लक्ष्मीस्तोत्रम्
श्रिया युक्तः श्रीमान् स्थितिजनिलयादीन् कलयते
जगत्या नैवं चेत् स्वमपि न च पुष्णात्यशरणः ।
अतस्त्वां तत्तादृग्दुरधिगमनिःसीमविभवां
भजामो रुद्राणीपरिचितपदाम्भोजयुगलीम् ॥ १॥
अयि श्रीस्त्वं पूर्वं जनकतनयीभूय जगतां
प्रभो रामस्याभूः प्रियसहचरी कोसलपतेः ।
तथापुष्यः कृष्णं नतजननि रुक्मीन्द्रतनया
विना त्वां गोविन्दः प्रभवति जगत्यां क्व च न वा ॥ २॥
त्वया दृष्टः शम्भुस्त्रिपुरमथनायालमरुण-
क्षपानाथावाज्ञां शिरसि निदधानावुदयतः ।
पिबन् भक्त्या पद्मे तव चरणनिर्णेजनजलं
फणीनामीशानः परिवहति मूर्ध्ना वसुमतीम् ॥ ३॥
त्वदीये नम्रार्तिक्षपणनिपुणे पादकमले
वहन् मूर्ध्ना जम्भद्विषदवति गीर्वाणनगरीम् ।
त्वदीयभ्रूभङ्गाज्जनयति जगत् पङ्कजजनि-
स्त्वया दृष्टः को वा जननि पदमुच्चैर्न भजते ॥ ४॥
हरेर्वक्षःपीठीमनुकलमुपास्थाय विपुलां
सुधासारैः श्रीमच्चरणनलिनान्तर्विगलितैः ।
प्रसिञ्चन्त्यञ्चन्ती कुमुदवनमम्भोजनिलये
कथं वा नाधत्से मयि पदयुगं नम्रजननि ॥ ५॥
पुरा ते पादाब्जप्रसृमरपरागान् स्वमकुटे
वहन् रुद्रोऽप्यद्रेर्दुहितरमुदारामुदवहत् ।
शरण्ये लोकानां मुनिजनवरण्ये तनुभृता-
मपाङ्गस्ते भूयादतुलकुशलायाब्जनिलये ॥ ६॥
पुरारेस्त्वां पुष्पैः सह गिरिजयाराधितवतो
गलं गत्वा घोरं गरमभवदिन्दूपलमिव ।
अतः श्रीः श्रुत्यन्ताः प्रणिजगुरुदारांस्तव गुणा-
नियत्तानिर्मुक्ताननवधिकवात्सल्यजलधे ॥ ७॥
शरज्ज्योत्स्नाकान्तिस्तुहिनकरबिम्बाभवदना
कुचाभ्यामानम्रा कुबलयदलस्पर्धिनयना ।
दधाना हस्ताभ्यां नलिनयुगलं कापि महसां
ततिर्विष्णोर्वक्षःस्थलमधिवसन्ती विजयते ॥ ८॥
सचन्द्रे सोष्णांशौ विरमति विरिश्चे सहशिवे
कृतान्ते जातान्ते भजति च विरामं सुरपतौ ।
अनूपे सर्वस्मिन् वटदलतले त्वत्पतिरसौ
मुकुन्दः सानन्दं विहरति रमे कल्पविरमे ॥ ९॥
पयःपारावारे मणिविरचिते मण्टपतले
प्रतीहारे वाणीधरणिधरकन्यापरिवृते ।
मणीपीठे तस्मिन् कनकमपद्मे स्थितिजुषो
हरेरङ्कस्थां त्वां कतिचन भजन्ते कृतधियः ॥ १०॥
परव्योम्नः पत्युः प्रियमहिषि ते पादयुगली-
निदिध्यासा यस्मिन्नुदयमयते लोकजननि ।
तदैवास्मै देवि प्रदिशसि सुरेन्द्राभिलषितं
पदं वाणीं चापि प्रचुरकरुणासारभरिताम् ॥ ११॥
वदन्ति त्वां सन्तो हुतभुजमधिष्ठाय सकलं
समश्नन्तीं होत्रा हुतमनुसवं श्रीर्भगवति ।
पुराणा वाण्येवं प्रणिगदति बिम्बे दिनपतेः
समं पत्यानर्घाण्यनुदिनमिहार्ध्याणि भजते ॥ १२॥
त्वमात्मा त्वं कालस्त्वमसि च परं ज्योतिरुदधि-
स्त्वमक्ष्णोरानन्दस्त्वमसि च परं ब्रह्ममहिषी ।
चिदात्मा त्वं लक्ष्मीर्जगदिह तवापाङ्गचलनं
समालम्ब्य श्रीमान् सृजति भगवानत्त्यवति च ॥ १३॥
गुणैः पूर्णे निर्णेजनजलपवित्रत्रिभुवने
जरादूरीभूते जननि निगमान्तस्तवपदे ।
नतानां स्तोतॄणाममितफलविश्राणनचणौ
वयं वैकुण्ठेशप्रणयिनि भजामस्तव पदौ ॥ १४॥
क्षमाचारौ दूरे गुरुचरणभक्तिस्तु सुतरां
तथा धर्मेऽप्यास्था तव चरणचिन्ता मयि कुतः ।
तथाप्यङ्गापाङ्गानयि कलय लक्ष्मीस्तव दयां
प्रशंसन्त्युद्दामां यमनियमवन्तो मुनिजनाः ॥ १५॥
तवापाङ्गैर्दृष्टो जननि करुणार्द्रैर्भवति यः
स वेत्ता शास्त्राणां स खलु कुलशीलादिसहितः ।
स दर्पं कान्दर्पं शमयति च दान्तेन मनसा
प्रशास्त्येनामीशश्चतुरुदधिवेलां वसुमतीम् ॥ १६॥
अदोषः को वास्ते जन इति रुषं शेषशयितुः
परिष्वङ्गैस्तुङ्गैः प्रशमयसि कारुण्यभरिते ।
मदीयानार्द्रानप्यधिकमपराधान् भगवति
क्षमस्वेमां लक्ष्मि स्तुतिमपि ममाङ्गीकुरु मुदा ॥ १७॥
कदारण्ये पुण्ये कमलवनवापीपरिवृते
तरूणां छायाभिस्तरणिकिरणान्तर्धिनि तले ।
वसन् मातर्लक्ष्मीः कमलवनवासैकरसिके
प्रसीदेति क्रोशन् कलुषमपनेष्ये परिणतम् ॥ १८॥
इति श्रीभूसारम्पुरमधिवसन् राघवकविः
कुले वाधूलाख्ये महति जनिमान् लोकविनुते ।
सतां सेवी सत्वाधिकरघुवराचार्यतनयात्
समुत्पन्नो लक्ष्म्याः स्तुतिभिरधुनानर्च चरणौ ॥ १९॥
इति (वाधूल) राघवकविकृतं श्रीलक्ष्मीस्तोत्रं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (८७)
Vadhula Raghavakavi, author of the Lakshmistotra
(87), may be the same as Viraraghava,
commentator on the UItararamacarita and author
of the Malayajaparinaya. He belonged to the
Vadhtilagotra and was a resident of Bhusarapuram
(Tirumalisai near Poona- malli, Madras). He is
said to have lived in the eighteenth century.
Proofread by Rajesh Thyagarajan