लक्ष्मीस्तवः
सुधासारासारादपि बहुलसारा कुवलया-
वलीदामश्यामा शुभविभवसामस्त्यजननी ।
मम श्रेयो भूयो वितरतु सुधासिन्धुदुहितुः
कृपातुङ्गापाङ्गोल्लसदसमशृङ्गारलहरी ॥ १॥
जगत्स्रष्टा स्रष्टा श्रुतिभिरनवद्यप्रसृतिभि-
चतुर्मुख्या मुख्यानपि गुणलवांस्ते कवयितुम् ।
रमे नेष्टामीष्टां तव शिशुरयं त्वत्करुणया
ग्रहीतुं स्तम्बोऽपि प्रभवति सितां सैकतयुताम् ॥ २॥
महिम्नः पारं ते द्रुहिणपुरजित्तारक जितः
क्षमन्ते वानन्ते जननि न चतुष्पञ्चषमुखाः ।
यदि त्वन्ये मन्ये जलधिपतिकन्ये कवयितुं
यतेरन्नीशेरन मशकशिशुकाः सिन्धुगिलने ॥ ३॥
नृपान् नावन्नावं भवजलधिनावं तव कृपां
रमे नीचाः केचिज्जहतु भुवि निर्विण्णरसनाः ।
किमेतैर्जाह्नव्यास्तटभुवि खनद्भिः प्रवणता-
दुरापोद कूपं त्वयि कृतभरोऽहं तदधुना ॥ ४॥
तव स्तोत्रं चित्रं त्रिभुवन पवित्रं जिगदिषोः
समन्ताज्जृम्भन्ताममलवदने पद्मसदने ।
नटद्भाषायोषाकरकमलभूषापरिकन-
न्मणीभूषोन्मेषप्रतिमगतयो मे भणितयः ॥ ५॥
श्रियामेकं मूलं द्विरदगतिनम्रं त्रिविधचि-
त्कलापं संसेव्यं सविनति चतुष्पञ्चषमुखैः ।
प्रदीपत्सप्ताश्वं प्रभवतु सदाष्टापदपदं
महालक्षम्याश्चित्ते मम नवलसद्यौवनदशम् ॥ ६॥
सरस्वत्या सत्या वलमथनसत्याप्यसुलभं
भवद्दास्यं पश्यञ्जिगदिषति यस्ते तदुपमाम् ।
अयं निम्बं बिम्बं विवदिषति पद्मे सुरतरोः
समं लोष्टं स्पष्टं हि कलयिषतेऽष्टापदगिरेः ॥ ७॥
त्वया जुष्टस्तुष्टः कमपि खलु दुष्टं बलिभुजं
समत्रास्त त्रस्तं परमपुरुषो रुक्मिणमपि ।
तवासान्निध्येऽहन् दशवदनचैद्यादिचपला-
नितीदं ते लक्ष्मि प्रथयति घृणैकप्रवणताम् ॥ ८॥
जगद्रक्षाशिक्षाप्रभृतिमहिमानं भगवति
त्वदेकान्तं प्राहुः कतिचिदपरे त्वत्पतिगतम् ।
नयापेतैरेतैरलमखिलवेदान्तकलने
प्रतीमस्तन्मिश्रं खलु शुभवतोरम्ब भवतोः ॥ ९॥
तवानल्पं तल्पं फणिकुलपतिस्तद्गिरिपते-
रुरोरत्नं प्रत्नं तव भजति भद्रासनगतिम् ।
त्रयो वेदाः सौधा जननि कमलं सद्म विमलं
भवद्भूमा भूमावहह न पदं वाङ्मनसयोः ॥ १०॥
महावृत्ते यत्ते सकरुणकटाक्षप्रसरणात्
पदं स्वं स्वं प्राप्ता हरिहरविरिञ्चिप्रभृतयः ।
जगच्चित्तायत्ता जगदुदयसत्तावगतयो
यतस्तत् त्वं तत्त्वं परमिति रमे निश्चिनुमहे ॥ ११॥
नवोन्मीलन्नीलोत्पलदलकुलश्यामलतमः
कटाक्षस्ते हस्ते कलयति नरं यं भगवति ।
अयं रङ्गद्भृङ्गोत्कटकरटिगण्डस्थलगल-
न्मदस्यन्देऽलिन्दे चरति चरितं तेऽद्भुतमिदम् ॥ १२॥
तव भ्राता त्राता कुवलयगरिम्णस्तव पिता
महासत्त्वो धत्ते भुवि भुवनसाम्राज्यमखिलम् ।
