कुबेरकृत सीतास्तुतिः

कुबेरकृत सीतास्तुतिः

कुबेर उवाच । धनाधिपतिरस्म्यहं जननि भक्तवर्यस्य ते सखा हृदिनिरन्तरं किमपि भावयानः स्थितः । कदा खलु भवत्यहो जनकभूपतेर्मन्दिरे शुभैरवतरेत्तरां भवति यन्निधीनां फलम् ॥ १॥ गायकेभ्यो नर्तकेभ्यस्तथैव च स्तावकेभ्यस्तथा । स्वस्तिवाचकेभ्यो ददे निधीन् ॥ २॥ अथ जन्मोत्सवदिने मातस्तव फलं गताः । आकरेषु चिरं रुद्धा निधयो मम हस्तगाः ॥ ३॥ भवत्या ये पत्यावुदयमुपयायाते दशरथ क्षितीन्द्रस्यागरे व्यपितपरिशिष्टा विनिहिताः । निधीन् संस्कुर्वे तानहमधिकमद्य त्वदुदये जगन्माङ्गल्यार्थे गुणवति वितीर्य द्विजगणे ॥ ४॥ अद्यास्माकमहोभाग्यं यक्षाणां बहुकालतः । सुसाध्यस्थापिता विद्याः करिष्यामः फलान्विताः ॥ ५॥ ता एव विद्याश्च गुणास्त एव तान्येव रत्नानि धनानि चैव । येषां खलु स्यादुपयोगयोगः प्रभौ प्रसादोन्मुखतामुपेते ॥ ६॥ अद्याहं रिक्तयिष्यामि निधिस्थानान्यशेषतः । तव जन्मोत्सवं प्राप्य दानैर्मानैश्च बन्धुषु ॥ ७॥ पुनस्तव विवाहादिकौतुके समुपस्थिते । त्वद्भाण्डागाराधिकारिमहद्भूतं भरिष्यति ॥ ८॥ न खल्वक्षयवस्तूनां विनाश उपपद्यते । भृतं भृतं रिच्यतेऽथो रिक्तं रिक्तं पुनर्भरेत् ॥ ९॥ सकुटुम्बोऽद्यनृत्येयं गायेयं च गुणांस्तव । विहरेयं हरेयं स्वं दद्यामद्यामथादपे ॥ १०॥ त्रिभुवनमङ्गलकारि त्वदीयमिदमद्भुतम् । जन्मनो चेत्कथमव्यक्तं भवति व्यक्तं परं ब्रह्म ॥ ११॥ नमो निष्करणोपाधिकरुणारसवारिधे । तुभ्यं त्रिभुवनोद्भासि कीर्तये ब्रह्ममूर्तये ॥ १२॥ नमश्चैतन्यसाक्षिण्यै स्वानन्दवपुषे भृशम् । स्वप्रकाशस्वरूपायै नीरूपायै सुरूपिणि ॥ १३॥ भक्तचेतश्चमत्कारिप्रेमानन्दैक मूर्तये । भुवनोद्भासिभाग्यौद्यभरितायै नमो नमः ॥ १४॥ स्वैरलीलाविनोदिन्यै वशिताधिकमूर्तये । तत्सङ्गामृतपानेनाप्यतृप्तमनसे नमः ॥ १५॥ श्रीभूलीलाद्यनन्तप्रकटगुणगणाख्यानरूपात्मिकायै साक्षाच्छीरामचन्द्रामितरतिसुखितस्वादितस्वान्तरायै । भक्तैकानुग्रहार्थप्रसृमरविमलापूर्णकारुण्यलक्ष्म्यै जानक्यै जन्मवत्यै खलु भुवि सहजायै परब्रह्मणे ते ॥ १६॥ इत्युक्त्वा पदयोः पपातः भगवान् राजाधिराजः प्रभु र्भूयोवैश्रवणः स्थितः सविनयं बद्ध्वा तदग्रेञ्जलिम् । पद्माद्यैर्निधिभिः कृताञ्जलिपुटैर्जन्मोत्सवे सम्भ्रमं कर्तुं भूरि समागतेः सहयुतः श्रीमैथिलेन्द्रालये ॥ १७॥ एवं सर्वे सुरौद्याः स्तुतिमतुलतरां श्रौतवाक्यैः प्रमाणै र्निर्मायानन्तकोटिप्रचुरगुणगणाख्यायकैर्भूरि वारम् । ब्रह्मेशानौ रमेशं सुरपतिमपि चोच्चैः पुरस्कृत्य याताः प्रेमानन्दाब्धिवीचिसमुदयनिभृतोद्धूतचित्तावगाहाः ॥ १८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये सीताजन्मोत्सवे कुबेरकृतस्तुतौ षड्विंशोऽध्यायः ॥ २६॥ भुशुण्डिरामायणम् । पश्चिमखण्ड । अध्याय २६/१-१८॥ bhushuNDirAmAyaNam . pashchimakhaNDa . adhyAya 26/1-18.. Encoded and proofread by Mrityunjay Rajkumar Pandey
% Text title            : Kuberakrita Sita Stuti
% File name             : kuberakRitasItAstutiH.itx
% itxtitle              : sItAstutiH kuberakRitA (bhuShuNDirAmAyaNAntargatA)
% engtitle              : kuberakRitA sItAstutiH
% Category              : devii, sItA, stuti
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sItA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : bhushuNDirAmAyaNam | pashchimakhaNDa | adhyAya 26/1-18||
% Indexextra            : (Scans 1, 2)
% Latest update         : August 26, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org