ललितादेवीस्तोत्रम्
गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् ।
देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥ १०॥
प्रणमामि महादेवीं मातृकां परमेश्वरीम् ।
कालहृल्लोहलोल्लोहकलानाशनकारिणीम् ॥ ११॥
यदक्षरैकमात्रेऽपि संसिद्धे स्पर्द्धते नरः ।
रवितार्क्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः ॥ १२॥
यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् ।
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ १३॥
यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् ।
ब्रह्याण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥ १४॥
यदेकादशमाधारं बीजं कोणत्रयोद्भवम् ।
ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥ १५॥
अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् ।
ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम् ॥ १६॥
नौमीकाराक्षरोद्धारां सारात्सारां परात्पराम् ।
प्रणमामि महादेवीं परमानन्दरूपिणीम् ॥ १७॥
अथापि यस्या जानन्ति न मनागपि देवताः ।
केयं कस्मात्क्व केनेति सरूपारूपभावनाम् ॥ १८॥
वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् ।
देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम् ॥ १९॥
वर्गानुक्रमयोगेन यस्याख्योमाष्टकं स्थितम् ।
वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम् ॥ २०॥
कामपूर्णजकाराख्यसुपीठान्तर्न्निवासिनीम् ।
चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥ २१॥
एतत्स्तोत्रं तु नित्यानां यः पठेत्सुसमाहितः ।
पूजादौ तस्य सर्वास्ता वरदाः स्युर्न संशयः ॥ २२॥
इति नारदपुराणे पूर्वभागे एकोननवतितमाध्यायान्तर्गतं
ललितादेवीस्तोत्रं समाप्तम् ।
बृहन्नारदीयपुराण । पूर्वभाग । अध्याय ८९/१०-२२॥
bRRihannAradIyapurANa . pUrvabhAga . adhyAya 89/10-22..
Proofread by PSA Easwaran