूतपापोऽस्ततापः । आसं जीर्णः पूर्णकामस्तदित्थं विज्ञाप्यस्ते वल्लभः सिन्धुराजः ॥ ३॥ राज्ञः सेवा दुष्करा सर्वनॄणां क्रान्तो भीमैर्भीमरूपस्स यस्मात् । प्राप्ता ये तद्वल्लभायाः प्रसादं सिद्धं सर्वाभीष्टमेषां ह्ययत्नात् ॥ ४॥ महारावारवारौघैः भीषणैः श्रोत्रभीतिदैः । कथन्नु मादृशां शक्यो राजाऽपामुपसेवितुम् ॥ ५॥ अम्भोनिधेरनुगुणं भवती कलत्रं लोकान् विलोकनत एव युवां पुनीथः । पानावगाहन-मुखोपकृति-प्रकर्षात् देवि त्वमेनमतिशय्य विभासि मातः ॥ ६॥ कालं प्रतीक्ष्यैव स जातु सेव्यः त्वत्तोऽधिकं किन्नु फलं ददाति । तस्मान्नदीराज-महिष्यलं मे त्वत्संश्रयो यत्फलमम्ब सूते ॥ ७॥ असह्यपाप-वारिणि त्वदीय-पुण्यवारिणि क्व सह्यजे निमज्जतामघौघ-साध्वसं नृणाम् । विधूतपातका हि ते विनैव कृच्छ्रजश्रमं प्रयान्ति शम्भुमन्दिरं प्रकृष्ट-पुण्यभासुराः ॥ ८॥ सह्याद्रेः पितुरन्तिकात् पतिगृहं गन्तुं प्रवृत्ता सती कावेरी कृतचोलमण्डल-परिष्काराऽभ्युदञ्चद्रसा । स्वर्णस्तोमयुता सती प्रियतमं सन्तोष्य रत्नाकरं श्वेतारण्यपतेः प्रसादमयते द्वेधा स्थिता पार्श्वयोः ॥ ९॥ कावेरि त्वत्स्तोत्रमेतत् पठन्ति श्रद्धाशुद्धा भक्तियुक्ता भवत्याम् । स्नातां पुंसां वारिपूरे त्वदीये यावत्पुण्यं तावदेते लभन्ताम् ॥ १०॥ कदा वा कावेरि त्वयि वृषभतीर्थेऽच्छसलिले तुलामासे दर्शे सति गगनमध्ये सवितरि । समस्ताभिर्गङ्गा-प्रभृति-तटिनीभिस्समुदिते विगाहिष्ये विप्रैर्निगमनिरतैः पूरिततटे ॥ ११॥ सह्यजा-नवरत्नमालिका त्यागराजमखिनो मुखोद्गता । गृह्यतां परगुणैक-शंसिभिः शङ्कराङ्घ्रि-कमले समर्पिता ॥ १२॥ Encoded by Suresh Pitre Proofread by Suresh Pitre, Rajani Arjun Shankar
% Text title            : Kaverinavaratnamalika or Sahyajanavaratnamalika
% File name             : kAverInavaratnamAlikA.itx
% itxtitle              : kAverinavaratnamAlikA athavA sahyajAnavaratnamAlikA (tyAgarAjakRitA)
% engtitle              : Kaverinavaratnamalika or Sahyajanavaratnamalika
% Category              : nava, devii, nadI, stotra, tyAgarAja, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Tyagaraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Suresh Pitre
% Proofread by          : Suresh Pitre
% Indexextra            : (Scan)
% Latest update         : August 16, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org