कावेरीस्नानश्लोकाः
विमानं प्रणवाकारं वेदशृङ्गं महद्भुतम् ।
श्रीरङ्गशायी भगवान् प्रणातातिप्रणाशनः ॥ १॥
कावेरी विरजातोयं विमानं रङ्गमन्दिरम् ।
सवासुदेवो रङ्गेशः प्रत्यक्षं परमं पदम् ॥ २॥
कावेरी तोयमाश्रित्य वातो यत्र प्रवर्तते ।
तद्देशवासिनां मुक्तिः किमु तत्रीरवासिनः ॥ ३॥
त्रिरात्रं जाह्नवीतीरे पञ्चरात्रं तु यामुने ।
सद्यः पुनातु कावेरी वासमामरणान्तिकम् ॥ ४॥
सिंहपादोद्भवे देवि ! श्रीरङ्गोत्सङ्गगामिनी ।
श्रीकावेरि नमस्तुभ्यं गृहाणायं नमोऽस्तुते ॥ ५॥
कावेरीसलिलप्रवाहविमलः काश्मीरदेशादिकः
कामारे कमलालये स्वितिपुरे श्रीकुम्भघोणाङ्गितः ।
श्रीचोलेन्दुमहीषु पञ्चनदिसन्मध्यार्जुनाद्राजते
मायूरा गजकाननाश्च परमा श्वेताटवीसङ्गमः ॥ ६॥
इति कावेरीस्नानश्लोकाः सम्पूर्णाः ।
Proofread by Prabha Maruvada