कल्याणत्रिंशतिकास्तोत्रम्
एवङ्कारसमापन्ना कायवाकचित्तबुद्धितः ।
करोमि सततं तस्या नुतिं पूजां प्रदक्षिणाम् ॥ १॥
या देवी सर्वसत्त्वानां सृष्टिसंहारकारिणी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २॥
या देवी सर्वभूतानां प्रतिपाले प्रतिष्ठिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ३॥
या देवी देवदेवीनां देवतारूपिणी स्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ४॥
या देवी दैत्यदुर्दान्तदाहरूपा भयानका ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ५॥
या देवी सर्वनागानां सहस्रमुखनागिनी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ६॥
या देवी सप्तपाताले शान्तरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ७॥
या देवी नरनारीणां वेदमाता चिदम्बिका ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८॥
या देवी क्षत्रिणीवैश्याशूद्रीजातिप्रपूजिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ९॥
या देवी प्रेतलोकानां पालनाय महर्द्धिका ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १०॥
या देवी सर्वतिर्यक्षु तारिणी तापनाशिनी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ११॥
या देवी नारकीयाणां दुःखभाजां च मातृका ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १२॥
या देवी षोडशसङ्ख्यनरकाणां विनाशिनी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १३॥
या देवी द्वेषिरागीणां मोहिनां दुर्दुरीकृता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १४॥
या देवी कामक्रोधाभ्यां क्रोधरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १५॥
या देवी लोभलाभानां लङ्घनाय विलम्बिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १६॥
या देवी मायाया माता मातॄणां वज्रयोगिणी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १७॥
या देवी राजचौराग्निसिंहशत्रुविनाशिनी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १८॥
या देवी जलनागाहिदुर्भिक्षभयतारिणी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १९॥
या देवी पञ्चभूतानां चन्द्रे सूर्ये प्रतिष्ठिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २०॥
या देवी भौतिकी वेला आलिकालिविचारिणी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २१॥
या देवी सर्वपीठेशी क्षेत्ररूपोपछन्दिका ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २२॥
या देवी पीलवाख्याता उपपीलवमीलिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २३॥
या देवी द्वादशे चक्रे राशिलग्नविभूषिणी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २४॥
या देवी षडङ्गे देशे प्रोद्बुद्धमुखचन्द्रिका ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २५॥
या देवी चण्डचक्रेषु गामिनी परमेश्वरी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २६॥
या देवी कायवाकचित्ते मन्त्ररूपेण गामिनी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २७॥
या देवी निर्मलात्मा श्रीरृद्धिसिद्धिबलप्रदा ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २८॥
या देवो सर्वजन्तूनां सदा मङ्गलकारिणी ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २९॥
य इदं पठते धीमान् देव्या भक्तिसमन्वितः ।
बुद्धत्वं लभते शीघ्रं कल्याणं मङ्गलं शिवम् ॥ ३०॥
इति श्री त्रिकायनिवासिनीवज्रदेव्याः कल्याणत्रिंशतिकास्तोत्रं सम्पूर्णम् ॥