श्रीकूष्माण्डाष्टकम्
कूष्माण्डे जगतां मातः सर्वशक्तिसमन्विते ।
भक्तानां वरदे देवि प्रसीद परमेश्वरि ॥ १॥
अष्टभुजा महादेवी सिंहारूढा मनोहरा ।
सर्वदेवस्तुता नित्यं कूष्माण्डा शुभदास्तु मे ॥ २॥
सूर्यकोटिप्रभा दिव्या जगदुत्पत्तिकारिणी ।
स्वहासेन जगत्स्रष्ट्री कूष्माण्डा शुभदास्तु मे ॥ ३॥
कमण्डलुं च पद्मं च धनुर्बाणौ च धारिणी ।
अमृतं चाक्षमालां च कूष्माण्डा शुभदास्तु मे ॥ ४॥
भुक्तिमुक्तिप्रदा देवी भक्तानुग्रहकारिणी ।
सर्वसङ्कटहन्त्री च कूष्माण्डा शुभदास्तु मे ॥ ५॥
रोगशोकभयघ्नी त्वं दारिद्र्यदुःखनाशिनी ।
आरोग्यैश्वर्यदा नित्यं कूष्माण्डा शुभदास्तु मे ॥ ६॥
ब्रह्माण्डजननी देवि आदिशक्तिः सनातनी ।
चराचरस्य जगतो कूष्माण्डा शुभदास्तु मे ॥ ७॥
भक्त्या स्तुवन्ति ये नित्यं कूष्माण्डां परमेश्वरीम् ।
तेषां मनोरथान् सर्वान् कूष्माण्डा पूरयेत् सदा ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीकूष्माण्डाष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com