श्रीलक्ष्मी विशेषमन्त्राः
चतुरक्षर लक्ष्मीमन्त्रम्
अस्य श्रीचतुरक्षरलक्ष्मीमहामन्त्रस्य -
भृगु ऋषिः - निचृच्छन्दः - श्रीलक्ष्मीः देवता -
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
ऋष्यादि न्यासः
भृगु ऋषये नमः शिरसि - निचृच्छन्दसे नमः मुखे
श्रीलक्ष्मी देवतायै नमः हृदि - विनियोगाय नमः सर्वाङ्गे
करन्यासः
ॐ श्रां अङ्गुष्टाभ्यां नमः ।
ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ श्रूं मध्यमाभ्यां नमः ।
ॐ श्रैं अनामिकाभ्यां नमः ।
ॐ श्रौं कनिष्ठिकाभ्यां नमः ।
ॐ श्रःकरतलकरपृष्ठाभ्यां नमः ॥
ॐ श्रां ज्ञानाय हृदयाय नमः ।
ॐ श्रीं ऐश्वर्याय शिरसे स्वाहा ।
ॐ श्रूं शक्त्यै शिखायै वषट् ।
ॐ श्रैं बलाय कवचाय हुं ।
ॐ श्रौं तेजसे नेत्राभ्यां वौषट् ।
ॐ श्रः वीर्याय अस्त्राय फट् ।
ॐ भूर्भुवस्युवः इति दिग्बन्धः ॥
ध्यानम् ।
माणिक्यप्रतिमप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजैः,
हस्तग्राहितरत्नकुभसलिलैरासिच्यमानां मुदा ।
हस्ताब्जैर्वरदानमम्बुजयुगाभीतिर्दधानां हरेः,
कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजासनाम् ॥
मूलमन्त्रः - ऐं - श्रीं - ह्रीं - क्लीं ।
षडक्षरी श्रीमन्त्रम्
अस्य श्रीमन्त्रस्य - भृगुः ऋषिः - निचृच्छन्दः -
श्रीमहालक्ष्मीः देवता - सर्वयन्त्रस्य प्राणप्रतिष्ठादि
सर्वतेजोबलप्रकाशादि सर्वशक्त्याप्तये जपे विनियोगः ।
ॐ बीजं- श्रीं शक्तिः -श्रियै कीलकम् ।
ऋष्यादि न्यासः
भृगु ऋषये नमः शिरसि - निचृच्छन्दसे नमः मुखे
श्रीमहालक्ष्मी देवतायै नमः हृदि - विनियोगाय नमः सर्वाङ्गे
करन्यासः
ॐ श्रां अङ्गुष्टाभ्यां नमः ।
ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ श्रूं मध्यमाभ्यां नमः ।
ॐ श्रैं अनामिकाभ्यां नमः ।
ॐ श्रौं कनिष्ठिकाभ्यां नमः ।
ॐ श्रः करतलकरपृष्ठाभ्यांनमः ।
हृदयादिन्यासः
ॐ श्रां ज्ञानाय हृदयाय नमः ।
ॐ श्रीं ऐश्वर्याय शिरसे स्वाहा ।
ॐ श्रूं शक्त्यै शिखायै वषट् ।
ॐ श्रैं बलाय कवचाय हुं ।
ॐ श्रौं तेजसे नेत्राभ्यां वौषट् ।
ॐ श्रः वीर्याय अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोम् इति दिग्बन्धः ॥
ध्यानम्
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥
मूलमन्त्रः - ॐ - श्रीं - श्रियै - नमः ।
श्रीलक्ष्मी बीजमन्त्रम्
अस्य श्री एकाक्षरीलक्ष्मीमहामन्त्रस्य -
भृगुः ऋषिः - निचृच्छन्दः - श्रीलक्ष्मीः देवता -
मम धनाप्तये जपे विनियोगः ।
ऋष्यादि न्यासः
भृगु ऋषये नमः शिरसि - निचृच्छन्दसे नमः मुखे
श्रीलक्ष्मी देवतायै नमः हृदि - विनियोगाय नमः सर्वाङ्गे
करन्यासः
ॐ श्रां अङ्गुष्टाभ्यां नमः ।
ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ श्रूं मध्यमाभ्यां नमः ।
ॐ श्रैं अनामिकाभ्यां नमः ।
ॐ श्रौं कनिष्ठिकाभ्यां नमः ।
ॐ श्रःकरतलकरपृष्ठाभ्यां नमः ॥
हृदयादि न्यासः
ॐ श्रां हृदयाय नमः ।
ॐ श्रीं शिरसे स्वाहा ।
ॐ श्रूं शिखायै वषट् ।
ॐ श्रैं कवचाय हुं ।
ॐ श्रौं नेत्राभ्यां वौषट् ।
ॐ श्रः अस्त्राय पट् ।
ॐ भूर्भुवस्सुवरोम् इति दिग्बन्धः ॥
ध्यानम् ।
कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुर्भिर्गजैः
हस्ताक्षिप्तहिरण्मयामृतघटैरासिच्यमानां श्रियम् ।
बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां
क्ष्मौमाबद्धनितम्बबिम्बलसितां वन्देऽरविन्दस्थिताम् ॥
(ध्यानानन्तरं सर्वतोभद्रमण्डले मण्डूकादि परतत्वान्तपीठदेवताः
संस्थापयेत् - सम्पूजयेत्ततः पूर्वद्यष्टसु दिक्षु नवपीठशक्तीः पूजयेत् ।)
पूर्वे - ॐ विभूत्यै नमः । आग्नेये - ॐ उन्मत्यै नमः ।
दक्षिणस्यां - ॐ कान्त्यै नमः । नैरृत्ये - ॐ सृष्ट्यै नमः ।
पश्चिमे - ॐ कीर्त्यै नमः । वायव्ये - ॐ सन्ध्यायै नमः ।
उत्तरे - ॐ पुष्ट्यै नमः । ईशान्ये - ॐ उत्कृष्ट्यै नमः ।
पीठमध्ये - ॐ ऋत्यै नमः ।
(ततः स्वर्णादि निर्मितं यन्त्रं अग्नि उद्धारणपूर्वकं
श्रीं कमलासनायै नमः इति मन्त्रेण पुष्पाद्यासनं दत्वा
पीठमध्ये संस्थाप्य, प्राणप्रतिष्ठां कृत्वा मूलेन मूर्तिं
प्रकल्प्य, आवाहनादि उपचारैः संपूज्य देव्याज्ञां गृहीत्वा
आवरणपूजां कुर्यात् ।)
प्रथमावरणपूजा - षट्कोणकेसरेषु
अग्निकोणे - ॐ श्रां हृदयाय नमः ।
नैरृत्ये - ॐ श्रीं शिरसे स्वाहा ।
वायव्ये - ॐ श्रूं शिखायै वषट् ।
ईशान्ये - ॐ श्रैं कवचाय हुं ।
पूज्यपूजकयोर्मध्ये - ॐ श्रौं नेत्रत्रयाय वौषट् ।
देवी पश्चिमे - ॐ श्रः अस्त्राय पट् ।
इति षडङ्गानि पूजयेत् ततः पुष्पाञ्जलिं आदाय मूलं उच्चार्य -
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
द्वितीयावरणपूजा - पूज्यपूज्यकयोः अन्तराले प्राच्यादि दिशः प्रकल्पयेत्
पूर्वे ॐ वसुदेवाय नमः वासुदेव श्रीपादुकाम् ।
दक्षिणे ॐ सङ्कर्षणाय नमः ।
पश्चिमे ॐ प्रद्युम्नाय नमः ।
उत्तरे ॐ अनिरुद्धाय नमः ।
आग्नेये ॐ दमकाय नमः ।
नेरृत्ये ॐ सलिलाय नमः ।
वायव्ये ॐ गुग्गुलाय नमः ।
ईशान्ये ॐ गुरुण्डिकाय नमः ।
देव्याः दक्षिणे ॐ शङ्खनिधये नमः ॐ वसुन्धारायै नमः ।
देव्याः वामे ॐ पद्मनिधये नमः ॐ वसुमत्यै नमः ।
(इति पूजयित्वा पुष्पाञ्जलिं आदाय -)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
तृतीयावरण पूजा - ततः पत्राग्रेषु पूर्वादि क्रमेण -
पूर्वे ॐ बलाक्यै नमः बलाकी श्रीपादुकाम् ।
आग्नेये ॐ विमलायै नमः ।
दक्षिणे ॐ कमलायै नमः ।
नेरृत्ये ॐ वनमालिकायै नमः ।
पश्चिमे ॐ विभीषिकायै नमः ।
वायव्ये ॐ पालिकायै नमः ।
उत्तरे ॐ शार्ङ्ग्यै नमः ।
ईशान्ये ॐ वसुमालिकायै नमः ।
(इति पूजयित्वा पुष्पाञ्जलिं आदाय -)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
दश दिक्पालक पूजा - भूपुरे प्राकारादि क्रमेण -
पूर्वे ॐ लं इन्द्राय नमः ।
आग्नेये ॐ रं अग्नये नमः ।
दक्षिणे ॐ यं यमाय नमः ।
नैरृत्ये ॐ क्षं निरृतये नमः ।
पश्चिमे ॐ वं वरुणाय नमः ।
वायव्ये ॐ यं वायवे नमः ।
उत्तरे ॐ कं कुबेराय नमः ।
ईशान्ये ॐ हं ईशानाय नमः ।
ईशान-पूर्वयोर्मध्ये ॐ अं ब्रह्मणे नमः ।
निरृति-पश्चिमयोर्मध्ये ॐ ह्रीं अनन्ताय नमः ।
इति दश दिक्पालकान् पूजयेत् -
अस्त्र पूजा - तत् बाह्ये -
पूर्वे ॐ वं वज्राय नमः ।
आग्नेये ॐ शं शक्तये नमः ।
दक्षिणे ॐ दं दण्डाय नमः ।
नैरृत्ये ॐ खं खड्गाय नमः ।
पश्चिमे ॐ पं पाशाय नमः ।
वायव्ये ॐ अं अङ्कुशाय नमः ।
उत्तरे ॐ गं गदायै नमः ।
ईशान्ये ॐ त्रिं त्रिशूलाय नमः ।
ईशान-पूर्वयोर्मध्ये ॐ पं पद्माय नमः ।
निरृति-पश्चिमयोर्मध्ये ॐ चं चक्राय नमः ।
इति अस्त्राणि पूजयेत् -
घूपदीपादि नीराजनानन्तरं सम्यक् पूजयित्वा जपं कुर्यत् ।
इति श्रीलक्ष्मी विशेषमन्त्राः सम्पूर्णाः ।
Proofread by PSA Easwaran