क्षमः सृष्टौ पुष्टौ पतिरपि निघृष्टौ च जगतां
रमे साम्राज्यं ते क इह विवरीतुं प्रभवति ॥ १३॥
रणे शक्तिं युक्तिं नयविधिषु रक्ति गुणगणे
गुरौ भक्तिं सक्तिं कृतफणितिवृक्तिं च सदसि ।
वहन्तोऽपि क्ष्मापा दधति लघुतां त्वद्विमुखिता-
स्त्वया दृष्टो दुष्टोऽप्यखिलगुणजुष्टोऽम्ब भवति ॥ १४॥
कृपावर्षोत्कर्षादमरशिखिहर्षं विदधतं
परव्योम्नि स्फीतं सकलफलदं कृष्णजलदम् ।
श्रिता विद्युल्लेखा चलनरहिता नित्यमहिता
रमा तृष्णापूर्त्यै वसुविसरमाकल्पयतु नः ॥ १५॥
प्रवालश्रीरोष्ठे कचभुवि घनालिद्युतिरुरो-
भुवौ कुम्भावब्जप्रथितकदनं चापि वदनम् ।
कटी गोत्राभोगास्पदमहिमहीभृत्तटवस-
त्युरःसद्मे (पद्मे) भगवति ततस्त्वं जयमयी ॥ १६॥
मुखे चान्द्रीं शाङ्खीं गलभुवि च मैनीं नयनयो
रुचिं सौधीं वाचि त्रिवलिषु च वैचीं प्रपदयोः ।
पदोः कौर्मीं पाद्मीं नखततिषु मौक्तीं च दधती
व्यनक्षि श्री(रब्धे)र्लयमनुवहन्ति स्त्रिय इति ॥ १७॥
सुमोल्लासो हासो भ्रमरनिकरास्तेऽम्ब चिकुरा
मधुद्रोणी वाणी भगवति करौ पल्लववरौ ।
भुजौ शाखाभेदौ नखमुखततिः कोरकतति-
स्ततो मन्येऽम्ब त्वां मनसि ललितां कल्पलतिकाम् ॥ १८॥
त्रं वक्त्रं वचनरचने माधवरुचिः
कचः कृष्णश्चक्रप्रकृतिमपि रोमालिरयते ।
वलग्ने संलग्ना हरिविहतिरित्यम्ब सततं
पदं धत्तां चित्ताम्बुरुहि मम ते विष्णुमयता ॥ १९॥
सुधांशुस्ते वक्त्रं सुमविलसितं मन्दहसितं
सुधा वाणी वेणी सुरपतिमणीभङ्गसरणिः ।
सुषिर्नाभिर्बाहू सुरतरुलतासुन्दरतमौ
सुवर्णप्रागल्भ्यं तव जननि गात्रेषु जयति ॥ २०॥
त्रिवृद्भावं पञ्चीभवनमपि च क्वापि समये
यतः स्वैरं नारायणि तव बरीभर्ति कबरी ।
तमो नाम श्यामं त्रिगुणसमतायां यदुदितं
जगन्मातस्तत् ते तदिति हृदि तां निश्चिनुमहे ॥ २१॥
सुधासान्द्रश्चन्द्रस्तव सुमुखतां प्राप्य नतदृक्
चकोरीनारीणां मुदमपि धुरीणां रचयति ।
इति श्रुत्वा मत्वा स्वयमपि तदाशिश्रयिषयो-
दितां श्यामां श्यामां तव किरणयामाम्ब कबरीम् ॥ २२॥
किरीटाद्रेर्नीलोपलफलकसोपानपटली
शिरःपश्चाच्चक्रद्युमणितनुसञ्जातयमुना ।
श्रियं दद्यादुद्यत्सदनकमलामोदवशव-
र्त्यलिश्रेणी वेणी रतिपतिकृपाणी जननि ते ॥ २३॥
मणीभूषावेषावरुणहरिणाङ्कौ निगलितौ
तमःश्रेणी वेणीघृतमकृत सीमन्तमभितः ।
जगन्मातर्यत्तत्तिमिरनिगलोपाङ्गवलय-
प्रणालीवाराली भवदलकपाली विजयते ॥ २४॥
गरादुग्रे व्यग्रे गलति गतभीः कन्तुरुदधे-
र्जनित्रीभिःस्त्रीभिर्जितवलभिदाप्त्वेन्द्रजिदिति ।
प्रथां कृष्णं जिष्णुस्तव जननि वेणीकपटतो-
ऽसृजन्मायामेघावलिमुदितशैलीमुखरुचिम् ॥ २५॥
