श्रीलक्ष्म्यष्टाविंशतिनामस्तोत्रम्
करन्यासः -
ॐ श्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ श्रीं मध्यमाभ्यां नमः ।
ॐ श्रीं अनामिकाभ्यां नमः ।
ॐ ह्रीं कनिष्ठिकाभ्यां नमः ।
ॐ श्रीं करतलकरपृष्ठाभ्यां नमः ॥
षडङ्गन्यासः -
ॐ श्रीं हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ श्रीं शिखायै वषट् ।
ॐ श्रीं कवचाय हुम् ।
ॐ ह्रीं नेत्रत्रयाय वौषट् ।
ॐ श्रीं अस्त्राय फट् ॥
नमो लक्ष्म्यै महादेव्यै पद्मायै सततं नमः ।
नमो विष्णुविलासिन्यै पद्मस्थायै नमो नमः ॥ १॥
त्वं साक्षाद्धरिवक्षस्था सुरज्येष्ठा वरोद्भवा ।
पद्माक्षी पद्मसंस्थाना पद्महस्ता परामयी ॥ २॥
परमानन्ददाऽपाङ्गहतसंश्रितदुर्गतिः ।
अरुणानन्दिनी लक्ष्मीर्महालक्ष्मीस्त्रिशक्तिका ॥ ३॥
साम्राज्या सर्वसुखदा निधिनाथा निधिप्रदा ।
निधीशपूज्या निगमस्तुता नित्यमहोन्नतिः ॥ ४॥
सम्पत्तिसम्पता सर्वसुभगा संस्तुतेश्वरी ।
रमा रक्षाकरी रम्या रमणीमण्डलोत्तमा ॥ ५॥
एवमिन्द्रमुखा देवा नामाऽष्टाविंशति पठन् ।
उपतस्थुहरेः कान्तां ब्रह्मशक्ति समाहिताः ॥ ६॥
इति त्रिपुरारहस्ये माहात्म्यखण्डे द्वादशोऽध्यायान्तर्गतं
लक्ष्म्यष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ।
Tripura Rahasya, Mahatmya Khanda, adhyAya 12, 2-7
Encoded and proofread by Durga Sharma