कावेर्यष्टकम्
रङ्गत्रयोत्सङ्गविराजमाने-
ब्रह्माद्रिकूटाश्रिततीर्थगर्भे ।
समस्तसिद्धाश्रमरम्यतीर्थे
कावेरि कावेरि मम प्रसीद ॥ १॥
तुलागतेऽर्केतटिनीपराभि-
गङ्गादिभिस्सेवितपादपद्मे ।
त्रिकोटितीर्थाश्रमपुष्कराढ्ये
कावेरि कावेरि मम प्रसीद ॥ २॥
ददासि कुल्याभिरनर्घधान्यान्
अशेषचोलीयजनस्य देवि ।
भुक्तिप्रदे मुक्तिविधानदक्षे-
कावेरि कावेरि मम प्रसीद ॥ ३॥
निजाभिधानश्रवणाहतानां-
निस्शेषपापक्षयकारिणी त्वम् ।
निदाघतृष्णादि निरासदक्षे-
कावेरि कावेरि मम प्रसीद ॥ ४॥
पराशरागस्त्यवसिष्ठमुख्यै -
महर्षिभिर्मान्यतपोभिरम्ब ।
त्वमाश्रिता कर्मठसिद्धिहेतुः
कावेरि कावेरि मम प्रसीद ॥ ५॥
मायूरमध्यार्जुनकुम्भघोण-
श्रीरङ्गचुञ्चुस्थलघट्टगात्वम् ।
सह्योद्भवे सिन्धुयुते स्वतन्त्रे
कावेरि कावेरि मम प्रसीद ॥ ६॥
ब्रह्मादिभिर्देववरैस्त्रिसन्ध्यं
वसिष्ठपूर्वैर्मुनिभिर्वरिष्ठैः ।
नित्यं गजारण्यगतैनिषेव्ये
कावेरि कावेरि मम प्रसीद ॥ ७॥
सुवासिनीनां च निजाश्रितानां-
पतिप्रियत्वं च सुतादिवर्गम् ।
दास्यस्युदारं बहुभोगभाग्यं
कावेरि कावेरि मम प्रसीद ॥ ८॥
निजप्रवाहाप्लवलब्धपुण्य-
प्रसिद्धसत्कर्मफलोदयेन ।
नृणामभीष्टार्थविधायिनी त्वं
कावेरि कावेरि मम प्रसीद ॥ ९॥
इति कावेर्यष्टकं सम्पूर्णम् ।
Proofread by Prabha Maruvada