स्फुरच्चूडारत्नद्युमणियमुनायाः कचतते-
स्त्रिकाकुल्या श्रोणीगिरियुगलगा तेऽम्ब जयतु ।
कलां कालोन्मीलत्कनककदलीकन्दलदला-
न्तरालीनां लीनामिव पिदधती या विलसति ॥ २६॥
महानीलावाले मृगमदरजोलेशकलिते
जलं काले काले रविदुहितुरालिप्य च यदि ।
तमालं पुष्णीयुर्यदि च परिपुष्येत् स कमले
तदा तन्मञ्जर्यः कथमपि दधीरन् कचरुचिम् ॥ २७॥
अहेर्जेता बर्हिःस्थितिभृदिनजातानुकृतिरु-
त्पलादेशः पाशी मरुदधिपतिः श्रीदविभवः ।
शिवः स्रष्टा कृष्णस्तव कचभरोऽष्टावपि दिशां
पतीन् मूर्तीस्तिस्रः स्वयमनुविधत्ते भगवति ॥ २८॥
हलाघाताद् भीतां शरणमुपयातां विनिहितां
त्वया पश्चाद्भागेऽवितुमकरुणोद्यत्करुणया ।
रवेः कन्यां मन्यामह उदधिजे तेऽम्ब कबरीं
भयात् कृष्णा वेणीत्यनुकलितनामान्तरधृतिम् ॥ २९॥
सुवासघ्रीचीभिर्वचनरचनाभिर्निचुलितं
लसद्भासोल्लासच्छविशमितनम्रार्तितिमिरम् ।
शशाङ्कं शङ्कन्तां कतिचन मुखं तेऽम्बुजसखं
न चैतत् सम्मन्ये स हि जननि जन्मादिकुटिलः ॥ ३०॥
जले स्थित्वा कृत्वा मुखमभिमुखं चापि सवितु-
र्भ्रमद्भृङ्गारावच्छलमनुजपाप्याप नलिनी ।
न ते वक्त्रच्छायालवमपि निजे स्मेरजलजे
विधौ वैरं स्वैरं वहति न तपोऽप्यम्ब भवति ॥ ३१॥
सदादर्शस्फूर्तिं दधति वदने तेऽब्जसदने
क्व चन्द्रस्योन्मेषः सम इति कथा तस्य वितथा ।
जगन्मातस्तस्मात् स बहुलकृशस्तावकमुख-
श्रियै धत्ते तप्तं भवशिरसि गीर्वाणशिरसि ॥ ३२॥
सदा नासामुक्ताभरणमिषरोहिण्युपगतं
पतिं दृष्ट्वा वक्रं परुषरुषमेकत्र मिलिताम् ।
चहन्तीं तारालीमिव सवुसृणां मौक्तिकमयीं
ललन्तीं श्रीकान्ते तव जयतु सीमन्तसरणिः ॥ ३३॥
मणीताटङ्काञ्चच्छुरणकचनीलावरणस--
द्रदश्रेणीमुक्ताच्छुरणसुपथे मन्मथरथे ।
वचोविज्ञेयाश्चे तव मुखमये पार्श्वकलितं
कपोलद्वन्द्वं ते मुकुरयुगमम्बामनुमहे ॥ ३४॥
जयन् मूर्तीस्तिस्रस्तिसृभिरिषुभिर्मध्यफलके
लिखन् रोमालीं ते जयलिपिमुदीर्णत्रिवलिकाम् ।
स्मरः श्रान्त्यानेनाननशशिनि दत्तौ सकमलो-
त्पलारोपौ रोपौ किमु जननि दृग्भ्रूयुगमिदम् ॥ ३५॥
महासौरभ्यं ते मुखनलिनमास्वादितुमणो-
रणीयस्त्वादास्ते किमु तिलकरूपेण स हरिः ।
भवत्फाले नो चेन्निरतिशयसौरभ्यभरिते
प्रकर्षः कस्तूर्याः क इव भविता लोकजननि ॥ ३६॥
भवद्वक्त्रच्छायां कलयितुमिहाम्भोजशशिनौ
तपस्तप्त्वा रात्रिन्दिवमनुकल पुष्करतटे ।
गतावर्थानर्थौ परिमलकलङ्कप्रसरणा-
दतो हेतोरेतौ मम जननि वैरं कलयतः ॥ ३७॥
न सौरभ्यं चन्द्रे न च सरसिजे रम्यममृतं
सदादर्शश्चाम्भोरुह वनविहारैकरसिके ।
