श्री कल्याणस्तवराजः
कल्याणवृष्टिभिरिवामृतपूरिताभि-
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भक्तिमतां जनानाम् ॥ १॥
एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेन सलिलस्थगिते च नेत्रे ।
सान्निध्यमुद्यदरुणायतलोचनस्य
त्वद्विग्रहस्य सुधया परयाप्लुतस्य ॥ २॥
ईशित्वभावकलुषाः कति नाम सन्ति ।
ब्रह्मादयः प्रतियुगं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३॥
लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पभावसुभगास्त्वयि भक्तिभाजः
त्वं (सं) मोहयन्ति तरुणी वनत्रयस्य ॥ ४॥
ह्रीङ्कारमेव तव नाम गृणन्ति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिणेत्रे ।
यत्सुस्पृशो यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५॥
हन्तुः पुरामधिगलं परिघूर्णमानः
क्रूरः कथं नु भविता गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं त्वदर्धं
देहस्य शश्वदमृताप्लवशीतलस्य ॥ ६॥
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किञ्च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति ॥ ७॥
कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि मामनाथं
त्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥ ८॥
हन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनसाहमनुस्मरामि
त्वामेव नौमि शरणं जननि त्वमेव ॥ ९॥
लक्षेषु सत्स्वपि तवाक्षिविलोकनानां
आलोकय त्रिपुरसुन्दरि मां कथञ्चित् ।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न तु जायमानः ॥ १०॥
ह्रीं ह्रीमितिप्रतिपदं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमानिनीय
तं सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११॥
सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानकुशलानि सरोरुहाक्षि ।
वल्लोचनानि दुरितौघनिवारणानि
मामेव मातरनिशं कलयन्तु मान्यम् ॥ १२॥
कल्पोपसंहरणकल्पितताण्डवस्य
देवस्य खण्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्ति रेका ॥ १३॥
लग्नं सदा भवतु मातरिदं त्वदीय
तेजः परं बहुलकुङ्कुमपङ्कशोणम् ।
भास्वकिरीटममृतांशुकलावतंसं
मध्येत्रिकोणनिलयं परमामृतार्द्रम् ॥ १४॥
ह्रीङ्कारमेव तव नाम तदेकरूपं
किं नाम सुन्दरि सरोजनिवासशीले ।
त्वत्तेजसा परिणतं विदधाति भूत-
सर्गं तनोति सरसीरुहसम्भवोऽयम् ॥ १५॥
ह्रीङ्कारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो ह्येतज्जपेन्मानवः ।
तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीः स्थिरस्थायिनी
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६॥
कुवलयदलनीलं बर्बरस्निग्धकेशं
पृथुतरकुचभारं क्रान्तकान्तावलग्नम् ।
किमिह बहुभिरुक्तैः त्वत्त्वरूपं परं तत्
सकलभुवनमातः सन्ततं सन्निधत्ताम् ॥ १७॥
माणिक्यमागलिकसूत्रितपालिकेन
मन्दस्मितेन म(व)दनारुणपङ्कजेन ।
कालान्तदीर्घमणिमङ्गलसूत्रकण्ठी-
मम्बां विशालनयनां मनसा स्मरामि ॥ १८॥
इति मन्मथेन विरचितः श्रीकल्याणस्तवराजः सम्पूर्णः ।
Proofread by Rajesh Thyagarajan