श्रीकनकधारामन्त्रः
विनियोगः -
ॐ अस्य श्रीकनकधारायन्त्रमन्त्रस्य
श्रीआचार्यश्रीशङ्करभगवत्पाद ऋषिः ।
श्रीभुवनेश्वरी ऐश्वर्यदात्री महालक्ष्मी देवता ।
श्रीं बीजम् । ह्रीं शक्तिः । श्रीविद्या कीलकम् ।
मम क्षेमस्थैर्यायुरारोग्याभिवृद्ध्यर्थं
श्रीमहालक्ष्म्यष्टलक्ष्मीभगवत्याः
दारिद्र्यविनाशकधनदालक्ष्मीप्रसादसिद्ध्यर्थं
कनकधारामन्त्रजपे विनियोगः ॥
करन्यासः -
ॐ वं अङ्गुष्ठाभ्यां नमः ।
श्रीं तर्जनीभ्यां नमः ।
ऐं मध्यमाभ्यां नमः ।
ह्रीं अनामिकाभ्यां नमः ।
श्रीं कनिष्ठिकाभ्यां नमः ।
क्लीं करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासः -
ॐ वं हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
ऐं शिखायै वषट् ।
ह्रीं कवचाय हुम् ।
श्रीं नेत्रत्रयाय वौषट् ।
क्लीं अस्त्राय फट् ॥
ध्यानम् -
सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥
मन्त्रः -
ॐ वं श्रीं ऐं ह्रीं श्रीं क्लीं कनकधारायै स्वाहा ॥
The mantra is given for reference.
A proper guidance from a qualified Tantric
scholar/teacher/guru is recommended to
practice chanting with corresponding yantra.
Encoded and proofread by Durga Sharma