विधत्ते कस्तूरीतिलककलने सेवकविधिं
ततस्ते वक्त्रेन्दोरुपमितिपदं व्योमकमलम् ॥ ३८॥
वृषोल्लासावासं तव वदनचन्द्रं भ्रमरकै-
र्वृतं साम्यं प्रेप्सन्नलिकुलयुतः सन्नुपगतः ।
ततो राकाचन्द्रो मम जननि दैवज्ञविबुधै-
रिहोच्चोऽयं नीचोऽयमिति विवृणद्भिः परिहृतः ॥ ३९॥
हरेर्वक्षोभागे कमलदलमाल्यभ्रमभृतः
श्रयद्दारिद्र्याद्र्युद्दलनशतकोटिप्रसृतयः ।
ददन्तां कल्याणं मम जलधिकन्ये जननि ते
कटाक्षाः कालिन्दीकुवलकुलकूलङ्कषरुचः ॥ ४०॥
कुरङ्गस्ते रङ्गेश्वरि नयनशृङ्गारविजितो
जहत्तन्द्रं चन्द्रं शरणमगमत् त्वन्मुखरुचा ।
स चापास्तो हस्तार्पितमकृत शम्भोर्मृगमतः
स्फुरत्स्वैश्वर्येष्वष्टसु चरति भिक्षां पशुपतिः ॥ ४१॥
दृशोस्ते साम्येप्सर्भगवति चकोरैः सह मृगो
भवद्वक्त्रामित्रं ह्यकृत शरणं शीतकिरणम् ।
इति द्वेषादास्ये मृगमदमदास्तस्य रुधिरं
ध्रुवं नो चेत् का स्यादुपकृतिरिहात्यन्तसुरभौ ॥ ४२॥
श्रुतिश्रेणीवेणीकुसुमरसपा णिङ्गय(म) पद-
प्रवालश्रीर्नीलोत्पलविसदृशौ तावकदृशौ ।
शिशू खञ्जन्या इत्यनुमनुमहे यत्प्रसरणा-
स्पदे नृत्यन्त्य(न्ये) सदवधयः सिद्धिनिधयः ॥ ४३॥
पुरा पारावारे स्फुरदमृतसारे समुदितः
सरोजानां द्रोग्घा जननि भवती चेत्यशृणवम् ।
करोषि त्वं दृष्ट्या कलितदरहासप्रसरया
परं सिन्धूनिन्दून् भगवति सुधैकात्मवपुषः ॥ ४४॥
दशाकृत्या सत्त्वं नखरमिषतोऽलक्तकमिषा-
द्वजो रक्तं व्यक्तं भगवति पदो तेऽश्रयदिति ।
तमोऽक्ष्णोरर्केन्द्वोः शरणमगमत् कज्जलमयं
न चेत् त्वद्दृष्टानां कथमिव तमोऽम्ब प्रसरति ॥ ४५॥
धनुर्मीनौ भ्रूदृग्युगमजनिषातां समकरौ
कुचौ कुम्भौ श्रोणी कटकमिथुनाभां कलयतः ।
कचेऽस्त्युन्मेषोऽलिश्रित उदधिकन्ये कृतषिय-
स्तदेते सूक्ष्मत्वाज्जननि न-वलग्नं विवृणुते ॥ ४६॥
स्वदृक्शीताशीतांश्चनुकलननेमस्फुटमुखो-
न्मरन्दस्ते हस्ते सितकमलकोशोऽतिललितः ।
महालोकानीकात्मक शिशुपरीपोषधृतस-
त्पयःशङ्खाशङ्कां दधदखिलपुष्टिं दिशतु नः ॥ ४७॥
फणावत्पर्यङ्कप्रणयिनि तवापाङ्गतुलना-
गुणाकाङ्क्षं स्वेन्दीवरमुपनतार्थं कलयितुम् ।
स्वबिम्बावालान्तर्न्यधित सुवया पुष्टिमयता-
मिति स्तोकालोकास्तदुपगतिमङ्कं विवृणते ॥ ४८॥
त्रयो भागाः प्राप्ता इति दनुसुतानां दिविषदां
सुधायां तत्र द्वावसुरविषयावन्तरदधात् ।
दृशोस्ते मोहिन्याकृतिरुदधिकन्ये तव पति-
स्तवापाङ्गासङ्गात् तदिह जगदानन्दमयते ॥ ४९॥
जगुः प्रत्नं रत्नं कतिचिदपरे विद्रुमदलं
परे बिम्बं निम्बच्छदनसदृशभ्रूर्भुगवति ।
तवोष्ठं वक्त्रेन्दोः सविधभुवि भक्त्यौषधिकुलैः
