कावेरीस्नानादिश्लोकाः
सिन्धुवर्ये दयासिन्धो मामुदर भवाम्बुधेः ।
प्रदेहि भुक्तिं मुक्तिं त्वं सर्वतीर्थस्वरूपिणि ॥ १॥
श्रियं देहि सुतं देहि स्त्रियं देहि ददस्व गाम् ।
आयुष्यं तेज आरोग्यं ऋणमुक्तं कुरुष्व माम् ॥ २॥
त्वयि स्नास्यद्य कावेरि सर्वपापविशुद्धये ।
अर्घ्य गृहाण मे देवि यथोक्तफलदा भव ॥ ३॥
कावेर्यै नमः इदमयम् ।
नमस्ते तटितां मुख्ये निगमागमसंस्तुते ।
पाहि पाह्यम्ब कावेरि प्रपन्नं मां कृपा दृशा ॥ ४॥
सह्यजोद्भवसम्भूते श्रीकुम्भभवसंस्तुते ।
पाहि पाह्यम्ब कावेरि प्रपन्नं मां कृपा दृशा ॥ ५॥
इति कावेरीस्नानादिश्लोकाः सम्पूर्णाः ।
Proofread by Prabha Maruvada