ललितादेवीकवचम्
अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् ।
येन देवासुरनरजयी स्यात्साधकः सदा ॥ ८९-२३॥
सर्वतः सर्वदाऽऽत्मानं ललिता पातु सर्वगा ।
कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ ८९-२४॥
दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा ।
नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम् ॥ ८९-२५॥
तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी ।
महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ ८९-२६॥
वामपार्श्वं सदा पातु इतीमेलरिता ततः ।
माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी ॥ ८९-२७॥
पातु मामूर्ध्वतः शश्चद्दैवताकुलसुन्दरी ।
अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ ८९-२८॥
करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला ।
देहन्द्रियमनः प्राणाञ्ज्वालामालिनिविग्रहा ॥ ८९-२९॥
पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु ।
कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ ८९-३०॥
पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा ।
असत्यात्क्रूरचिन्तातो हिंसातश्चौरतस्तथा ।
स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति ॥ ८९-३१॥
नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः ।
तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ ८९-३२॥
सिंहारूढास्तथा पान्तु पान्तु ऋक्षगता अपि ।
रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ ८९-३३॥
तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगताश्च ताः ।
भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा ॥ ८९-३४॥
भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् ।
द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ ८९-३५॥
गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः ।
असङ्ख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा ॥ ८९-३६॥
सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् ।
कदाचिन्नाशुभं पश्येत्सर्वदाऽऽनन्दमास्थितः ॥ ८९-३७॥
इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् ।
यस्य सन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ ८९-३८॥
इति नारदपुराणे पूर्वभगे एकोननवतितमाध्यायान्तर्गतं
ललिता कवचं समाप्तम् ।
बृहन्नारदीयपुराण । पूर्वभाग । अध्याय ८९/२३-३८॥
bRRihannAradIyapurANa . pUrvabhAga . adhyAya 89/23-38..
Proofread by PSA Easwaran