श्रीकामाक्षीसुप्रभातम्

श्रीकामाक्षीसुप्रभातम्

जगदवन-विधौ त्वं जागरूका भवानि तव तु जननि निद्रामात्मवत् कल्पयित्वा । प्रतिदिवसमहं त्वां बोधयामि प्रभाते त्वयि कृतमपराधं सर्वमेतं क्षमस्व ॥ १॥ यदि प्रभातं तव सुप्रभातं तदा प्रभातं मम सुप्रभातम् । तस्मात् प्रभाते तव सुप्रभातं वक्ष्यामि मातः कुरु सुप्रभातम् ॥ २॥ गुरु ध्यानम् । यस्याङ्घ्रिपद्म-मकरन्द-निषेवणात् त्वं जिह्वां गताऽसि वरदे मम मन्दबुद्धेः । यस्याम्ब नित्यमनघे हृदये विभासि तं चन्द्रशेखर-गुरुं प्रणमामि नित्यम् ॥ ३॥ जयेज्जयेन्द्रो गुरुणा गृहीतो मठाधिपत्ये शशिशेखरेण । यथा गुरुस्सर्व-गुणोपपन्नो जयत्यसौ मङ्गलमातनोतु ॥ ४॥ शुभं दिशतु नो देवी कामाक्षी सर्वमङ्गला शुभं दिशतु नो देवी कामकोटी-मठेशः । शुभं दिशतु तच्छिष्यः सद्गुरुर्नो जयेन्द्रो सर्वं मङ्गलमेवास्तु मङ्गलानि भवन्तु नः ॥ ५॥ ॥ शुभम् ॥ ॥ श्रीः ॥ कामाक्षि देव्यम्ब तवार्द्र-दृष्ट्या मूकः स्वयं मूककविर्यथाऽसीत् । तथा कुरु त्वं परमेश-जाये त्वत्पाद-मूले प्रणतं दयार्द्रे ॥ उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदीश्वरि । उत्तिष्ठ जगदाधारे त्रैलोक्यं मङ्गलं कुरु ॥ १॥ श‍ृणोषि कच्चिद्-ध्वनिरुत्थितोऽयम् मृदङ्गभेरी-पटहानकानाम् । वेदध्वनिं शिक्षित-भूसुराणाम् । श‍ृणोषि भद्रे कुरु सुप्रभातम् ॥ २॥ श‍ृणोषि भद्रे ननु शङ्ख-घोषम् वैतालिकानां मधुरं च गानम् । श‍ृणोषि मातः पिक-कुक्कुटानाम् ध्वनिं प्रभाते कुरु सुप्रभातम् ॥ ३॥ मातर्निरीक्ष्य वदनं भगवान् शशाङ्को लज्जान्वितः स्वयमहो निलयं प्रविष्टः । द्रष्टुं त्वदीय वदनं भगवान् दिनेशो ह्यायाति देवि सदनं कुरु सुप्रभातम् ॥ ४॥ पश्याम्ब केचिद्-धृतपूर्णकुम्भाः केचिद्-दयार्द्रे धृतपुष्पमालाः । काचित् शुभाङ्ग्यो ननु वाद्यहस्ताः तिष्ठन्ति तेषां कुरु सुप्रभातम् ॥ ५॥ भेरीमृदङ्ग-पणवानक-वाद्यहस्ताः स्तोतुं महेशदयिते स्तुति-पाठकास्त्वाम् । तिष्ठन्ति देवि समयं तव काङ्क्षमाणाः ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् ॥ ६॥ मातर्निरीक्ष्य वदनं भगवान् त्वदीयम् नैवोत्थितः शशिधिया शयितस्तवाङ्के । सम्बोधयाशु गिरिजे विमलं प्रभातम् जातं महेशदयिते कुरु सुप्रभातम् ॥ ७॥ अन्तश्चरन्त्यास्तव भूषणानाम् झल्झल्ध्वनिं नूपुर-कङ्कणानाम् । श्रुत्वा प्रभाते तव दर्शनार्थी द्वारि स्थितोऽहं कुरु सुप्रभातम् ॥ ८॥ वाणी पुस्तकमम्बिके गिरिसुते पद्मानि पद्मासना रम्भा त्वम्बर-डम्बरं गिरिसुता गङ्गा च गङ्गाजलम् । काली तालयुगं मृदङ्ग-युगलं वृन्दा च नन्दा तथा । नीला निर्मल-दर्पणं धृतवती तासां प्रभातं शुभम् ॥ ९॥ उत्थाय देवि शयनाद्भगवान् पुरारिः स्नातुं प्रयाति गिरिजे सुरलोक-नद्याम् । नैको हि गन्तुमनघे रमते दयार्द्रे ह्युत्तिष्ठ देवि शयनात् कुरु सुप्रभातम् ॥ १०॥ पश्याम्ब केचित्फल-पुष्पहस्ताः केचित्पुराणानि पठन्ति मातः । पठन्ति वेदान्बहवस्तवाग्रे तेषां जनानां कुरु सुप्रभातम् ॥ ११॥ लावण्य-शेवधिमवेक्ष्य चिरं त्वदीयम् कन्दर्प-दर्पदलनोऽपि वशं गतस्ते । कामारि-चुम्बित-कपोलयुगं त्वदीयं द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥ १२॥ गाङ्गेय-तोयममवाह्य मुनीश्वरास्त्वां गङ्गाजलैः स्नपयितुं बहवो घटांश्च । धृत्वा शिरःसु भवतीमभिकाङ्क्षमाणाः द्वारि स्थिता हि वरदे कुरु सुप्रभातम् ॥ १३॥ मन्दार-कुन्द-कुसुमैरपि जातिपुष्पैः मालाकृता विरचितानि मनोहराणि । माल्यानि दिव्य-पदयोरपि दातुमम्ब तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् ॥ १४॥ काञ्चीकलाप-परिरम्भ-नितम्बबिम्बम् काश्मीर-चन्दन-विलेपित-कण्ठदेशम् । कामेश-चुम्बित-कपोलमुदारनासां द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥ १५॥ मन्दस्मितं विमलचारु-विशालनेत्रम् कण्ठस्थलं कमल-कोमल-गर्भगौरम् । चक्राङ्कितं च युगलं पदयोर्मृगाक्षि द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥ १६॥ मन्दस्मितं त्रिपुरनाशकरं पुरारेः कामेश्वर-प्रणयकोपहरं स्मितं ते । मन्दस्मितं विपुलहासमवेक्षितुं ते मातः स्थिता वयमये कुरु सुप्रभातम् ॥ १७॥ माता शिशूनां परिरक्षणार्थम् न चैव निद्रावशमेति लोके । माता त्रयाणां जगतां गतिस्त्वम् सदा विनिद्रा कुरु सुप्रभातम् ॥ १८॥ मातर्मुरारि-कमलासन-वन्दिताङ्घ्र्याः हृद्यानि दिव्यमधुराणि मनोहराणि । श्रोतुं तवाम्ब वचनानि शुभप्रदानि द्वारि स्थिता वयमये कुरु सुप्रभातम् ॥ १९॥ दिगम्बरो ब्रह्मकपालपाणिः विकीर्णकेशः फणिवेष्टिताङ्गः । तथाऽपि मातस्तव देविसङ्गात् महेश्वरोऽभूत् कुरु सुप्रभातम् ॥ २०॥ अयि तु जननि दत्त-स्तन्यपानेन देवि द्रविड-शिशुरभूद्वै ज्ञानसम्बन्धमूर्तिः । द्रविड-तनय-भुक्त-क्षीरशेषं भवानि वितरसि यदि मातः सुप्रभातं भवेन्मे ॥ २१॥ जननि तव कुमारः स्तन्यपान-प्रभावात् शिशुरपि तव भर्तुः कर्णमूले भवानि । प्रणव-पद-विशेषं बोधयामास देवि यदि मयि च कृपा ते सुप्रभातं भवेन्मे ॥ २२॥ त्वं विश्वनाथस्य विशालनेत्रा हालास्य-नाथस्य नु मीननेत्रा । एकाम्रनाथस्य नु कामनेत्रा कामेशजाये कुरु सुप्रभातम् ॥ २३॥ श्रीचन्द्रशेखर-गुरुर्भगवान् शरण्ये त्वत्पादभक्ति-भरितः फलपुष्पपाणिः । एकाम्रनाथ-दयिते तव दर्शनार्थी तिष्ठत्ययं यतिवरो मम सुप्रभातम् ॥ २४॥ एकाम्रनाथ-दयिते ननु कामपीठे सम्पूजिताऽसि वरदे गुरुशङ्करेण । श्रीशङ्करादि-गुरुवर्य-समर्चिताङ्घ्रिम् द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥ २५॥ दुरित-शमन-दक्षौ मृत्यु-सन्त्रास-दक्षौ चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ । अभयवरद-हस्तौ द्रष्टुमम्ब स्थितोऽहं त्रिपुरदलन-जाये सुप्रभातं ममार्ये ॥ २६॥ मातस्त्वदीय-चरणं हरिपद्मजाद्यैः वन्द्यं रथाङ्ग-सरसीरुह-शङ्ख-चिह्नम् । द्रष्टुं च योगिजन-मानस-राजहंसं द्वारि स्थितोऽस्मि वरदे कुरु सुप्रभातम् ॥ २७॥ पश्यन्तु केचिद्वदनं त्वदीयं स्तुवन्तु कल्याण-गुणांस्तवान्ये । नमन्तु पादाब्ज-युगं त्वदीयाः द्वारि स्थितानां कुरु सुप्रभातम् ॥ २८॥ केचित्सुमेरोः शिखरेऽतितुङ्गे केचिन्मणिद्वीपवरे विशाले । पश्यन्तु केचित्त्वमृताब्धि-मध्ये पश्याम्यहं त्वामिह सुप्रभातम् ॥ २९॥ शम्भोर्वामाङ्क-संस्थां शशिनिभ-वदनां नील-पद्मायताक्षीं श्यामाङ्गां चारुहासां निबिडतर-कुचां पक्व-बिम्बाधरोष्ठीम् । कामाक्षीं कामदात्रीं कुटिल-कचभरां भूषणैर्भूषिताङ्गीं पश्यामः सुप्रभाते प्रणत-जनिमतामद्य नः सुप्रभातम् ॥ ३०॥ कामप्रदा कल्पतरुर्विभासि नान्या गतिर्मे ननु चातकोऽहम् । वर्षस्यमोघाः कनकाम्बुधाराः काश्चित्तु धारा मयि कल्पयाशु ॥ ३१॥ त्रिलोचन-प्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् । त्रिलोक-नायिकां वन्दे सुप्रभातं ममाम्बिके ॥ ३२॥ कृतज्ञता कामाक्षि देव्यम्ब तवार्द्र-दृष्ट्या कृतं मयेदं खलु सुप्रभातम् । सद्यः फलं मे सुखमम्ब लब्धं तथा च मे दुःखदशा गता हि ॥ ३३॥ प्रार्थना ये वा प्रभाते पुरतस्तवार्ये पठन्ति भक्त्या ननु सुप्रभातम् । श‍ृण्वन्ति ये वा त्वयि बद्धचित्ताः तेषां प्रभातं कुरु सुप्रभातम् ॥ ३४॥ Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi, Rajani Arjun Shankar
% Text title            : shrii kaamaaxii suprabhaatam
% File name             : kamaxi.itx
% itxtitle              : kAmAkShI suprabhAtam
% engtitle              : kAmAxI suprabhatam
% Category              : suprabhAta, devii, kAmAkShI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : kAmAkShI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi, Rajani Arjun Shankar
% Indexextra            : (Audio 1, 2, 3)
% Latest update         : August 9, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org