परिन्यस्तं मन्ये ललितमुपदापल्लवमिति ॥ ५०॥
पयः पारावारे फणिनि शयितायाः सदयितं
सुधाभिर्गण्डूषानुषसि रचयन्त्या रुचिलवाः ।
तवोष्ठाद्ये मिश्राः पयसि त इमे शैलकषणाद्
बहिर्वेलं न्यस्ता जननि दधते विद्रुमपदम् ॥ ५१॥
पुरा पारावारं मथितवति वर्गे दिविषदां
विभज्यादान्मोदादमितममृतं यो भगवति ।
जिताविद्यां विद्यामपि कलयतां योऽमृतमदा-
दहो बिम्बोष्ठात् ते मधुरममृतं वष्टि स हरिः ॥ ५२॥
सुधां प्रेप्सन्नब्धेः सलिलमुपगृह्याम्बुदमयैः
करैर्मुक्तासारो यदमृतमुपादत्त तरणिः ।
बलाद् दर्शे गृह्णात्युदधितनये तत्सुहृदि ते
मुखे न्यासं कर्तुं रदनवसनान्तस्त्वदनुजः ॥ ५३॥
हरिः साक्षाल्लाक्षालसितमलिकं वीक्ष्य भवतीं
भवद्रोषोन्मेषां यदरुणिमलीलामपदिशन् ।
प्रसन्नां त्वां कृत्वा समरमत मायी त्वदधरः
समे दद्यादद्यानुपमविभवानम्ब जगताम् ॥ ५४॥
इयं साक्षान्मोक्षस्रुतिररुणबिम्बा त्वदधरा-
दुपर्यास्ये चन्द्रे स्मितमहसि साङ्के तिलकतः ।
ललन्ती मुक्तालिर्जननि कनकाकल्पतटिता
श्रितं वेणी श्रेणीकृतिवरुणलोकं प्रसजति ॥ ५५॥
स्वयं सारग्राही हरिरुदधिसम्बन्धनविधा-
वधाद् रम्भादिस्त्रीः सुरपतिगृहे त्वां तु जगृहे ।
व्यभाङ्क्षीन्निःसारं त्वमृतममरेभ्यस्त्वदधरे
सुवां रस्यां पास्यञ्जननि मम सौभाग्यजननि ॥ ५६॥
सरोजावासिन्या रदनवसनस्य प्रतिमितौ
गिरां भावं तावद् विरमयत शृङ्गारकवयः ।
शरच्चन्द्रे यावद् दिनदिनमनुप्लुत्य सुधया
प्ररोहन् पुण्ड्रेक्षुः फलति फलमारुण्यभरितम् ॥ ५७॥
मम श्रेयो भूयो वितरतु सुधासिन्धुदुहितु-
र्महीयान् बिम्बोष्ठः प्रणमदभयालापमधुरः ।
यमुत्प्रेक्षाञ्चक्रे हरिरिह रदैर्मौक्तिकवृते
सुधापारावारे स्मितवपुषि चिन्तामणिरिति ॥ ५८॥
जपाटोपादाप्तं (त्तं) भवदधरबिम्बेन मधुजि-
त्पदं मुक्ता जातास्तदनुकलनादेव च रदाः ।
अदः साङ्गत्येन स्मितमविरतोल्लासभरितं
न चित्रं यन्मातर्भजति सुमनःसम्पदमिति ॥ ५९॥
जगन्मान्ये मन्ये जननि जलजातप्रहरणो
जगन्नेतुश्चेतोमृगमृगयुरेतन्निपतितम् ।
भवन्नाभीमध्ये निजहृदि विदन्नाक्षिपदुप-
र्यहो कुन्तं रोमावलिघपुषमैन्दीवरमिति ॥ ६०॥
रतिः कामश्चेमावसिततमरोमालिशिलया
मिते मध्यक्षेत्रे प्रथमरससस्यान्यतनुताम् ।
यतो वक्षोऽन्तस्तत्कलितफलराशिद्वयमिदं
जगन्मातः स्फीतस्तनयुगलरूपेण लसति ॥ ६१॥
फणीशानक्षोणीधररमणमन्दारविटप-
द्भुजालम्बामम्ब त्रिभुवनसमुज्जीवनलप्ताम् ।
तनूं विद्मः पद्मे तव यदुदितोरोजफलयोः
पदं रोमालीदोहदमृदुलधूमालिरयते ॥ ६२॥
ग्रहोत्कर्षामर्षात् तव नयनदाक्षिण्यविरहं
विदन्निन्दुः पत्नीः प्रपदनपरास्तेऽम्ब पदयोः ।
नखाकृत्या कृत्वा तव सुमुखतां प्रापदिति त-
तकलङ्कं रोमालीं त्वमसि किमु गर्भीकृतवती ॥ ६३॥
द्विजानां राजायं तव वदनतामेत्य महितां
विधाय स्वं भास्वत्करगतमरिद्वन्द्वमनिशम् ।
बलाद् गृह्णन् रोमावलिमयतमः शृङ्खलिकया
न्यबध्नादम्बास्या वलय इव नाभिर्विलसति ॥ ६४॥
जयश्रीरोमालीं स्मरनृपकनत्कञ्चुकपटी-
कुटीबद्धां रज्जुं कतिचिदसितां तेऽभिदधताम् ।
कुचौ लीलाशैलौ प्रतिरति रतीशोपकलितां
क्रमोन्मूलं नीलोपलसरणिमेनां मनुमहे ॥ ६५॥
प्रभोः पञ्चास्त्रस्य स्तनगिरिजुषः केतनकृते
ध्रुवं नीतो नाभीसरससरसः कोऽपि मकरः ।
यदङ्घ्र्याग्रालग्ना नयनसमयाकृष्टवितता
लताशैवालीव स्फुरति तव रोमालिरनघे ॥ ६६॥
स्मरः सत्या रत्या सह कुचगिरिप्रान्तभुवि ते
चरन् बन्धं कञ्चिद् विहरति किमीप्सुर्हरजितम् ।
सुतं यस्मादम्बापतति निभृता बन्धरततत्-
पृथुश्रोणीवेणी स्फुरति तव रोमावलिमयी ॥ ६७॥
जगद्रक्षाशिक्षाद्यनुगुणगुणालानगलितं
हरेश्चित्तं मत्तद्विपमुरुकुचाद्र्यन्तरगतम् ।
पथा नेतुं चेतोभवभृतिभृता पाणिविधृता
रमे रोमालिस्ते ध्रुवमजनि नीलोत्पलसृणिः ॥ ६८॥
रमे नेयं नाभिः स्मरविरचितावालवलयो
न रोमाली तस्मिन्नुपजनितशृङ्गारलतिका ।
स्तनौ नेमौ तस्यां रथपद विहङ्गद्वयमिदं
मुखेन्दोरालोकान्निभृतमिव भीत्या विलसति ॥ ६९॥
असङ्ख्याका लोकास्तव जननि पाका इति कृपा-
मपारां बिभ्राणा समुदमुदयन्ती जलनिधेः ।
सहामूभ्यां चाभ्याममृतकलशाभ्यां पृथुलसत्-
कुचाभ्यामध्यष्ठाः किमु विपुलवक्षो भगवतः ॥ ७०॥
हरे रक्षोदक्षोत्करहृदयविक्षोभकरव-
स्फुरद्वीरो नैवान्वभवमिह शृङ्गारमिति किम् ।
तपस्तप्त्वा शङ्खो जननि गलतामेत्य किल ते
ययौ शृङ्गारित्वं मुरहरकराश्लेषवशतः ॥ ७१॥
तव स्थानं पद्मं तव च तनयः पद्मवसतिः
करे धत्ते चैतत् तदिदमिह कर्णाग्रनिहितम् ।
वितन्यात् पैशुन्यं स्वविषय इतीन्दुर्द्विरुदगात्
समुक्ताताटङ्काकृतिरवहितस्ते श्रवणयोः ॥ ७२॥
सुधासध्रीचीनप्रचुरवचनालीविरचना-
नदीपारावारीभवदधरबिम्बान्तिकभुवोः ।
तरङ्गग्रन्यस्ता क्रमिकनवमुक्तावलिरिव
स्फुरन्ती लक्ष्मि स्तान्मम शुभकरी दन्तसरणिः ॥ ७३॥
धृतोन्मेषस्त्वेष प्रसभमरुणोऽम्ब त्वदधरो
वृषातन्द्रश्चन्द्रो मुखमुदधिकन्ये बुधनुते ।
जगन्मान्यश्रोणीकटकगुरुभावः परमनु-
ग्रहोच्चत्वं कस्ते जननि विवरीतुं प्रभवति ॥ ७४॥
त्वया पद्मं सद्मीकृतमिति तदाश्रित्य सततं
मृणाली त्वद्बाहुद्वयमृदुलतां काममयताम् ।
न तत् तस्याः शस्यं भवति जडसंसक्तविहृते-
रिति ज्ञात्वा हंसास्तव गतिविदस्तां विलुनते ॥ ७५॥
जगत्कर्ता भर्ता तव तदखिलं च त्वदुदरा-
दुदीतं तच्चाणु ध्रुवमिति विदन् गौतममुनिः ।
जगन्मूलं हे श्रीरणुममनुतैतन्न हि मृषा
हरिश्चाप्यस्य स्त्रीं चरणपरमाणोरजनयत् ॥ ७६॥
गतेयत्तं चित्तं प्रणतजनताया घटयितुं
भवद्रागाभोगौ भगवति करौ ते मनुमहे ।
ययोरेकैकस्मिन्नपि विशदयन्त्यङ्गुलिलता-
प्रपञ्चः पञ्चानामिह सुरतरूणां श्रित इति ॥ ७७॥
यदालम्बा अम्ब प्रचुरवृजिनाश्चापि न पुन-
र्भवासङ्गं सङ्गृह्णत इति वदन्ति श्रुतिगणाः ।
प्रपन्नौ तावेतौ तव मृदुकरौ सन्ततपुन-
र्भवासङ्गं रङ्गक्षितिरमणशृङ्गारगृहिणि ॥ ७८॥
बिभीमः पापेभ्यो न वयमवयन्तस्तव दयां
यतस्ते हस्ताब्जे जननि वरविश्राणनविधौ ।
समाह्वानं कुर्वन् खलखलखलेत्येवमभयं
भवत्या भक्तानां कथयति कनत्कङ्कणगणः ॥ ७९॥
मनोवाक्चेष्टाभिर्मम जननि शेषाचलपतेः
प्रतीपं नैवापः कथमपि कदाचित् क्वचिदिति ।
व्रतं श्रुत्या सत्यापितमपि स म(त)त्याज हि कुतो
यतो मुक्ताहारं त्वमुपरि कुचेऽलङ्कृतवती ॥ ८०॥
स्मितक्षीराम्भोधिः समजनि मुखेन्दोर्विकसितो-
त्पलाभ्यां ते दृग्भ्यामपि समुदितापाङ्गयमुना ।
स्तनाद्री प्रासूत स्तबकव(द)सौ रोमलतिका
रमे चित्रं कार्यात् करणजनिरेषा वपुषि ते ॥ ८१॥
सशर्वाणी वाणी मघवशुकवाणीमुखनम-
त्सुरीवेणीश्रेणीपटुनटनमाणिक्यकटकम् ।
मनोवृत्त्या धृत्या मम समनुसृत्यापि तव पत्-
सरोजं दध्रे श्रीः किमु कमलिनीभावविभवम् ॥ ८२॥
महापद्मे पद्मे सततकृतसद्मे यदुदिते
मुकुन्दः शङ्खेनाभ्यषिचदलिनीलोपरकृते ।
प्रपद्ये पादाब्जं मकरकलितं कच्छपयुतं
तदेतद् यत्सङ्गाद् भवति नवनिक्षेपविभवः ॥ ८३॥
प्रभोः प्राभून्नाभेर्नभ इति बभाषे भगवती
श्रुतिः साभून्मध्यान्नभस इति बाभाति हृदि नः ।
हृदश्चन्द्रः सान्द्रोऽभवदिति तयाभाणि कमले
नखालिस्ते चन्द्रान्नियुतमयुतं चापि सृजति ॥ ८४॥
कदाचित्कैलासे जननि विचरन्त्यां त्वयि पद-
श्रिया शोणेनायं रजतगिरिरेषोऽरुण इति ।
भ्रमाद्रुद्रेऽन्याद्रिं जिगमिषति ते मन्दहसितं
पुना रौप्यं कृत्वारुणदिति रमे संशृणुमहे ॥ ८५॥
महीयस्यां यस्यां पृथगधित गानोपनिषदा
नमः शर्वे खर्वेतरविनयपूर्वं रचयति ।
रमे चूडाचुम्बी शशधरशिशुः सा च तटिनी
नखानां तां कान्तिं क इव विवरीतुं प्रभवति ॥ ८६॥
कला कापि त्वं श्रीः किसलयपदा कीर्तिमहिता
कुमार्यब्धेः कूर्मप्रपद्दलसिता केशवयुता ।
त्विषां कोटिः कैशिक्यसि सपदि ते कौतुकमयः
कटाक्षः कल्याणीः करकनकधाराः किरतु नः ॥ ८७॥
ध्रुवं धावन्धावं धृतपरिभवं सम्प्रति भवं
नवं नावन्नावं नमदनुभवं तेऽम्ब विभवम् ।
अचं जीवञ्जीवं शशभृदुपजीवन्तमिव मां
कटाक्षः कल्याणीः करकनकधाराः किरतु नः ॥ ८८॥
वरं वारन्धारं प्रपदनमरं रञ्जितवतां
धुरं धारन्धारं प्रघणभुवि रंरंस्यस इति ।
स्तुते पारं रङ्गेश्वरि तव कटाक्षोऽचिरमसून्
द्विषां छिन्दन् भिन्दन्नपि भसितसात्कृत्य रमताम् ॥ ८९॥
स्वयं ध्यायन्ध्यायं सुगुणसमुदायं रसमयं
वयं पायम्पायं सदमृतमयं श्रीरिति पदम् ।
प्रहृष्यामः सायन्तनविकचमल्लीरसमिरुत्-
कबर्यम्बालम्ब सधनमविलम्बं वितर नः ॥ ९०॥
नमन्मुक्ताकारं मम हृदयशुक्तौ जननि ते
शरीरं तं मन्त्रं स्वयमपुनरुक्तं बहु जपन् ।
प्रपद्ये सद्यस्त्वां तुरगरथहस्त्यादिबहुलां
तवापाङ्गस्तुङ्गस्थिरकनकधारां दिशतु नः ॥ ९१॥
सुधासिन्धौ सन्धौ फणिपफणमाणिक्यमहसां
परीरम्भारम्भानुभवसुभगं भावुकहृदा ।
लसद्रत्याः पत्या श्रिय उदयदानन्दकलिकः
कटाक्षः कल्याणीं कलयतु स नः काञ्चनखनिम् ॥ ९२॥
जहन्मूल्यं माल्यं सकुतुकमलौल्यं वितरितु-
र्हरेर्योऽभूद्योऽभादपि चिपिटमुष्टिं वितरतः ।
यदालम्बः शम्बप्रहरणवतः कोऽपि विभवः
कटाक्षोऽसौ लक्ष्म्याः पृथुलधनधारा दिशतु नः ॥ ९३॥
श्रियां दातुर्जेतुः श्रितसुरतरोरण्णयगुरोः
स्वयं जिह्वासिंहासनमधिगता मे भगवती ।
मनोमूर्तिः श्रीस्ते मनसि विलसन्ती विगलित-
प्रपन्नार्तिस्फूर्तिर्वसुविसरपूर्तिं दिशतु नः ॥ ९४॥
शिशोरिष्टां चेष्टां जगति जननीवालिकलनां
लता पद्मस्येव त्वसि मम कृपावारिधिमयी ।
वचः पूजाव्याजाद्रचितमपचारं मम रमे
क्षमित्वा कल्याणीं करकनकधारां वितर नः ॥ ९५॥
अतिप्रत्नै रत्नै ....रत्नैः सुरुचिरैः
कृतोन्मेषा भूषाः सुतटिदविशेषा धृतवती ।
स्फुरन्ती पद्मान्तर्मम कनकवर्षाणि किरती
रमेथास्त्रायेथा हरिपुरुषकारैकरसिके ॥ ९६॥
त्रयीसौधे गाधे शठमथनगाथेष्टसरणौ
स्थिरश्रीमद्रामानुजमुनिवचः पुष्पशयने ।
शयाना तन्वाना भगवत इहानन्दमयतां
कटाक्षैवीक्षेथाः प्रपदनयुतां दासजनताम् ॥ ९७॥
कृतानन्दस्यन्दं कनकजलधाराजलघरं
कटाक्षं लक्ष्मि त्वं कलय मयि कारुण्यविवशा ।
विषक्तो यस्यासौ करितुरगरत्नालिभरित-
स्त्रयाणां लोकानां दिशति वरसाम्राज्यविभवम् ॥ ९८॥
इति श्रीलक्ष्मीस्तवः समाप्तः ।
स्तोत्रसमुच्चयः २ (८६)
The Lakmlstava (86) in ninety-eight verses
in the SikharinI metre is probably a work of
Bukkapattanam Venkatacharya, the author of the
other work in the codex. He mentions the name
of Surapuram Annayacharya in this stotra (v. 94).
Proofread by Rajesh Thyagarajan