॥ ककारादि कालीसहस्रनामस्तोत्रम् ॥

श्री गणेशाय नमः । कैलासशिखरे रम्ये नानादेवगणावृते । नानावृक्षलताकीर्णे नानापुष्पैरलङ्कृते ॥ १॥ चतुर्मण्डलसंयुक्ते श्रृङ्गारमण्डपे स्थिते । समाधौ संस्थितं शान्तं क्रीडन्तं योगिनीप्रियम् ॥ २॥ तत्र मौनधरं दृष्ट्वा देवी पृच्छति शङ्करम् । देव्युवाच । किं त्वया जप्यते देव किं त्वया स्मर्य्यते सदा ॥ ३॥ सृष्टिः कुत्र विलीनास्ति पुनः कुत्र प्रजायते । ब्रह्माण्डकारणं यत्तत् किमाद्यं कारणं महत् ॥ ४॥ मनोरथमयी सिद्धिस्तथा वाञ्छामयी शिव । तृतीया कल्पनासिद्धिः कोटिसिद्धीश्वरात्मकम् ॥ ५॥ शक्तिपाताष्टदशकं चराचरपुरीगतिः । महेन्द्रजालमिन्द्रादिजालानां रचना तथा ॥ ६॥ अणिमाद्यष्टकं देव परकायप्रवेशनम् । नवीनसृष्टिकरणं समुद्रशोषणं तथा ॥ ७॥ अमायां चन्द्रसन्दर्शो दिवा चन्द्रप्रकाशनम् । चन्द्राष्टकं चाष्टदिक्षु तथा सूर्याष्टकं शिव ॥ ८॥ जले जलमयत्वं च वह्नौ वह्निमयत्वकम् । ब्रह्म-विष्ण्वादि-निर्माणमिन्द्राणां कारणं करे ॥ ९॥ पातालगुटिका-यक्ष-वेतालपञ्चकं तथा । रसायनं तथा गुप्तिस्तथैव चाखिलाञ्जनम् ॥ १०॥ महामधुमती सिद्धिस्तथा पद्मावती शिव । तथा भोगवती सिद्धिर्यावत्यः सन्ति सिद्धयः ॥ ११॥ केन मन्त्रेण तपसा कलौ पापसमाकुले । आयुष्यं पुण्यरहिते कथं भवति तद्वद ॥ १२॥ श्रीशिव उवाच । विना मन्त्रं विना स्तोत्रं विनैव तपसा प्रिये । विना बलिं विना न्यासं भूतशुद्धिं विना प्रिये ॥ १३॥ विना ध्यानं विना यन्त्रं विना पूजादिना प्रिये । विना क्लेशादिभिर्देवि देहदुःखादिभिर्विना ॥ १४॥ सिद्धिराशु भवेद्येन तदेवं कथ्यते मया । शून्ये ब्रह्मण्डगोले तु पञ्चाशच्छून्यमध्यके ॥ १५॥ पञ्चशून्यस्थिता तारा सर्वान्ते कालिका स्थिता । अनन्त-कोटि ब्रह्माण्ड राजदण्डाग्रके शिवे ॥ १६॥ स्थाप्य शून्यालयं कृत्वा कृष्णवर्णं विधाय च । महानिर्गुणरूपा च वाचातीता परा कला ॥ १७॥ क्रीडायां संस्थिता देवी शून्यरूपा प्रकल्पयेत् । सृष्टेरारम्भकार्यार्थं दृष्टा छाया तया यदा ॥ १८॥ इच्छाशक्तिस्तु सा जाता तथा कालो विनिर्मितः । प्रतिबिम्बं तत्र दृष्टं जाता ज्ञानाभिधा तु सा ॥ १९॥ इदमेतत्किंविशिष्टं जातं विज्ञानकं मुदा । तदा क्रियाऽभिधा जाता तदीच्छातो महेश्वरि ॥ २०॥ ब्रह्माण्डगोले देवेशि राजदण्डस्थितं च यत् । सा क्रिया स्थापयामास स्व-स्वस्थानक्रमेण च ॥ २१॥ तत्रैव स्वेच्छया देवि सामरस्यपरायणा । तदिच्छा कथ्यते देवि यथावदवधारय ॥ २२॥ युगादिसमये देवि शिवं परगुणोत्तमम् । तदिच्छा निर्गुणं शान्तं सच्चिदानन्दविग्रहम् ॥ २३॥ शाश्वतं सुन्दरं शुद्धं सर्वदेवयुतं वरम् । आदिनाथं गुणातीतं काल्या संयुतमीश्वरम् ॥ २४॥ विपरीतरतं देवं सामरस्यपरायणम् । पूजार्थमागतं देव-गन्धर्वाऽप्सरसां गणम् ॥ २५॥ यक्षिणीं किन्नरीकन्यामुर्वश्याद्यां तिलोत्तमाम् । वीक्ष्य तन्मायया प्राह सुन्दरी प्राणवल्लभा ॥ २६॥ त्रैलोक्यसुन्दरी प्राणस्वामिनी प्राणरञ्जिनी । किमागतं भवत्याऽद्य मम भाग्यार्णवो महान् ॥ २७॥ उक्त्वा मौनधरं शम्भुं पूजयन्त्यप्सरोगणाः । अप्सरस ऊचुः । संसारात्तारितं देव त्वया विश्वजनप्रिय ॥ २८॥ सृष्टेरारम्भकार्य्यार्थमुद्युक्तोऽसि महाप्रभो । वेश्याकृत्यमिदं देव मङ्गलार्थप्रगायनम् ॥ २९॥ प्रयाणोत्सवकाले तु समारम्भे प्रगायनम् । गुणाद्यारम्भकाले हि वर्त्तते शिवशङ्कर ॥ ३०॥ इन्द्राणीकोटयः सन्ति तस्याः प्रसवबिन्दुतः । ब्रह्माणी वैष्णवी चैव माहेशी कोटिकोटयः ॥ ३१॥ तव सामरसानन्द दर्शनार्थं समुद्भवाः । सञ्जाताश्चाग्रतो देव चास्माकं सौख्यसागर ॥ ३२॥ रतिं हित्वा कामिनीनां नाऽन्यत् सौख्यं महेश्वर । सा रतिर्दृश्यतेऽस्माभिर्महत्सौख्यार्थकारिका ॥ ३३॥ एवमेतत्तु चास्माभिः कर्तव्यं भर्तृणा सह । एवं श्रुत्वा महादेवो ध्यानावस्थितमानसः ॥ ३४॥ ध्यानं हित्वा मायया तु प्रोवाच कालिकां प्रति । कालि कालि रुण्डमाले प्रिये भैरववादिनी ॥ ३५॥ शिवारूपधरे क्रूरे घोरद्रंष्टे भयानके । त्रैलोक्यसुन्दरकरी सुन्दर्य्यः सन्ति मेऽग्रतः ॥ ३६॥ सुन्दरीवीक्षणं कर्म कुरु कालि प्रिये शिवे । ध्यानं मुञ्च महादेवि ता गच्छन्ति गृहं प्रति ॥ ३७॥ तव रूपं महाकालि महाकालप्रियङ्करम् । एतासां सुन्दरं रूपं त्रैलोक्यप्रियकारकम् ॥ ३८॥ एवं मायाभ्रमाविष्टो महाकालो वदन्निति । इति कालवचः श्रुत्वा कालं प्राह च कालिका ॥ ३९॥ माययाऽऽच्छाद्य चात्मानं निजस्त्रीरूपधारिणी । इतः प्रभृति स्त्रीमात्रं भविष्यति युगे युगे ॥ ४०॥ वल्ल्याद्यौषधयो देवि दिवा वल्लीस्वरूपताम् । रात्रौ स्त्रीरूपमासाद्य रतिकेलिः परस्परम् ॥ ४१॥ अज्ञानं चैव सर्वेषां भविष्यति युगे युगे । एवं शापं च दत्वा तु पुनः प्रोवाच कालिका ॥ ४२॥ विपरीतरतिं कृत्वा चिन्तयन्ति मनन्ति ये । तेषां वरं प्रदास्यामि नित्यं तत्र वसाम्यहम् ॥ ४३॥ इत्युक्त्वा कालिका विद्या तत्रैवान्तरधीयत । त्रिंशत्-त्रिखर्व-षड्वृन्द-नवत्यर्बुदकोटयः ॥ ४४॥ दर्शनार्थं तपस्तेपे सा वै कुत्र गता प्रिया । मम प्राणप्रिया देवी हाहा प्राणप्रिये शिवे ॥ ४५॥ किं करोमि क्व गच्छामि इत्येवं भ्रमसङ्कुलः । तस्याः काल्या दया जाता मम चिन्तापरः शिवः ॥ ४६॥ यन्त्रप्रस्तारबुद्धिस्तु काल्या दत्तातिसत्वरम् । यन्त्रयागं तदारभ्य पूर्वं चिद्घनगोचरा ॥ ४७॥ श्रीचक्रं यन्त्रप्रस्ताररचनाभ्यासतत्परः । इतस्ततो भ्रम्यमाणस्त्रैलोक्यं चक्रमध्यकम् ॥ ४८॥ चक्रपारदर्शनार्थं कोट्यर्बुदयुगं गतम् । भक्तप्राणप्रिया देवी महाश्रीचक्रनायिका ॥ ४९॥ तत्र बिन्दौ परं रूपं सुन्दरं सुमनोहरम् । रूपं जातं महेशानि जाग्रत्त्रिपुरसुन्दरि ॥ ५०॥ रूपं दृष्ट्वा महादेवो राजराजेश्वरोऽभवत् । तस्याः कटाक्षमात्रेण तस्या रूपधरः शिवः ॥ ५१॥ विना श्रृङ्गारसंयुक्ता तदा जाता महेश्वरी । विना काल्यंशतो देवि जगत्स्थावरजङ्गमम् ॥ ५२॥ न श्रृङ्गारो न शक्तित्वं क्वापि नास्ति महेश्वरी । सुन्दर्य्या प्रार्थिता काली तुष्टा प्रोवाच कालिका ॥ ५३॥ सर्वासां नेत्रकेशेषु ममांशोऽत्र भविष्यति । पूर्वावस्थासु देवेशि ममांशस्तिष्ठति प्रिये ॥ ५४॥ सावस्था तरुणाख्या तु तदन्ते नैव तिष्ठति । मद्भक्तानां महेशानि सदा तिष्ठति निश्चितम् ॥ ५५॥ शक्तिस्तु कुण्ठिता जाता तथा रूपं न सुन्दरम् । चिन्ताविष्टा तु मलिना जाता तत्र च सुन्दरी ॥ ५६॥ क्षणं स्थित्वा ध्यानपरा काली चिन्तनतत्परा । तदा काली प्रसन्नाऽभूत् क्षणार्द्धेन महेश्वरी ॥ ५७॥ वरं ब्रूहि वरं ब्रूहि वरं ब्रूहीति सादरम् । सुन्दर्युवाच । मम सिद्धिवरं देहि वरोऽयं प्रार्थ्यते मया ॥ ५८॥ तादृगुपायं कथय येन शक्तिर्भविष्यति । श्रीकाल्युवाच । मम नामसाहस्रं च मया पूर्वं विनिर्मितम् ॥ ५९॥ मत्स्वरूपं ककाराख्यं मेधासाम्राज्यनामकम् । वरदानाभिधं नाम क्षणार्द्धाद्वरदायकम् ॥ ६०॥ तत्पठस्व महामाये तव शक्तिर्भविष्यति । ततः प्रभृति श्रीविद्या तन्नामपाठतत्परा ॥ ६१॥ तदेव नामसाहस्रं सुन्दरीशक्तिदायकम् । कथ्यते परया भक्त्या साधये सुमहेश्वरि ॥ ६२॥ मद्येर्मांसैस्तथा शुक्रैर्बहुरक्तैरपि प्रिये । तर्पयेत् पूजयेत् कालीं विपरीतरतिं चरेत् ॥ ६३॥ विपरीतरतौ देवि काली तिष्ठति नित्यशः । माध्वीकपुष्पशुक्रान्नमैथुनाद्या विरागिणी ॥ ६४॥ वैष्णवी व्यापिका विद्या श्मशानवासिनी परा । वीरसाधनसन्तुष्टा वीरास्फालननादिनी ॥ ६५॥ शिवाबलिप्रहृष्टात्मा शिवारूपाद्यचण्डिका । कामस्तोत्रप्रियात्युग्रमानसा कामरूपिणी ॥ ६६॥ ब्रह्मानन्दपरा शम्भु मैथुनानन्दतोषिता । योगीन्द्रहृदयागारा दिवा निशि विपर्यया ॥ ६७॥ क्षणं तुष्टा च प्रत्यक्षा दन्तमालाजपप्रिया । शय्यायां चुम्बनाङ्गः सन् वेश्यासङ्गपरायणः ॥ ६८॥ खड्गहस्तो मुक्तकेशो दिगम्बरविभूषितः । पठेन्नामसहस्राख्यं मेधासाम्राज्यनामकम् ॥ ६९॥ यथा दिव्यामृतैर्देवाः प्रसन्ना क्षणमात्रतः । तथाऽनेन महाकाली प्रसन्ना पाठमात्रतः ॥ ७०॥ कथ्यते नामसाहस्रं सावधानमनाः श्रृणु । सर्वसाम्राज्यमेधाख्यनामसाहस्रकस्य च ॥ ७१॥ महाकाल ऋषिः प्रोक्त उष्णिक्छन्दः प्रकीर्तितम् । देवता दक्षिणा काली मायाबीजं प्रकीर्तितम् ॥ ७२॥ ह्रूँ शक्तिः कालिकाबीजं कीलकं परिकीर्तितम् । कालिका वरदानादि-स्वेष्टार्थे विनियोगतः ॥ ७३॥ कीलकेन षडङ्गानि षड्दीर्घाबीजेन कारयेत् । ध्यानं च पूर्ववत्कृत्वा साधयेदिष्टसाधनम् ॥ ७४॥ ॐ अस्य श्रीसर्वसाम्राज्यमेधाकालीस्वरूप- ककारात्मकसहस्रनामस्तोत्रमन्त्रस्य महाकाल- ऋषिरुष्णिक्छन्दः, श्रीदक्षिणकाली देवता, ह्रीं बीजम्, ह्रूँ शक्तिः, क्रीं कीलकं, कालीवरदानादिस्वेष्टार्थे जपे विनियोगः । ॐ महाकाल ऋषये नमः शिरसि । उष्णिक्छन्दसे नमः मुखे । श्री दक्षिणकालीदेवतायै नमः हृदये । ह्रीं बीजाय नमः गुह्ये । ह्रूँ शक्तये नमः पादयोः । क्रीं कीलकाय नमः नाभौ । विनियोगायनमः सर्वाङ्गे । इति ऋष्यादिन्यासः । ॐ क्रां अङ्गुष्ठाभ्यां नमः । ॐ क्रीं तर्जनीभ्यां नमः । ॐ क्रूं मध्यमाभ्यां नमः । ॐ क्रैं अनामिकाभ्यां नमः । ॐ क्रौं कनिष्ठिकाभ्यां नमः । ॐ क्रः करतलकरपृष्ठाभ्यां नमः । इति कराङ्गन्यासः । ॐ क्रां हृदयाय नमः । ॐ क्रीं शिरसे स्वाहा । ॐ क्रूं शिखायै वषट् । ॐ क्रैं कवचाय हुं । ॐ क्रौं नेत्रत्रयाय वौषट् । ॐ क्रः अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः । अथ ध्यानम् । ॐ करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् । कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥ सद्यश्छिन्नशिरःखड्गवामोर्ध्वाधःकराम्बुजाम् । अभयं वरदं चैव दक्षिणाधोर्ध्वपाणिकाम् ॥ महामेघप्रभां श्यामां तथा चैव दिगम्बराम् । कण्ठावसक्तमुण्डालीगलद्रुधिरचर्चिताम् ॥ कर्णावतंसतानीतशवयुग्मभयानकाम् । घोरदंष्ट्राकरालास्यां पीनोन्नतपयोधराम् ॥ शवानां करसङ्घातैः कृतकाञ्चीं हसन्मुखीम् । सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥ घोररूपां महारौद्रीं श्मशानालयवासिनीम् । दन्तुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् ॥ शवरूपमहादेवहृदयोपरि संस्थिताम् । शिवाभिर्घोररूपाभिश्चतुर्द्दिक्षु समन्विताम् ॥ महाकालेन सार्द्धोर्द्धमुपविष्टरतातुराम् । सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ॥ एवं सङ्चिन्तयेद्देवीं श्मशानालयवासिनीम् ॥ अथ सह्सरनामस्तोत्र प्रारम्भः । ॐ क्रीं काली क्रूँ कराली च कल्याणी कमला कला । कलावती कलाढ्या च कलापूज्या कलात्मिका ॥ १॥ कलादृष्टा कलापुष्टा कलामस्ता कलाधरा । कलाकोटि कलाभासा कलाकोटिप्रपूजिता ॥ २॥ कलाकर्मकलाधारा कलापारा कलागमा । कलाधारा कमलिनी ककारा करुणा कविः ॥ ३॥ ककारवर्णसर्वाङ्गी कलाकोटिविभूषिता । ककारकोटिगुणिता कलाकोटिविभूषणा ॥ ४॥ ककारवर्णहृदया ककारमनुमण्डिता । ककारवर्णनिलया काकशब्दपरायणा ॥ ५॥ ककारवर्णमुकुटा ककारवर्णभूषणा । ककारवर्णरूपा च ककशब्दपरायणा ॥ ६॥ ककवीरास्फालरता कमलाकरपूजिता । कमलाकरनाथा च कमलाकररूपधृक् ॥ ७॥ कमलाकरसिद्धिस्था कमलाकरपारदा । कमलाकरमध्यस्था कमलाकरतोषिता ॥ ८॥ कथङ्कारपरालापा कथङ्कारपरायणा । कथङ्कारपदान्तस्था कथङ्कारपदार्थभूः ॥ ९॥ कमलाक्षी कमलजा कमलाक्षप्रपूजिता । कमलाक्षवरोद्युक्ता ककारा कर्बुराक्षरा ॥ १०॥ करतारा करच्छिन्ना करश्यामा करार्णवा । करपूज्या कररता करदा करपूजिता ॥ ११॥ करतोया करामर्षा कर्मनाशा करप्रिया । करप्राणा करकजा करका करकान्तरा ॥ १२॥ करकाचलरूपा च करकाचलशोभिनी । करकाचलपुत्री च करकाचलतोषिता ॥ १३॥ करकाचलगेहस्था करकाचलरक्षिणी । करकाचलसम्मान्या करकाचलकारिणी ॥ १४॥ करकाचलवर्षाढ्या करकाचलरञ्जिता । करकाचलकान्तारा करकाचलमालिनी ॥ १५॥ करकाचलभोज्या च करकाचलरूपिणी । करामलकसंस्था च करामलकसिद्धिदा ॥ १६॥ करामलकसम्पूज्या करामलकतारिणी । करामलककाली च करामलकरोचिनी ॥ १७॥ करामलकमाता च करामलकसेविनी । करामलकबद्ध्येया करामलकदायिनी ॥ १८॥ कञ्जनेत्रा कञ्जगतिः कञ्जस्था कञ्जधारिणी । कञ्जमालाप्रियकरी कञ्जरूपा च कञ्जना ॥ १९॥ कञ्जजातिः कञ्जगतिः कञ्जहोमपरायणा । कञ्जमण्डलमध्यस्था कञ्जाभरणभूषिता ॥ २०॥ कञ्जसम्माननिरता कञ्जोत्पत्तिपरायणा । कञ्जराशिसमाकारा कञ्जारण्यनिवासिनी ॥ २१॥ करञ्जवृक्षमध्यस्था करञ्जवृक्षवासिनी । करञ्जफलभूषाढ्या करञ्जारण्यवासिनी ॥ २२॥ करञ्जमालाभरणा करवालपरायणा । करवालप्रहृष्टात्मा करवालप्रिया गतिः ॥ २३॥ करवालप्रिया कन्या करवालविहारिणी । करवालमयी कर्मा करवालप्रियङ्करी ॥ २४॥ कबन्धमालाभरणा कबन्धराशिमध्यगा । कबन्धकूटसंस्थाना कबन्धानन्तभूषणा ॥ २५॥ कबन्धनादसन्तुष्टा कबन्धासनधारिणी । कबन्धगृहमध्यस्था कबन्धवनवासिनी ॥ २६॥ कबन्धकाञ्चीकरणी कबन्धराशिभूषणा । कबन्धमालाजयदा कबन्धदेहवासिनी ॥ २७॥ कबन्धासनमान्या च कपालाकल्पधारिणी । कपालमालामध्यस्था कपालव्रततोषिता ॥ २८॥ कपालदीपसन्तुष्टा कपालदीपरूपिणी । कपालदीपवरदा कपालकज्जलस्थिता ॥ २९॥ कपालमालाजयदा कपालजपतोषिणी । कपालसिद्धिसंहृष्टा कपालभोजनोद्यता ॥ ३०॥ कपालव्रतसंस्थाना कपालकमलालया । कवित्वामृतसारा च कवित्वामृतसागरा ॥ ३१॥ कवित्वसिद्धिसंहृष्टा कवित्वादानकारिणी । कविपृज्या कविगतिः कविरूपा कविप्रिया ॥ ३२॥ कविब्रह्मानन्दरूपा कवित्वव्रततोषिता । कविमानससंस्थाना कविवाञ्च्छाप्रपूरिणी ॥ ३३॥ कविकण्ठस्थिता कं ह्रीं कंकंकं कविपूर्तिदा । कज्जला कज्जलादानमानसा कज्जलप्रिया ॥ ३४॥ कपालकज्जलसमा कज्जलेशप्रपूजिता । कज्जलार्णवमध्यस्था कज्जलानन्दरूपिणी ॥ ३५॥ कज्जलप्रियसन्तुष्टा कज्जलप्रियतोषिणी । कपालमालाभरणा कपालकरभूषणा ॥ ३६॥ कपालकरभूषाढ्या कपालचक्रमण्डिता । कपालकोटिनिलया कपालदुर्गकारिणी ॥ ३७॥ कपालगिरिसंस्थाना कपालचक्रवासिनी । कपालपात्रसन्तुष्टा कपालार्घ्यपरायणा ॥ ३८॥ कपालार्घ्यप्रियप्राणा कपालार्घ्यवरप्रदा । कपालचक्ररूपा च कपालरूपमात्रगा ॥ ३९॥ कदली कदलीरूपा कदलीवनवासिनी । कदलीपुष्पसम्प्रीता कदलीफलमानसा ॥ ४०॥ कदलीहोमसन्तुष्टा कदलीदर्शनोद्यता । कदलीगर्भमध्यस्था कदलीवनसुन्दरी ॥ ४१॥ कदम्बपुष्पनिलया कदम्बवनमध्यगा । कदम्बकुसुमामोदा कदम्बवनतोषिणी ॥ ४२॥ कदम्बपुष्पसम्पूज्या कदम्बपुष्पहोमदा । कदम्पुष्पमध्यस्था कदम्बफलभोजिनी ॥ ४३॥ कदम्बकाननान्तःस्था कदम्बाचलवासिनी । कच्छपा कच्छपाराध्या कच्छपासनसंस्थिता ॥ ४४॥ कर्णपूरा कर्णनासा कर्णाढ्या कालभैरवी । कलप्रीता कलहदा कलहा कलहातुरा ॥ ४५॥ कर्णयक्षी कर्णवार्ता कथिनी कर्णसुन्दरी । कर्णपिशाचिनी कर्णमञ्जरी कविकक्षदा ॥ ४६॥ कविकक्षाविरूपाढ्या कविकक्षस्वरूपिणी । कस्तूरीमृगसंस्थाना कस्तूरीमृगरूपिणी ॥ ४७॥ कस्तूरीमृगसन्तोषा कस्तूरीमृगमध्यगा । कस्तूरीरसनीलाङ्गी कस्तूरीगन्धतोषिता ॥ ४८॥ कस्तूरीपूजकप्राणा कस्तूरीपूजकप्रिया । कस्तूरीप्रेमसन्तुष्टा कस्तूरीप्राणधारिणी ॥ ४९॥ कस्तूरीपूजकानन्दा कस्तूरीगन्धरूपिणी । कस्तूरीमालिकारूपा कस्तूरीभोजनप्रिया ॥ ५०॥ कस्तूरीतिलकानन्दा कस्तूरीतिलकप्रिया । कस्तूरीहोमसन्तुष्टा कस्तूरीतर्पणोद्यता ॥ ५१॥ कस्तूरीमार्जनोद्युक्ता कस्तूरीचक्रपूजिता । कस्तूरीपुष्पसम्पूज्या कस्तूरीचर्वणोद्यता ॥ ५२॥ कस्तूरीगर्भमध्यस्था कस्तूरीवस्त्रधारिणी । कस्तूरीकामोदरता कस्तूरीवनवासिनी ॥ ५३॥ कस्तूरीवनसंरक्षा कस्तूरीप्रेमधारिणी । कस्तूरीशक्तिनिलया कस्तूरीशक्तिकुण्डगा ॥ ५४॥ कस्तूरीकुण्डसंस्नाता कस्तूरीकुण्डमज्जना । कस्तूरीजीवसन्तुष्टा कस्तूरीजीवधारिणी ॥ ५५॥ कस्तूरीपरमामोदा कस्तूरीजीवनक्षमा । कस्तूरीजातिभावस्था कस्तूरीगन्धचुम्बना ॥ ५६॥ कसतूरीगन्धसंशोभाविराजितकपालभूः । कस्तूरीमदनान्तःस्था कस्तूरीमदहर्षदा ॥ ५७॥ कस्तूरीकवितानाढ्या कस्तूरीगृहमध्यगा । कस्तूरीस्पर्शकप्राणा कस्तूरीविन्दकान्तका ॥ ५८॥ कस्तूर्य्यामोदरसिका कस्तूरीक्रीडनोद्यता । कस्तूरीदाननिरता कस्तूरीवरदायिनी ॥ ५९॥ कस्तूरीस्थापनासक्ता कस्तूरीस्थानरञ्जिनी । कस्तूरीकुशलप्रश्ना कस्तूरीस्तुतिवन्दिता ॥ ६०॥ कस्तूरीवन्दकाराध्या कस्तूरीस्थानवासिनी । कहरूपा कहाढ्या च कहानन्दा कहात्मभूः ॥ ६१॥ कहपूज्या कहाख्या च कहहेया कहात्मिका । कहमालाकण्ठभूषा कहमन्त्रजपोद्यता ॥ ६२॥ कहनामस्मृतिपरा कहनामपरायणा । कहपरायणरता कहदेवी कहेश्वरी ॥ ६३॥ कहहेतु कहानन्दा कहनादपरायणा । कहमाता कहान्तःस्था कहमन्त्रा कहेश्वरी ॥ ६४॥ कहज्ञेया कहाराध्या कहध्यानपरायणा । कहतन्त्रा कहकहा कहचर्य्यापरायणा ॥ ६५॥ कहाचारा कहगतिः कहताण्डवकारिणी । कहारण्या कहरतिः कहशक्तिपरायणा ॥ ६६॥ कहराज्यनता कर्मसाक्षिणी कर्मसुन्दरी । कर्मविद्या कर्मगतिः कर्मतन्त्रपरायणा ॥ ६७॥ कर्ममात्रा कर्मगात्रा कर्मधर्मपरायणा । कर्मरेखानाशकर्त्री कर्मरेखाविनोदिनी ॥ ६८॥ कर्मरेखामोहकरी कर्मकीर्तिपरायणा । कर्मविद्या कर्मसारा कर्माधारा च कर्मभूः ॥ ६९॥ कर्मकारी कर्महारी कर्मकौतुकसुन्दरी । कर्मकाली कर्मतारा कर्मच्छिन्ना च कर्मदा ॥ ७०॥ कर्मचाण्डालिनी कर्मवेदमाता च कर्मभूः । कर्मकाण्डरतानन्ता कर्मकाण्डानुमानिता ॥ ७१॥ कर्मकाण्डपरीणाहा कमठी कमठाकृतिः । कमठाराध्यहृदया कमठाकण्ठसुन्दरी ॥ ७२॥ कमठासनसंसेव्या कमठी कर्मतत्परा । करुणाकरकान्ता च करुणाकरवन्दिता ॥ ७३॥ कठोरा करमाला च कठोरकुचधारिणी । कपर्दिनी कपटिनी कठिना कङ्कभूषणा ॥ ७४॥ करभोरूः कठिनदा करभा करभालया । कलभाषामयी कल्पा कल्पना कल्पदायिनी ॥ ७५॥ कमलस्था कलामाला कमलास्या क्कणत्प्रभा । ककुद्मिनी कष्टवती करणीयकथार्चिता ॥ ७६॥ कचार्चिता कचतनुः कचसुन्दरधारिणी । कठोरकुचसंलग्ना कटिसूत्रविराजिता ॥ ७७॥ कर्णमक्षप्रिया कन्दा कथाकन्दगतिः कलिः । कलिघ्नी कलिदूती च कविनायक-पूजिता ॥ ७८॥ कणकक्षानियन्त्री च कश्चित्कविवरार्चिता । कर्त्री च कर्तृका भूषाकारिणी कर्णशत्रुपा ॥ ७९॥ करणेशी करणपा कलवाचा कलानिधिः । कलना कलनाधारा कलना कारिका करा ॥ ८०॥ कलगेया कर्कराशिः कर्कराशि-प्रपूजिता । कन्याराशिः कन्यका च कन्यकाप्रियभाषिणी ॥ ८१॥ कन्यकादानसन्तुष्टा कन्यकादानतोषिणी । कन्यादानकरानन्दा कन्यादानग्रहेष्टदा ॥ ८२॥ कर्षणा कक्षदहना कामिता कमलासना । करमालानन्दकर्त्री करमालाप्रपोषिता ॥ ८३॥ करमालाशयानन्दा करमालासमागमा । करमालासिद्धिदात्री करमालाकरप्रिया ॥ ८४॥ करप्रिया कररता करदानपरायणा । कलानन्दा कलिगतिः कलिपूज्या कलिप्रसूः ॥ ८५॥ कलनादनिनादस्था कलनादवरप्रदा । कलनादसमाजस्था कहोला च कहोलदा ॥ ८६॥ कहोलगेहमध्यस्था कहोलवरदायिनी । कहोलकविताधारा कहोलऋषिमानिता ॥ ८७॥ कहोलमानसाराध्या कहोलवाक्यकारिणी । कर्तृरूपा कर्तृमयी कर्तृमाता च कर्तरी ॥ ८८॥ कनीया कनकाराध्या कनीनकमयी तथा । कनीयानन्दनिलया कनकानन्दतोषिता ॥ ८९॥ कनीयककराकाष्ठा कथार्णवकरी करी । करिगम्या करिगतिः करिध्वजपरायणा ॥ ९०॥ करिनाथप्रियाकण्ठा कथानकप्रतोषिता । कमनीया कमनका कमनीयविभूषणा ॥ ९१॥ कमनीयसमाजस्था कमनीयव्रतप्रिया । कमनीयगुणाराध्या कपिला कपिलेश्वरी ॥ ९२॥ कपिलाराध्यहृदया कपिलाप्रियवादिनी । कहचक्रमन्त्रवर्णा कहचक्रप्रसूनका ॥ ९३॥ कए‍ईलह्रींस्वरूपा च कए‍ईलह्रींवरप्रदा । कए‍ईलह्रींसिद्धिदात्री कए‍ईलह्रींस्वरूपिणी ॥ ९४॥ कए‍ईलह्रींमन्त्रवर्णा कए‍ईलह्रींप्रसूकला । कवर्गा च कपाटस्था कपाटोद्घाटनक्षमा ॥ ९५॥ कङ्काली च कपाली च कङ्कालप्रियभाषिणी । कङ्कालभैरवाराध्या कङ्कालमानसंस्थिता ॥ ९६॥ कङ्कालमोहनिरता कङ्कालमोहदायिनी । कलुषघ्नी कलुषहा कलुषार्तिविनाशिनी ॥ ९७॥ कलिपुष्पा कलादाना कशिपुः कश्यपार्चिता । कश्यपा कश्यपाराध्या कलिपूर्णकलेवरा ॥ ९८॥ कलेश्वरकरी काञ्ची कवर्गा च करालका । करालभैरवाराध्या करालभैरवेश्वरी ॥ ९९॥ कराला कलनाधारा कपर्द्दीशवरप्रदा । कपर्द्दीशप्रेमलता कपर्द्दिमालिकायुता ॥ १००॥ कपर्द्दिजपमालाढ्या करवीरप्रसूनदा । करवीरप्रियप्राणा करवीरप्रपूजिता ॥ १०१॥ कर्णिकारसमाकारा कर्णिकारप्रपूजिता । करिषाग्निस्थिता कर्षा कर्षमात्रसुवर्णदा ॥ १०२॥ कलशा कलशाराध्या कषाया करिगानदा । कपिला कलकण्ठी च कलिकल्पलता मता ॥ १०३॥ कल्पलता कल्पमाता कल्पकारी च कल्पभूः । कर्पूरामोदरुचिरा कर्पूरामोदधारिणी ॥ १०४॥ कर्पूरमालाभरणा कर्पूरवासपूर्तिदा । कर्पूरमालाजयदा कर्पूरार्णवमध्यगा ॥ १०५॥ कर्पूरतर्पणरता कटकाम्बरधारिणी । कपटेश्ववरसम्पूज्या कपटेश्वररूपिणी ॥ १०६॥ कटुः कपिध्वजाराध्या कलापपुष्पधारिणी । कलापपुष्परुचिरा कलापपुष्पपूजिता ॥ १०७॥ क्रकचा क्रकचाराध्या कथम्ब्रूमा करालता । कथङ्कारविनिर्मुक्ता काली कालक्रिया क्रतुः ॥ १०८॥ कामिनी कामिनीपूज्या कामिनीपुष्पधारिणी । कामिनीपुष्पनिलया कामिनीपुष्पपूर्णिमा ॥ १०९॥ कामिनीपुष्पपूजार्हा कामिनीपुष्पभूषणा । कामिनीपुष्पतिलका कामिनीकुण्डचुम्बना ॥ ११०॥ कामिनीयोगसन्तुष्टा कामिनीयोगभोगदा । कामिनीकुण्डसम्मग्ना कामिनीकुण्डमध्यगा ॥ १११॥ कामिनीमानसाराध्या कामिनीमानतोषिता । कामिनीमानसञ्चारा कालिका कालकालिका ॥ ११२॥ कामा च कामदेवी च कामेशी कामसम्भवा । कामभावा कामरता कामार्ता काममञ्जरी ॥ ११३॥ काममञ्जीररणिता कामदेवप्रियान्तरा । कामकाली कामकला कालिका कमलार्चिता ॥ ११४॥ कादिका कमला काली कालानलसमप्रभा । कल्पान्तदहना कान्ता कान्तारप्रियवासिनी ॥ ११५॥ कालपूज्या कालरता कालमाता च कालिनी । कालवीरा कालघोरा कालसिद्धा च कालदा ॥ ११६॥ कालञ्जनसमाकारा कालञ्जरनिवासिनी । कालऋद्धिः कालवृद्धिः कारागृहविमोचिनी ॥ ११७॥ कादिविद्या कादिमाता कादिस्था कादिसुन्दरी । काशी काञ्ची च काञ्चीशा काशीशवरदायिनी ॥ ११८॥ क्रां बीजा चैव क्रीं बीजा हृदयाय नमस्स्मृता । काम्या काम्यगतिः काम्यसिद्धिदात्री च कामभूः ॥ ११९॥ कामाख्या कामरूपा च कामचापविमोचिनी । कामदेवकलारामा कामदेवकलालया ॥ १२०॥ कामरात्रिः कामदात्री कान्ताराचलवासिनी । कामरूपा कालगतिः कामयोगपरायणा ॥ १२१॥ कामसम्मर्द्दनरता कामगेहविकासिनी । कालभैरवभार्या च कालभैरवकामिनी ॥ १२२॥ कालभैरवयोगस्था कालभैरवभोगदा । कामधेनुः कामदोग्ध्री काममाता च कान्तिदा ॥ १२३॥ कामुका कामुकाराध्या कामुकानन्दवर्द्धिनी । कार्त्तवीर्य्या कार्त्तिकेया कार्त्तिकेयप्रपूजिता ॥ १२४॥ कार्य्या कारणदा कार्य्यकारिणी कारणान्तरा । कान्तिगम्या कान्तिमयी कात्या कात्यायनी च का ॥ १२५॥ कामसारा च काश्मीरा काश्मीराचारतत्परा । कामरूपाचाररता कामरूपप्रियंवदा ॥ १२६॥ कामरूपाचारसिद्धिः कामरूपमनोमयी । कार्त्तिकी कार्त्तिकाराध्या काञ्चनारप्रसूनभूः ॥ १२७॥ काञ्चनारप्रसूनाभा काञ्चनारप्रपूजिता । काञ्चरूपा काञ्चभूमिः कांस्यपात्रप्रभोजिनी ॥ १२८॥ कांस्यध्वनिमयी कामसुन्दरी कामचुम्बना । काशपुष्पप्रतीकाशा कामद्रुमसमागमा ॥ १२९॥ कामपुष्पा कामभूमिः कामपूज्या च कामदा । कामदेहा कामगेहा कामबीजपरायणा ॥ १३०॥ कामध्वजसमारूढा कामध्वजसमास्थिता । काश्यपी काश्यपाराध्या काश्यपानन्ददायिनी ॥ १३१॥ कालिन्दीजलसङ्काशा कालिन्दीजलपूजिता । कादेवपूजानिरता कादेवपरमार्थदा ॥ १३२॥ कर्मणा कर्मणाकारा कामकर्मणकारिणी । कार्म्मणत्रोटनकरी काकिनी कारणाह्वया ॥ १३३॥ काव्यामृता च कालिङ्गा कालिङ्गमर्द्दनोद्यता । कालागरुविभूषाढ्या कालागरुविभूतिदा ॥ १३४॥ कालागरुसुगन्धा च कालागरुप्रतर्पणा । कावेरीनीरसम्प्रीता कावेरीतीरवासिनी ॥ १३५॥ कालचक्रभ्रमाकारा कालचक्रनिवासिनी । कानना काननाधारा कारुः कारुणिकामयी ॥ १३६॥ काम्पिल्यवासिनी काष्ठा कामपत्नी च कामभूः । कादम्बरीपानरता तथा कादम्बरीकला ॥ १३७॥ कामवन्द्या च कामेशी कामराजप्रपूजिता । कामराजेश्वरीविद्या कामकौतुकसुन्दरी ॥ १३८॥ काम्बोजजा काञ्छिनदा कांस्यकाञ्चनकारिणी । काञ्चनाद्रिसमाकारा काञ्चनाद्रिप्रदानदा ॥ १३९॥ कामकीर्तिः कामकेशी कारिका कान्तराश्रया । कामभेदी च कामार्तिनाशिनी कामभूमिका ॥ १४०॥ कालानलाशिनी काव्यवनिता कामरूपिणी । कायस्था कामसन्दीप्तिः काव्यदा कालसुन्दरी ॥ १४१॥ कामेशी कारणवरा कामेशीपूजनोद्यता । काञ्ची-नूपुरभूषाढ्या-कुङ्कुमाभरणान्विता ॥ १४२॥ कालचक्रा कालगतिः कालचक्रामनोभवा । कुन्दमध्या कुन्दपुष्पा कुन्दपुष्पप्रिया कुजा ॥ १४३॥ कुजमाता कुजाराध्या कुठारवरधारिणी । कुञ्चरस्था कुशरता कुशेशयविलोचना ॥ १४४॥ कुमठी कुररी कुद्रा कुरङ्गी कुटजाश्रया । कुम्भीनसविभूषा च कुम्भीनसवधोद्यता ॥ १४५॥ कुम्भकर्णमनोल्लासा कुलचूडामणिः कुला । कुलालगृहकन्या च कुलचूडामणिप्रिया ॥ १४६॥ कुलपूज्या कुलाराध्या कुलपूजापरायणा । कुलभूषा तथा कुक्षिः कुररीगणसेविता ॥ १४७॥ कुलपुष्पा कुलरता कुलपुष्पपरायणा । कुलवस्त्रा कुलाराध्या कुलकुण्डसमप्रभा ॥ १४८॥ कुलकुण्डसमोल्लासा कुण्डपुष्पपरायणा । कुण्डपुष्पप्रसन्नास्या कुण्डगोलोद्भवात्मिका ॥ १४९॥ कुण्डगोलोद्भवाधारा कुण्डगोलमयी कुहूः । कुण्डगोलप्रियप्राणा कुण्डगोलप्रपूजिता ॥ १५०॥ कुण्डगोलमनोल्लासा कुण्डगोलबलप्रदा । कुण्डदेवरता क्रुद्धा कुलसिद्धिकरा परा ॥ १५१॥ कुलकुण्डसमाकारा कुलकुण्डसमानभूः । कुण्डसिद्धिः कुण्डऋद्धिः कुमारीपूजनोद्यता ॥ १५२॥ कुमारीपूजकप्राणा कुमारीपूजकालया । कुमारीकामसन्तुष्टा कुमारीपूजनोत्सुका ॥ १५३॥ कुमारीव्रतसन्तुष्टा कुमारीरूपधारिणी । कुमारीभोजनप्रीता कुमारी च कुमारदा ॥ १५४॥ कुमारमाता कुलदा कुलयोनिः कुलेश्वरी । कुललिङ्गा कुलानन्दा कुलरम्या कुतर्कधृक् ॥ १५५॥ कुन्ती च कुलकान्ता च कुलमार्गपरायणा । कुल्ला च कुरुकुल्ला च कुल्लुका कुलकामदा ॥ १५६॥ कुलिशाङ्गी कुब्जिका च कुब्जिकानन्दवर्द्धिनी । कुलीना कुञ्जरगतिः कुञ्जरेश्वरगामिनी ॥ १५७॥ कुलपाली कुलवती तथैव कुलदीपिका । कुलयोगेश्वरी कुण्डा कुङ्कुमारुणविग्रहा ॥ १५८॥ कुङ्कुमानन्दसन्तोषा कुङ्कुमार्णववासिनी । कुसुमा कुसुमप्रीता कुलभूः कुलसुन्दरी ॥ १५९॥ कुमुद्वती कुमुदिनी कुशला कुलटालया । कुलटालयमध्यस्था कुलटासङ्गतोषिता ॥ १६०॥ कुलटाभवनोद्युक्ता कुशावर्ता कुलार्णवा । कुलार्णवाचाररता कुण्डली कुण्डलाकृतिः ॥ १६१॥ कुमतिश्च कुलश्रेष्ठा कुलचक्रपरायणा । कूटस्था कूटदृष्टिश्च कुन्तला कुन्तलाकृतिः ॥ १६२॥ कुशलाकृतिरूपा च कूर्चबीजधरा च कूः । कुं कुं कुं कुं शब्दरता क्रूं क्रूं क्रूं क्रूं परायणा ॥ १६३॥ कुं कुं कुं शब्दनिलया कुक्कुरालयवासिनी । कुक्कुरासङ्गसंयुक्ता कुक्कुरानन्तविग्रहा ॥ १६४॥ कूर्चारम्भा कूर्चबीजा कूर्चजापपरायणा । कुचस्पर्शनसन्तुष्टा कुचालिङ्गनहर्षदा ॥ १६५॥ कुमतिघ्नी कुबेरार्च्या कुचभूः कुलनायिका । कुगायना कुचधरा कुमाता कुन्ददन्तिनी ॥ १६६॥ कुगेया कुहराभासा कुगेया कुघ्नदारिभा । कीर्तिः किरातिनी क्लिन्ना किन्नरा किन्नरीक्रिया ॥ १६७॥ क्रीङ्कारा क्रीञ्जपासक्ता क्रीं हूँ स्त्रीं मन्त्ररूपिणी । किर्मीरितदृशापाङ्गी किशोरी च किरीटिनी ॥ १६८॥ कीटभाषा कीटयोनिः कीटमाता च कीटदा । किंशुका कीरभाषा च क्रियासारा क्रियावती ॥ १६९॥ कींकींशब्दपरा क्लां क्लीं क्लूँ क्लैं क्लौं मन्त्ररूपिणी । काँ कीं कूँ कैं स्वरूपा च कः फट् मन्त्रस्वरूपिणी ॥ १७०॥ केतकीभूषणानन्दा केतकीभरणान्विता । कैकदा केशिनी केशी केशीसूदनतत्परा ॥ १७१॥ केशरूपा केशमुक्ता कैकेयी कौशिकी तथा । कैरवा कैरवाह्लादा केशरा केतुरूपिणी ॥ १७२॥ केशवाराध्यहृदया केशवासक्तमानसा । क्लैब्यविनाशिनी क्लैं च क्लैं बीजजपतोषिता ॥ १७३॥ कौशल्या कोशलाक्षी च कोशा च कोमला तथा । कोलापुरनिवासा च कोलासुरविनाशिनी ॥ १७४॥ कोटिरूपा कोटिरता क्रोधिनी क्रोधरूपिणी । केका च कोकिला कोटिः कोटिमन्त्रपरायणा ॥ १७५॥ कोट्यानन्तमन्त्रयुक्ता कैरूपा केरलाश्रया । केरलाचारनिपुणा केरलेन्द्रगृहस्थिता ॥ १७६॥ केदाराश्रमसंस्था च केदारेश्वरपूजिता । क्रोधरूपा क्रोधपदा क्रोधमाता च कौशिकी ॥ १७७॥ कोदण्डधारिणी क्रौञ्चा कौशल्या कौलमार्गगा । कौलिनी कौलिकाराध्या कौलिकागारवासिनी ॥ १७८॥ कौतुकी कौमुदी कौला कुमारी कौरवार्चिता । कौण्डिन्या कौशिकी क्रोधा ज्वालाभासुररूपिणी ॥ १७९॥ कोटिकालानलज्वाला कोटिमार्त्तण्डविग्रहा । कृत्तिका कृष्णवर्णा च कृष्णा कृत्या क्रियातुरा ॥ १८०॥ कृशाङ्गी कृतकृत्या च क्रः फट्स्वाहास्वरूपिणी । क्रौं क्रौं हूँ फट्मन्त्रवर्णा क्रां ह्रीं ह्रूँ फट् स्वरूपिणी ॥ १८१॥ क्रींक्रींह्रींह्रीं तथा ह्रूँ हूँफट्स्वाहामन्त्ररूपिणी । इति श्रीसर्वसाम्राज्यमेधा नामसहस्रकम् ॥ १८२॥ सुन्दरीशक्तिदानाख्यं स्वरूपार्भिधमेव च । कथितं दक्षिणाकाल्याः सुन्दर्यै प्रीतियोगतः ॥ १॥ वरदानप्रसङ्गेन रहस्यमपि दर्शितम् । गोपनीयं सदा भक्त्या पठनीयं परात्परम् ॥ २॥ प्रातर्मध्याह्नकाले च मध्यार्द्धरात्रयोरपि । यज्ञकाले जपान्ते च पठनीयं विशेषतः ॥ ३॥ यः पठेत् साधको धीरः कालीरूपो हि वर्षतः । पठेद्वा पाठयेद्वापि श्रृणोति श्रावयेदपि ॥ ४॥ वाचकं तोषयेद्वापि स भवेत् कालिकातनुः । सहेलं वा सलीलं वा यश्चैनं मानवः पठेत् ॥ ५॥ सर्वदुःखविनिर्मुक्तस्त्रैलोक्यविजयी कविः । मृतवन्ध्या काकवन्ध्या कन्यावन्ध्या च वन्ध्यका ॥ ६॥ पुष्पवन्ध्या शूलवन्ध्या श्रृणुयात् स्तोत्रमुत्तमम् । सर्वसिद्धिप्रदातारं सत्कविं चिरजीविनम् ॥ ७॥ पाण्डित्यकीर्तिसंयुक्तं लभते नात्र संशयः । यं यं काममुपस्कृत्य कालीं ध्यात्वा जपेत्स्तवम् ॥ ८॥ तं तं कामं करे कृत्वा मन्त्री भवति नाऽन्यथा । योनिपुष्पैर्लिङ्गपुष्पैः कुण्डगोलोद्भवैरपि ॥ ९॥ संयोगामृतपुष्पैश्च वस्त्रदेवीप्रसूनकैः । कालिपुष्पैः पीठतोयैर्योनिक्षालनतोयकैः ॥ १०॥ कस्तूरीकुङ्कुमैर्देवीं नखकालागरुक्रमात् । अष्टगन्धैर्धूपदीपर्यवयावकसंयुतैः ॥ ११॥ रक्तचन्दनसिन्दूरैर्मत्स्यमांसादिभूषणैः । मधुभिः पायसैः क्षीरैः शोधितैः शोणितैरपि ॥ १२॥ महोपचारै रक्तैश्च नैवेद्यैः सुरसान्वितैः । पूजयित्वा महाकालीं महाकालेन लालिताम् ॥ १३॥ विद्याराज्ञीं कुल्लुकाञ्च जप्त्वा स्तोत्रं जपेच्छिवे । कालीभक्तस्त्वेकचित्तः सिन्दूरतिलकान्वितः ॥ १४॥ ताम्बूलपूरितमुखो मुक्तकेशो दिगम्बरः । शवयोनिस्थितो वीरः श्मशानसुरतान्वितः ॥ १५॥ शून्यालये बिन्दुपीठे पुष्पाकीर्णे शिवानने । शयनोत्थप्रभुञ्जानः कालीदर्शनमाप्नुयात् ॥ १६॥ तत्र यद्यत्कृतं कर्म तदनन्तफलं भवेत् । ऐश्वर्ये कमला साक्षात् सिद्धौ श्रीकालिकाम्बिका ॥ १७॥ कवित्वे तारिणीतुल्यः सौन्दर्ये सुन्दरीसमः । सिन्धोर्द्धारासमः कार्ये श्रुतौ श्रुतिधरस्तथा ॥ १८॥ वज्रास्त्रमिव दुर्द्धर्षस्त्रैलोक्यविजयास्त्रभृत् । शत्रुहन्ता काव्यकर्ता भवेच्छिवसमः कलौ ॥ १९॥ दिग्विदिक्चन्द्रकर्ता च दिवारात्रिविपर्य्ययी । महादेवसमो योगी त्रैलोक्यस्तम्भकः क्षणात् ॥ २०॥ गानेन तुम्बुरुः साक्षाद्दाने कर्णसमो भवेत् । गजाऽश्वरथपत्तीनामस्त्राणामधिपः कृती ॥ २१॥ आयुष्येषु भुशुण्डी च जरापलितनाशकः । वर्षषोडशवान् भूयात् सर्वकाले महेश्वरी ॥ २२॥ ब्रह्माण्डगोले देवेशि न तस्य दुर्लभं क्वचित् । सर्वं हस्तगतं भूयान्नात्र कार्य्या विचारणा ॥ २३॥ कुलपुष्पयुतं दृष्ट्वा तत्र कालीं विचिन्त्य च । विद्याराज्ञीं तु सम्पूज्य पठेन्नामसहस्रकम् ॥ २४॥ मनोरथमयी सिद्धिस्तस्य हस्ते सदा भवेत् । परदारान् समालिङ्गय सम्पूज्य परमेश्वरीम् ॥ २५॥ हस्ताहस्तिकया योगं कृत्वा जप्त्वा स्तवं पठेत् । योनिं वीक्ष्य जपेत् स्तोत्रं कुबेरादधिको भवेत् ॥ २६॥ कुण्डगोलोद्भवं गृह्यवर्णाक्तं होमयेन्निशि । पितृभूमौ महेशानि विधिरेखां प्रमार्जयेत् ॥ २७॥ तरुणीं सुन्दरीं रम्यां चञ्चलां कामगर्विताम् । समानीय प्रयत्नेन संशोध्य न्यासयोगतः ॥ २८॥ प्रसूनमञ्चे संस्थाप्य पृथिवीं वशमानयेत् । मूलचक्रं तु सम्भाव्य देव्याश्चरणसंयुतम् ॥ २९॥ सम्मूज्य परमेशानीं सङ्कल्प्य तु महेश्वरि । जप्त्वा स्तुत्वा महेशानीं प्रणवं संस्मरेच्छिवे ॥ ३०॥ अष्टोत्तरशतैर्योनिं प्रमन्त्र्याचुम्ब्य यत्नतः । संयोगीभूय जप्तव्यं सर्वविद्याधिपो भवेत् ॥ ३१॥ शून्यागारे शिवारण्ये शिवदेवालये तथा । शून्यदेशे तडागे च गङ्गागर्भे चतुष्पथे ॥ ३२॥ श्मशाने पर्वतप्रान्ते एकलिङ्गे शिवामुखे । मुण्डयोनौ ऋतौ स्नात्वा गेहे वेश्यागृहे तथा ॥ ३३॥ कुट्टिनीगृहमध्ये च कदलीमण्डपे तथा । पठेत्सहस्रनामाख्यं स्तोत्रं सर्वार्थसिद्धये ॥ ३४॥ अरण्ये शून्यगर्ते च रणे शत्रुसमागमे । प्रजपेच्च ततो नाम काल्याश्चैव सहस्रकम् ॥ ३५॥ बालानन्दपरो भूत्वा पठित्वा कालिकास्तवम् । कालीं सञ्चिन्त्य प्रजपेत् पठेन्नामसहस्रकम् ॥ ३६॥ सर्वसिद्धीश्वरो भूयाद्वाञ्छासिद्धीश्वरो भवेत् । मुण्डचूडकयोर्योनि त्वचि वा कोमले शिवे ॥ ३७॥ विष्टरे शववस्त्रे वा पुष्पवस्त्रासनेऽपि वा । मुक्तकेशो दिशावासो मैथुनी शयने स्थितः ॥ ३८॥ जप्त्वाकालीं पठेत् स्तोत्रं खेचरीसिद्धिभाग् भवेत् । चिकुरं योगमासाद्य शुक्रोत्सारणमेव च ॥ ३९॥ जप्त्वा श्रीदक्षिणां कालीं शक्तिपातशतं भवेत् । लतां स्पृशन् जपित्वा च रमित्वा त्वर्चयन्नपि ॥ ४०॥ आह्लादयन्दिगावासः परशक्तिं विशेषतः । स्तुत्वा श्रीदक्षिणां कालीं योनिं स्वकरगाञ्चरेत् ॥ ४१॥ पठेन्नामसहस्रं यः स शिवादधिको भवेत् । लतान्तरेषु जप्तव्यं स्तुत्वा कालीं निराकुलः ॥ ४२॥ दशावधानो भवति मासमात्रेण साधकः । कालरात्र्यां महारात्र्यां वीररात्र्यामपि प्रिये ॥ ४३॥ महारात्र्यां चतुर्दश्यामष्टम्यां संक्रमेऽपि वा । कुहूपूर्णेन्दुशुक्रेषु भौमामायां निशामुखे ॥ ४४॥ नवम्यां मङ्गलदिने तथा कुलतिथौ शिवै । कुलक्षेत्रे प्रयत्नेन पठेन्नामसहस्रकम् ॥ ४५॥ सुदर्शनो भवेदाशु किन्नरीसिद्धिभाग्भवेत् । पश्मिमाभिमुखं लिङ्गं वृषशून्यं पुरातनम् ॥ ४६॥ तत्र स्थित्वा जपेत् स्तोत्रं सर्वकामाप्तये शिवे । भौमवारे निशीथे वा अमावस्यादिने शुभे ॥ ४७॥ माषभक्तबलिं छागं कृसरान्नं च पायसम् । दग्धमीनं शोणितञ्च दधि दुग्ध गुडार्द्रकम् ॥ ४८॥ बलिं दत्वा जपेत् तत्र त्वष्टोत्तरसहस्रकम् । देव-गन्धर्व-सिद्धौधैः सेवितां सुरसुन्दरीम् ॥ ४९॥ लभेद्देवेशि मासेन तस्य चासन संहतिः । हस्तत्रयं भवेदूर्ध्वं नात्र कार्या विचारणा ॥ ५०॥ हेलया लीलया भक्त्या कालीं स्तौति नरस्तु यः । ब्रह्मादींस्सतम्भयेद्देवि माहेशीं मोहयेत्क्षणात् ॥ ५१॥ आकर्षयेन्महाविद्यां दशपूर्वान् त्रियामतः । कुर्वीत विष्णुनिर्म्माणं यमादीनां तु मारणम् ॥ ५२॥ ध्रुवमुच्चाटयेन्नूनं सृष्टिनूतनतां नरः । मेषमाहिषमार्जारखरच्छागनरादिकैः ॥ ५३॥ खङ्गिशूकरकापोतैष्टिट्टिभैः शशकैः पलैः । शोणितैः सास्थिमांसैश्च कारण्डैर्दुग्धपायसैः ॥ ५४॥ कादम्बरीसिन्धुमद्यैः सुरारिष्टैश्च सासवैः । योनिक्षालिततोयैश्च योनिलिङ्गामृतैरपि ॥ ५५॥ स्वजातकुसुमैः पूज्या जपान्ते तर्पयेच्छिवाम् । सर्वसाम्राज्यनाम्ना तु स्तुत्वा नत्वा स्वशक्तितः ॥ ५६॥ शक्त्या लभन् पठेत् स्तोत्रं कालीरूपो दिनत्रयात् । दक्षिणाकालिका तस्य गेहे तिष्ठति नान्यथा ॥ ५७॥ वेश्यालतागृहे गत्वा तस्याश्चुम्बनतत्परः । तस्या योनौ मुखं दत्वा तद्रसं विलिहञ्जपेत् ॥ ५८॥ तदन्ते नाम साहस्रं पठेद्भक्तिपरायणः । कालिकादर्शनं तस्य भवेद्देवि त्रियामतः ॥ ५९॥ नृत्यपात्रगृहे गत्वा मकारपञ्चकान्वितः । प्रसूनमञ्चे संस्थाप्य शक्तिन्यासपरायणः ॥ ६०॥ पात्राणां साधनं कृत्वा दिग्वस्त्रां तां समाचरेत् । सम्भाव्य चक्रं तन्मूले तत्र सावरणां जपेत् ॥ ६१॥ शतं भाले शतं केशे शतं सिन्दूरमण्डले । शतत्रयं कुचद्वन्द्वे शतं नाभौ महेश्वरि ॥ ६२॥ शतं योनौ महेशानि संयोगे च शतत्रयम् । जपेत्तत्र महेशानि तदन्ते प्रपठेत्स्तवम् ॥ ६३॥ शतावधानो भवति मासमात्रेण साधकः । मातङ्गिनीं समानीय किं वा कापालिनीं शिवे ॥ ६४॥ दन्तमाला जपे कार्या गले धार्या नृमुण्डजा । नेत्रपद्मे योनिचक्रं शक्तिचक्रं स्ववक्त्रके ॥ ६५॥ कृत्वा जपेन्महेशानि मुण्डयन्त्रं प्रपूजयेत् । मुण्डासनस्थितो वीरो मकारपञ्चकान्वितः ॥ ६६॥ अन्यामालिङ्गय प्रजपेदन्यां सञ्चुम्ब्य वै पठेत् । अन्यां सम्पूजयेत्तत्र त्वन्यां सम्मर्द्दयन् जपेत् ॥ ६७॥ अन्ययोनौ शिवं दत्वा पुनः पूर्ववदाचरेत् । अवधानसहस्रेषु शक्तिपातशतेषु च ॥ ६८॥ राजा भवति देवेशि मासपञ्चकयोगतः । यवनीशक्तिमानीय गानशक्तिपरायणम् ॥ ६९॥ कुलाचारमतेनैव तस्या योनिं विकासयेत् । तत्र प्रदाय जिह्वां तु जपेन्नामसहस्रकम् ॥ ७०॥ नृकपाले तत्र दीपं जपेत्प्रज्वाल्य यत्नतः । महाकविवरो भूयान्नात्र कार्या विचारणा ॥ ७१॥ कामार्तां शक्तिमानीय योनौ तु मूलचक्रकम् । विलिख्य परमेशानि तत्र मन्त्रं लिखेच्छिवे ॥ ७२॥ तल्लिहन् प्रजपेद्देवि सर्वशास्त्रार्थतत्ववित् । अश्रुतानि च शास्त्राणि वेदादीन् पाठयेद् ध्रुवम् ॥ ७३॥ विना न्यासैर्विना पाठैर्विनाध्यानादिभिः प्रिये । चतुर्वेदाधिपो भूत्वा त्रिकालज्ञस्त्रिवर्षतः ॥ ७४॥ चतुर्विधं च पाण्डित्यं तस्य हस्तगतं क्षणात् । शिवाबलिः प्रदातव्यः सर्वदा शून्यमण्डले ॥ ७५॥ कालीध्यानं मन्त्रर्चिता नीलसाधनमेव च । सहस्रनामपाठश्च कालीनामप्रकीर्तनम् ॥ ७६॥ भक्तस्य कार्यमेतावदन्यदभ्युदयं विदुः । वीरसाधनकं कर्म शिवापूजा बलिस्तथा ॥ ७७॥ सिन्दूरतिलको देवि वेश्यालापो निरन्तरम् । वेश्यागृहे निशाचारो रात्रौ पर्यटनं तथा ॥ ७८॥ शक्तिपूजा योनिदृष्टिः खङ्गहस्तो दिगम्बरः । मुक्तकेशो वीरवेषः कुलमूर्तिधरो नरः ॥ ७९॥ कालीभक्तो भवेद्देवि नान्यथा क्षेममाप्नुयात् । दुग्धास्वादी योनिलेही संविदासवघूर्णितः ॥ ८०॥ वेश्यालतासमायोगान्मासात्कल्पलता स्वयम् । वेश्याचक्रसमायोगात्कालीचक्रसमः स्वयम् ॥ ८१॥ वेश्यादेहसमायोगात् कालीदेहसमः स्वयम् । वेश्यामध्यगतं वीरं कदा पश्यामि साधकम् ॥ ८२॥ एवं वदति सा काली तस्माद्वेश्या वरा मता । वेश्या कन्या तथा पीठजातिभेदकुलक्रमात् ॥ ८३॥ अकुलक्रमभेदेन ज्ञात्वा चापि कुमारिकाम् । कुमारीं पूजयेद्भक्त्या जपान्ते भवने प्रिये ॥ ८४॥ पठेन्नामसहस्रं यः कालीदर्शनभाग् भवेत् । भक्त्या कुमारीं सम्पूज्य वैश्याकुल समुद्भवाम् ॥ ८५॥ वस्त्र हेमादिभिस्तोष्या यत्नात्स्तोत्रं पठेच्छिवे । त्रैलोक्य विजयी भूयाद्दिवा चन्द्रप्रकाशकः ॥ ८६॥ यद्यद्दत्तं कुमार्यै तु तदनन्तफलं भवेत् । कुमारीपूजनफलं मया वक्तुं न शक्यते ॥ ८७॥ चाञ्चल्याद्दुरितं किञ्चित्क्षम्यतामयमञ्जलिः । एका चेत्पूजिता बाला द्वितीया पूजिता भवेत् ॥ ८८॥ कुमार्यः शक्तयश्चैव सर्वमेतचराचरम् । शक्तिमानीय तद्गात्रे न्यासजालं प्रविन्यसेत् ॥ ८९॥ वामभागे च संस्थाप्य जपेन्नामसहस्रकम् । सर्वसिद्धीश्वरो भूयान्नात्र कार्य्या विचारणा ॥ ९०॥ श्मशानस्थो भवेत्स्वस्थो गलितं चिकुरं चरेत् । दिगम्बरः सहस्रं च सूर्यपुष्पं समानयेत् ॥ ९१॥ स्ववीर्येण प्लुतं कृत्वा प्रत्येकं प्रजपन् हुनेत् । पूज्य ध्यात्वा महाभक्त्या क्षमापालो नरः पठेत् ॥ ९२॥ नखं केशं स्ववीर्यं च यद्यत्सम्मार्जनीगतम् । मुक्तकेशो दिशावासो मूलमन्त्रपुरःसरः ॥ ९३॥ कुजवारे मध्यरात्रे होमं कृत्वा श्मशानके । पठेन्नामसहस्रं यः पृथ्वीशाकर्षको भवेत् ॥ ९४॥ पुष्पयुक्ते भगे देवि संयोगानन्दतत्परः । पुनश्चिकुरमासाद्य मूलमन्त्रं जपन् शिवे ॥ ९५॥ चितावह्नौ मध्यरात्रे वीर्यमुत्सार्य यत्नतः । कालिकां पूजयेत्तत्र पठेन्नाम सहस्रकम् ॥ ९६॥ पृथ्वीशाकर्षणं कुर्यान्नात्र कार्या विचारणा । कदली वनमासाद्य लक्षमन्त्रं जपेन्नरः ॥ ९७॥ मधुमत्या स्वयं देव्या सेव्यमानः स्मरोपमः । श्रीमधुमतीत्युक्त्वा तथा स्थावरजङ्गमान् ॥ ९८॥ आकर्षिणीं समुच्चार्य ठंठं स्वाहा समुच्चरेत् । त्रैलोक्याकर्षिणी विद्या तस्य हस्ते सदा भवेत् ॥ ९९॥ नदीं पुरीं च रत्नानि हेमस्त्रीशैलभूरुहान् । आकर्षयत्यम्बुनिधिं सुमेरुं च दिगन्ततः ॥ १००॥ अलभ्यानि च वस्तूनि दूराद्भूमितलादपि । वृत्तान्तं च सुरस्थानाद्रहस्ये विदुषामपि ॥ १०१॥ राज्ञां च कथयत्येषा सत्यं सत्वरमादिशेत् । द्वितीयवर्षपाठेन भवेत्पद्मावती शुभा ॥ १०२॥ ॐ ह्रींपद्मावति पदं ततस्त्रैलोक्यनाम च । वार्तां च कथय द्वन्द्वं स्वाहान्तो मन्त्र ईरितः ॥ १०३॥ ब्रह्मविष्ण्वादिकानां च त्रैलोक्ये यादृशी भवेत् । सर्व वदति देवेशी त्रिकालज्ञः कविश्शुभः ॥ १०४॥ त्रिवर्षं सम्पठन्देवि लभेद्भोगवतीं कलाम् । महाकालेन दृष्टोऽपि चितामध्यगतोऽपि वा ॥ १०५॥ तस्या दर्शनमात्रेण चिरञ्जीवी नरो भवेत् । मृतसञ्जीविनीत्युक्त्वा मृतमुत्थापय द्वयम् ॥ १०६॥ स्वाहान्तो मनुराख्यातो मृतसञ्जीवनात्मकः । चतुर्वर्षं पठेद्यस्तु स्वप्नसिद्धिस्ततो भवेत् ॥ १०७॥ ॐ ह्रीं स्वप्नवाराहि कालिस्वप्ने कथयोच्चरेत् । अमुकस्याऽमुकं देहि क्लीं स्वाहान्तो मनुर्मतः ॥ १०८॥ स्वप्नसिद्धा चतुर्वर्षात्तस्य स्वप्ने सदा स्थिता । चतुर्वर्षस्य पाठेन चतुर्वेदाधिपो भवेत् ॥ १०९॥ तद्धस्तजलसंयोगान्मूर्खः काव्यं करोति च । तस्य वाक्यपरिचयान्मूर्तिर्विन्दति काव्यताम् ॥ ११०॥ मस्तके तु करं कृत्वा वद वाणीमिति ब्रुवन् । साधको वाञ्छया कुर्यात्तत्तथैव भविष्यति ॥ १११॥ ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले । समस्ताः सिद्धयो देवि करामलकवत्सदा ॥ ११२॥ साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः । स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ११३॥ विदेशवर्तिनो भूत्वा वर्तन्ते चेटका इव । अमायां चन्द्रसन्दर्शश्चन्द्रग्रहणमेव च ॥ ११४॥ अष्टम्यां पूर्णचन्द्रत्वं चन्द्रसूर्याष्टकं तथा । अष्टदिक्षु तथाष्टौ च करोत्येव महेश्वरि ॥ ११५॥ अणिमा खेचरत्वं च चराचरपुरीगतम् । पादुकाखङ्गवेतालयक्षिणीगुह्यकादयः ॥ ११६॥ तिलकोगुप्ततादृश्यं चराचरकथानकम् । मृतसञ्जीविनीसिद्धिर्गुटिका च रसायनम् ॥ ११७॥ उड्डीनसिद्धिर्देवेशि षष्टिसिद्धीश्वरत्वकम् । तस्य हस्ते वसेद्देवि नात्र कार्या विचारणा ॥ ११८॥ केतौ वा दुन्दुभौ वस्त्रे विताने वेष्टनेगृहे । भित्तौ च फलके देवि लेख्यं पूज्यं च यत्नतः ॥ ११९॥ मध्ये चक्रं दशाङ्गोक्तं परितो नामलेखनम् । तद्धारणान्महेशानि त्रैलोक्यविजयी भवेत् ॥ १२०॥ एको हि शतसाहस्रं निर्जित्य च रणाङ्गणे । पुनरायाति च सुखं स्वगृहं प्रति पार्वती ॥ १२१॥ एको हि शतसन्दर्शी लोकानां भवति ध्रुवम् । कलशं स्थाप्य यत्नेन नामसाहस्रकं पठेत् ॥ १२२॥ सेकः कार्यो महेशानि सर्वापत्तिनिवारणे । भूतप्रेतग्रहादीनां राक्षसां ब्रह्मराक्षसाम् ॥ १२३॥ वेतालानां भैरवाणां स्कन्दवैनायकादिकान् । नाशयेत् क्षणमात्रेण नात्र कार्या विचारणा ॥ १२४॥ भस्मभिर्मन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् । भस्मसंक्षेपणादेव सर्वग्रहविनाशनम् ॥ १२५॥ नवनीतं चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि । वन्ध्या पुत्रप्रदां देवि नात्र कार्या विचारणा ॥ १२६॥ कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे । बहुपुत्रवती नारी सुभगा जायते ध्रुवम् ॥ १२७॥ पुरुषो दक्षिणाङ्गे तु धारयेत्सर्वसिद्धये । बलवान्कीर्तिमान धन्योधार्मिकः साधकः कृती ॥ १२८॥ बहुपुत्री रथानां च गजानामधिपः सुधीः । कामिनीकर्षणोद्युक्तः क्रीं च दक्षिणकालिके ॥ १२९॥ क्रीं स्वाहा प्रजपेन्मन्त्रमयुतं नामपाठकः । आकर्षणं चरेद्देवि जलखेचरभूगतान् ॥ १३०॥ वशीकरणकामो हि हूँ हूँ ह्रीं ह्रीं च दक्षिणे । कालिके पूर्वबीजानि पूर्ववत्प्रजपन् पठेत् ॥ १३१॥ उर्वशीमपि वसयेन्नात्र कार्या विचारणा । क्रीं च दक्षिणकालिके स्वाहा युक्तं जपेन्नरः ॥ १३२॥ पठेन्नामसहस्रं तु त्रैलोक्यं मारयेद्ध्रुवम् । सद्भक्ताय प्रदातव्या विद्या राज्ञि शुभे दिने ॥ १३३॥ सद्विनीताय शान्ताय दान्तायातिगुणाय च । भक्ताय ज्येष्ठपुत्राय गुरुभक्तिपराय च ॥ १३४॥ वैष्णवाय प्रशुद्धाय शिवाबलिरताय च । वेश्यापूजनयुक्ताय कुमारीपूजकाय च ॥ १३५॥ दुर्गाभक्ताय रौद्राय महाकालप्रजापिने । अद्वैतभावयुक्ताय कालीभक्तिपराय च ॥ १३६॥ देयं सहस्रनामाख्यं स्वयं काल्या प्रकाशितम् । गुरुदैवतमन्त्राणां महेशस्यापि पार्वति ॥ १३७॥ अभेदेन स्मरेन्मन्त्रं स शिवः स गणाधिपः । यो मन्त्रं भावयेन्मन्त्री स शिवो नात्र संशयः ॥ १३८॥ स शाक्तो वैष्णवस्सौरः स एवं पूर्णदीक्षितः । अयोग्याय न दातव्यं सिद्धिरोधः प्रजायते ॥ १३९॥ वेश्यास्त्रीनिन्दकायाथ सुरासंवित्प्रनिन्दके । सुरामुखो मनुं स्मृत्वा सुराचार्यो भविष्यति ॥ १४०॥ वाग्देवता घोरे आसापरघारे च हूँ वदेत् । घोररूपे महाघोरे मुखीभीमपदं वदेत् ॥ १४१॥ भीषण्यमुष्यषष्ठ्यन्तं हेतुर्वामयुगे शिवे । शिववह्नियुगास्त्रं हूँ हूँ कवचमनुर्भवेत् ॥ १४२॥ एतस्य स्मरणादेव दुष्टानां च मुखे सुरा । अवतीर्णा भवद्देवि दुष्टानां भद्रनाशिनी ॥ १४३॥ खलाय परतन्त्राय परनिन्दापराय च । भ्रष्टाय दुष्टसत्वाय परवादरताय च ॥ १४४॥ शिवाभक्ताय दुष्टाय परदाररताय च । न स्तोत्रं दर्शयेद्देवि शिवहत्याकरो भवेत् ॥ १४५॥ कालिकानन्दहृदयः कालिकाभक्तिमानसः । कालीभक्तो भवेत्सोऽयं धन्यरूपः स एव तु ॥ १४६॥ कलौ काली कलौ काली कलौ काली वरप्रदा । कलौ काली कलौ काली कलौ काली तु केवला ॥ १४७॥ बिल्वपत्रसहस्राणि करवीराणि वै तथा । प्रतिनाम्ना पूजयेद्धि तेन काली वरप्रदा ॥ १४८॥ कमलानां सहस्रं तु प्रतिनाम्ना समर्पयेत् । चक्रं सम्पूज्य देवेशि कालिकावरमाप्नुयात् ॥ १४९॥ मन्त्रक्षोभयुतो नैव कलशस्थजलेन च । नाम्ना प्रसेचयेद्देवि सर्वक्षोभविनाशकृत् ॥ १५०॥ तथा दमनकं देवि सहस्रमाहरेद्व्रती । सहस्रनाम्ना सम्पूज्य कालीवरमवाप्नुयात् ॥ १५१॥ चक्रं विलिख्य देहस्थं धारयेत्कालिकातनुः । काल्यै निवेदितं यद्यत्तदंशं भक्षयेच्छिवे ॥ १५२॥ दिव्यदेहधरो भूत्वा कालीदेहे स्थितो भवेत् । नैवेद्यनिन्दकान् दुष्टान् दृष्ट्वा नृत्यन्ति भैरवा ॥ १५३॥ योगिन्यश्च महावीरा रक्तपानोद्यताः प्रिये । मांसास्थिचर्मणोद्युक्ता भक्षयन्ति न संशयः ॥ १५४॥ तस्मान्न निन्दयेद्देवि मनसा कर्मणा गिरा । अन्यथा कुरुते यस्तु तस्य नाशो भविष्यति ॥ १५५॥ क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा । मन्त्रक्षोभश्च वा भूयात् क्षीणायुर्वा भवेद्ध्रुवम् ॥ १५६॥ पुत्रहारी स्त्रियोहारी राज्यहारी भवेद्ध्रुवम् । क्रमदीक्षायुतो देवि क्रमाद्राज्यमवाप्नुयात् ॥ १५७॥ एकवारं पठेद्देवि सर्वपापविनाशनम् । द्विवारं च पठेद्यो हि वाञ्छां विन्दति नित्यशः ॥ १५८॥ त्रिवारं च पठेद्यस्तु वागीशसमतां व्रजेत् । चतुर्वारं पठेद्देवि चतुर्वर्णाधिपो भवेत् ॥ १५९॥ पञ्चवारं पठेद्देवि पञ्चकामाधिपो भवेत् । षड्वारं च पठेद्देवि षडैश्वर्याधिपो भवेत् ॥ १६०॥ सप्तवारं पठेत्सप्तकामनां चिन्तितं लभेत् । वसुवारं पठेद्देवि दिगीशो भवति ध्रुवम् ॥ १६१॥ नववारं पठेद्देवि नवनाथसमो भवेत् । दशवारं कीर्त्तयेद्यो दशार्हः खेचरेश्वरः ॥ १६२॥ विंशतिवारं कीर्तयेद्यः सर्वैश्वर्यमयो भवेत् । पञ्चविंशतिवारैस्तु सर्वचिन्ताविनाशकः ॥ १६३॥ पञ्चाशद्वारमावर्त्य पञ्चभूतेश्वरो भवेत् । शतवारं कीर्त्तयेद्यः शताननसमानधीः ॥ १६४॥ शतपञ्चकमावर्त्य राजराजेश्वरो भवेत् । सहस्रावर्तनाद्देवि लक्ष्मीरावृणुते स्वयम् ॥ १६५॥ त्रिसहस्रं समावर्त्य त्रिनेत्रसदृशो भवेत् । पञ्च साहस्रमावर्त्य कामकोटि विमोहनः ॥ १६६॥ दशसाहस्रमावर्त्य भवेद्दशमुखेश्वरः । पञ्चविंशतिसाहस्रै च चतुर्विंशतिसिद्धिधृक् ॥ १६७॥ लक्षावर्तनमात्रेण लक्ष्मीपतिसमो भवेत् । लक्षत्रयावर्त्तनात्तु महादेवं विजेष्यति ॥ १६८॥ लक्षपञ्चकमावर्त्य कलापञ्चकसंयुतः । दशलक्षावर्त्तनात्तु दशविद्याप्तिरुत्तमा ॥ १६९॥ पञ्चविंशतिलक्षैस्तु दशविद्येश्वरो भवेत् । पञ्चाशल्लक्षमावृत्य महाकालसमो भवेत् ॥ १७०॥ कोटिमावर्त्तयेद्यस्तु कालीं पश्यति चक्षुषा । वरदानोद्युक्तकरां महाकालसमन्विताम् ॥ १७१॥ प्रत्यक्षं पश्यति शिवे तस्या देहो भवेद्ध्रुवम् । श्रीविद्याकालिकातारात्रिशक्तिविजयी भवेत् ॥ १७२॥ विधेर्लिपिं च सम्मार्ज्य किङ्करत्वं विसृज्य च । महाराज्यमवाप्नोति नात्र कार्या विचारणा ॥ १७३॥ त्रिशक्तिविषये देविक्रमदीक्षा प्रकीर्तिता । क्रमदीक्षायुतो देवि राजा भवति निश्चितम् ॥ १७४॥ क्रमदीक्षाविहीनस्य फलं पूर्वमिहेरितम् । क्रमदीक्षायुतो देवि शिव एव न चापरः ॥ १७५॥ क्रमदीक्षासमायुक्तः काल्युक्तसिद्धिभाग्भवेत् । क्रमदीक्षाविहीनस्य सिद्धिहानिः पदे पदे ॥ १७६॥ अहो जन्मवतां मध्ये धन्यः क्रमयुतः कलौ । तत्रापि धन्यो देवेशि नामसाहस्रपाठकः ॥ १७७॥ दशकालीविद्यौ देवि स्तोत्रमेतत्सदा पठेत् । सिद्धिं विन्दति देवेशि नात्र कार्या विचारणा ॥ १७८॥ काकी काली महाविद्या कलौ काली च सिद्धिदा । कलौ काली च सिद्धा च कलौ काली वरप्रदा ॥ १७९॥ कलौ काली साधकस्य दर्शनार्थं समुद्यता । कलौ काली केवला स्यान्नात्र कार्या विचारणा ॥ १८०॥ नान्यविद्या नान्यविद्या नान्यविद्या कलौ भवेत् । कलौ कालीं विहायाथ यः कश्चित्सिद्धिकामुकः ॥ १८१॥ स तु शक्तिं विना देवि रतिसम्भोगमिच्छति । कलौ कालीं विना देवि यः कश्चित्सिद्धिमिच्छति ॥ १८२॥ स नीलसाधनं त्यक्त्वा परिभ्रमति सर्वतः । कलौ काली विहायाथ यः कश्चिन्मोक्षमिच्छति ॥ १८३॥ गुरुध्यानं परित्यज्य सिद्धिमिच्छति साधकः । कलौ काली विहायाथ यः कश्चिद्राज्यमिच्छति ॥ १८४॥ स भोजन परित्यज्य भिक्षुवृत्तिमभीप्सति । स धन्यः स च विज्ञानी स एव सुरपूजितः ॥ १८५॥ स दीक्षितः सुखी साधुः सत्यवादी जितेन्द्रियः । स वेदवक्ता स्वाध्यायी नात्र कार्या विचारणा ॥ १८६॥ शिवरूपं गुरुं ध्यात्वा शिवरूपं गुरुं स्मरेत् । सदाशिवः स एव स्यानात्र कार्या विचारणा ॥ १८७॥ स्वस्मिन् कालीं तु सम्भाव्य पूजयेज्जगदम्बिकाम् । त्रैलोक्यविजयी भूयान्नात्र कार्य्या विचारणा ॥ १८८॥ गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः । रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥ १८९॥ श्लोकार्द्धं पादमात्रं वा पादादर्धं च तदर्धकम् । नामार्धं यः पठेद्देवि न वन्ध्यदिवसं न्यसेत् ॥ १९०॥ पुस्तकं पूजयेद्भक्त्या त्वरितं फलसिद्धये । न च मारीभयं तत्र न चाग्निर्वायुसम्भवम् ॥ १९१॥ न भूतादिभयं तत्र सर्वत्र सुखमेधते । कुङ्कुमाऽलक्तकेनैव रोचनाऽगरुयोगतः ॥ १९२॥ भूर्जपत्रे लिखेत् पुस्तं सर्वकामार्थसिद्धये । इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १९३॥ इति गदितमशेषं कालिकावर्णरूपं । प्रपठति यदि भक्त्या सर्वसिद्धीश्वरः स्यात् ॥ १९४॥ अभिनवसुखकामः सर्वविद्याभिरामो भवति सकलसिद्धिधः सर्ववीरासमृद्धिः ॥ १९५॥ ॥ इति श्रीमदादिनाथमहाकालविरचितायां महाकालसंहितायां कालकालीसंवादे सुन्दरीशक्तिदानाख्यं कालीस्वरूप मेधासाम्राज्यप्रदं सहस्रनामस्तोत्रं सम्पूर्णम् ॥ The stotra was attributed to kAlI tantra and rudrayAmala but I have the hard copy and I have seen the manuscripts in Bombay University as well as Asiatic Society. This is definitely a part of the lost 'kAlakAlI khaNDa of mahAkAlasaitA'. Only the begining suggests that it is from rudrayAmala ie kailAsashikhare ... but the rest of the matter suggests otherwise. So since the kAlakAlIkhaNDa is not available someone must have attributed this to kAlItantra and rudrayAmala. I have taken the liberty to end the stotra with the ending in my hard copy - mahAkAla sa.nhitA - guhyakAlI khaNDa - 3 of ga~NgAnath jhA sa.nskR^it vidyApiTH, alAhAbAd. A note by Ravin. Proofread by Ravin Bhalekar ravibhalekar@hotmail.com

% Text title            : kakArAdi kAlI sahasranAma stotram
% File name             : kaaliisahasra.itx
% itxtitle              : kakArAdi kAlIsahasranAmastotram
% engtitle              : kakArAdi kAlI sahasranAma stotram
% Category              : sahasranAma, devii, dashamahAvidyA, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : http://www.mypurohith.com
% Proofread by          : Ravin bhalekar ravibhalekar at hotmail.com
% Description-comments  : Also known as kAlI medhAsAmrAjyaprada sahasranAmastotra
% Source                : kAlakAlIkhaNDe mahAkAlasa.nhitAyAM
% Latest update         : November 14, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP